________________
००००० श्री सूत्रकृताङ्गसूत्रम् ॐॐॐॐॐ६४ मायावी महाशठ: अयमिति ।। १८ ।। किञ्च -
सयं दुक्कडं च न वयइ, आउट्ठो वि पकत्थति बाले । वेणुवी मा कासी, चोइज्जंतो गिलाइ से भुज्जो ॥१९॥
स्वयं दुष्कृतं च न वदति यथाऽहं दुष्कृतकारीति । आक्क्रुष्ट आपृष्टो वा पाठान्तरं 'आइट्ठोवि' आदिष्टोऽपि प्रकत्थते - 2 - श्लाघत आत्मानं बाल : अकार्यं चापलपति । वेदानुवीचि-पुंवेदोदस्याऽऽनुकूल्यं मैथुनगमनं मा कार्षीः । एवं चोद्यमानोऽसौ मानोत्कटतया ग्लायति भूय इति ।। १९ ।। अपि च
उसिया वि इत्थिपोसेसु, पुरिसा इत्थिवेदखेतण्णा । पण्णासमन्निता वेगे, णारीण वसं उवकसंति ||२०||
उषिता अपि स्त्रीपोषेषु स्त्रीपोषकानुष्ठानेषु भुक्तभोगिनोऽपीत्यर्थः पुरुषाः स्त्रीवेदखेदज्ञा: प्रज्ञासमन्विता अप्येके नारीणां वशम् उपकषन्ति व्रजन्ति । पाठान्तरं च 'उवणमंति' उपनमन्तीति ।। २० ।। इहलोक एव विपाकं दर्शयति
अवि हत्थ पादछेदाए, अदुवा वद्धमंस उक्कंते ।
अवि तेयसाऽभितवणाइं, तच्छिय खारसिंचणाइं च ॥२१॥
अदु कण्ण णासियाछेज्जं, कंठच्छेदणं तितिक्खति ।
इति एत्थ पावसंतता, न य बेंति पुणो न काहिं ति ॥२२॥
स्त्रीसम्पर्को हि हस्तपादच्छेदायाऽपि भवति अथवा वर्धमांसोत्कर्तनं चर्ममांसोत्कर्तनमपि, तेजसाऽभितापनानि, त्वक् छित्त्वा क्षारसेचनानि चाऽथ कर्णनासिकाछेदं, कण्ठच्छेदनं तितिक्षन्ते सहन्ते स्त्रीवशगा इति । इत्थं एवं पापसंतप्ता वेदनामनुभवन्ति न च पुनरेतत् न करिष्यामीति ब्रुवते ।। २१-२२।। किञ्चान्यत्
सुतमेतमेवमेगेसिं, इत्थीवेदेति हु सुअक्खायं ।
एवं पिता वदित्ताणं, अदुवा कम्मुणा अवकरेंति ॥२३॥
श्रुतमेवैतदेकेषां लोकश्रुतिषु तथा स्त्रीवेदे वैशिकादिकेऽपि स्वाख्यातं, तद्यथा “दुर्विर्ज्ञेयो हि भावः प्रमदानाम्” । एवमपि तावदुक्त्वा यदा तून्मार्गप्रस्थिता निवारिता भवति यथा, “मैवं कार्षीः,” तदा ‘“न भूयः करिष्यामि ” इत्येवमपि तावदभ्युपगम्य अथ पुनः कर्मणाचेष्टया अपकरोति-प्रतिपन्नं न करोतीति ।। २३ ।। अथ स्त्रीस्वभावमाविष्करोति