________________
saddadddd श्री सूत्रकृताङ्गसूत्रम् Saamaais४१
वित्तं पशवो ज्ञातयश्च एतान् बाल: शरणमिति मन्यते, तथाहि-एते मम तेषु-तेषां चाहं न पुनर्जानीते यद् वित्तादिकं नरकादौ पततो नैव त्राणं भवति नापि रोगादिनोपद्रुतस्य क्वचित् शरणं विद्यत इति तथा च जन्मजरामरणभयैरभिद्रुते व्याधिवेदनाग्रस्ते जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके ।।१।। ।।१६ ।। एतदेवाहअब्भागमितम्मि वा दुहे, अहवोवक्कमिए भवंतए । एगस्स गती य आगती, विदुमंता सरणं न मन्नती ||१७||
पूर्वोपात्तासातावेदनीयोदयेन अभ्यागमिते अभ्यागते वा दुःखे सत्येकाक्येवानुभवति दुःखम् अथवा उपक्रान्ते स्वायुषि स्थितिक्षयेण वा भवान्तिके-मरणे समुपस्थिते सति एकस्य एव गतिरागतिश्च भवतीति विद्वान् वित्तादिकमीषदपि शरणं न मन्यते, कुतः सर्वात्मना त्राणमिति, तथाहि-“एक्को करेइ कम्मं फलमवि तस्सिक्कओ समणुहवइ । एक्को जायइ मरइ य परलोयं एक्कओ जाइ ।।१।।।।१७।। अन्यच्चसवे सयकम्मकप्पिया, अव्वत्तेण दुहेण पाणिणो। हिंडंति भयाउळा सढा, जाति-जरा-मरणेहिऽभिद्रुता ||१८||
___ सर्वे प्राणिनः स्वकर्मकल्पिता: स्वकृतकर्मणा पृथिव्यादिभेदेन व्यवस्थिता अव्यक्तेन व्यक्तेन च दुःखेन दु:खिता भयाकुलाः शठा: आत्मवञ्चका जातिजरामरणैरभिद्रुता अरघट्टघटीयन्त्रन्यायेन तास्वेव योनिषु हिण्डन्ति भ्रमन्तीति ।।१८।। किञ्चइणमेव खणं वियाणिया, णो सुलभ बोहिंच आहितं । एवं सहिएऽहिपासए, आह जिणे इणमेव सेसगा ।।१९।।
___ इममेव क्षणम्-अवसरं, न च सुलभा बोधि प्रेत्यधर्मावाप्तिमिति, एवम् आख्यातं विज्ञाय ज्ञानादिभिः सहितः सन् अधिपश्येत्-पर्यालोचयेत् । पाठान्तरं वा 'अहियासए' त्ति परीषहानुदीर्णान् सम्यगधिसहेत । एतच्च आह जिन: ऋषभस्वामी तथा शेषका अपि जिना इदम् एवाहुरिति ।।१९।। एतदेवाहअभविंसु पुरा वि भिक्खवो, आएसा वि भविंसु सुव्वता | एताइं गुणाई आहु ते, कासवस्स अणुधम्मचारिणो ।।२०।।
हे भिक्षवः ! ये अभूवन् पुराऽपि जिना एष्यन्तोऽपि ये भविष्यन्ति, पाठान्तरं वा 'भवन्ती'ति-ये च विद्यन्ते ते सर्वे सुव्रता अविगानेन एतान्-अनन्तरोक्तान् गुणानाहुः, ते च सर्वेऽपि काश्यपस्य-ऋषभस्वामिनो वर्धमानस्वामिनो वा अनुधर्मचारिण इति, अनेन च सम्यग्दर्शनज्ञानचारित्रात्मक एक एव मार्ग इत्यावेदितं भवतीति ।।२० ।। अभिहितांश्च गुणानुद्देशत