________________
asalaaad श्री सूत्रकृताङ्गसूत्रम् Saamana १४
___ उच्यते, (१) यद्यसौ हन्यमान: प्राणी भवति (२) हन्तुश्च प्राणीत्येवं ज्ञानमुत्पद्यते (३) तथैनं हन्मीत्येवं च यदि बुद्धिः प्रादुष्याद् एतेषु सत्सु (४) यदि कायचेष्टा प्रवर्तते तस्यामपि (५) यद्यसौ प्राणी व्यापाद्यते ततो हिंसा ततश्च कर्मोपचयो भवतीति, एषामन्यतराभावेऽपि न हिंसा, न च कर्मचयः । अत्र च पञ्चपदानां द्वात्रिंशद्भङ्गा भवन्ति, तत्र प्रथमभङ्गे हिंसकः, अपरेष्वेकत्रिंशत्स्वहिंसकः, तथा चोक्तम्
प्राणी प्राणिज्ञानं घातकचित्तं च तद्गता चेष्टा । प्राणैश्च विप्रयोगः पञ्चभिरापद्यते हिंसा ।।१।।"
एतदेव सूत्रकार आह- (१) यो हि जानन् प्राणिनो हिनस्ति, कायेन चानाकुट्टी अहिंसक: तथा (२) अबुध:-अजानान: कायव्यापारमात्रेण यं च हिनस्ति तत्रापि मनोव्यापाराभावान कर्मोपचय इति, अनेन च श्लोकार्धन परिज्ञोपचितमविज्ञोपचयाख्यं भेदद्वयं साक्षादुपात्तं, शेषं त्वीर्यापथस्वप्नान्तिकभेदद्वयं चशब्देनोपात्तं ।
किमेकान्तनैव परिज्ञोपचितादिना कर्मोपचयो न भवत्येव ? भवति काचिदव्यक्तमाति दर्शयितुं श्लोकपश्चार्धमाह
विज्ञोपचितादिना चतुर्विधेनापि कर्मणा स्पृष्टः सन् तत्कर्माऽसौ स्पर्शमात्रेणैव परं संवेदयति, न तस्याधिको विपाकोऽस्ति, कुड्यादिपतितसिकतामुष्टिवत् स्पर्शानन्तरमेव परिशटतीत्यर्थ: अत एव तस्य चयाभावोऽभिधीयते, न पुनरत्यन्ताभाव इति । एवं च कृत्वा तत्परिज्ञोपचितादिकर्म अव्यक्तमेव सावद्यं स्पष्टविपाकानुभवाभावादिति ।।२५।। ननु च यद्यनन्तरोक्तं चतुर्विधं कर्म नोपचयं याति कथं तर्हि कर्मोपचयो भवतीत्येतदाशङ्कयाहसंतिमे तओ आयाणा जेहिं कीरति पावगं । अभिकम्माय पेसाय मणसा अणुजाणिया ।।२६।।
सन्ति इमानि त्रीणि आदानानि यैः क्रियते पापकं, तद्यथा-अभिक्रम्य आक्रम्य प्राणिनं स्वयं व्यापादयति तदेकं कर्मादानं, अपरं प्रेष्यं समादिश्य च प्राणिव्यापादनं द्वितीयं कर्मादानं, तथाऽपरं च व्यापादयन्तं मनसा अनुजानातीत्येतत्तृतीयं कर्मादानं, परिज्ञोपचितादस्यायं भेदः-तत्र केवलं मनसा चिन्तनमिह त्वपरेण व्यापाद्यमाने प्राणिन्यनुमोदनमिति ।।२६।। तदेवं यत्र स्वयं कृतकारितानुमतयः प्राणिघाते क्रियमाणे विद्यन्ते क्लिष्टाध्यवसायस्य प्राणिपातश्च तत्रैव कर्मोपचयो नान्यत्रेति दर्शयितुमाहएए उ तओ आयणा जेहिं कीरति पावगं । एवं भावविसोहीए णेव्वाणमभिगच्छती ॥२७॥
एतानि तु त्रीणि आदानि यैः क्रियते पापकमिति, एवं च स्थिते यत्र कृतकारिता