________________
5.
श्री सूत्रकृताङ्गसूत्रम्
प्राणिनां बाधकं चैतच्छास्त्रे गीतं महर्षिभिः । नलिकातप्तकणकप्रवेशज्ञाततस्तथा ।। १ ।। मूलं चैतदधर्मस्य भवभावप्रवर्धनम् । तस्माद्विषान्नवत्त्याज्यमिदं पापमनिच्छता ।। २ ।। उपसंहरन्नाहएवमेगे उ पासत्था, मिच्छादिट्ठी अणारिया । अज्झोववन्ना कामेहिं, पूतणा इव तरुणए ||१३||
एवमेके तु पार्श्वस्थादयो मिथ्यादृष्टयः अनार्या अध्युपपन्ना: कामेषु पूतनेव - डाकिनीव यदि वा मेषीव तरुणके-स्तनन्धये । श्रूयते यतो जिझासुभि: कतरस्यां कतरस्यां जातौ प्रियाणि शिशूनि ? सर्वजातीनाम् अपत्यानि अनुदके कूपे प्रक्षिप्तानि । ताश्च सर्वाः पशुजातय: कूपतटे स्थित्वा स्वछावकानां शब्दं श्रुत्वा रुदन्त्यस्तिष्ठन्ति, नात्मानं कूपे मुञ्चन्ति तत्रैकया पूतनया आत्मा मुक्तः । त एवं पूतनेव तरुणके कामेषु गृद्धाः ।। १३ ।। एवं कामेषु मूर्च्छितानां दोषमाविष्कुर्वन्नाह
अणागयमपस्संता, पच्चुप्पन्नगवेसगा ।
ते पच्छा परितप्पंति, झीणे आउम्मि जोव्वणे ||१४||
५८
अनागतमपश्यन्तः प्रत्युत्पन्नं गवेषकास्ते पश्चात् क्षीणे स्वीये आयुषि यौवने वाऽपगते परितप्यन्ते-अनुशोचन्ति । एवं तेऽपि मरणकाले नाऽस्माभिर्जितेन्द्रियत्वं भावितं वैराग्यं वा, परलोकं च प्राप्याऽनुशोचन्ति ।। १४ ।। ये तूत्तमास्ते नानुशोचन्तीति दर्शयतिजेहिं काले परक्कतं, न पच्छा परितप्पए ।
धीरा बंधणुम्मुक्का, नावकंखंति जीवियं ||१५||
यैः काले पराक्रान्तं न ते पश्चात् परितप्यन्ते । 'सुकडं तेसिं सामण्णं द्वितीयपदपाठान्तरमाश्रित्य-तेषां सुकृतं श्रामण्यमिति । त एव धीरा बन्धनोन्मुक्ता ये नावकाङ्क्षन्ति जीवितं असंयमजीवितं यदिवा जीविते मरणे वा नि:स्पृहा संयमोद्यतमतयो भवन्तीति ।। १५ ।।
अन्यच्च
जहा नदी वेयरणी, दुत्तरा इह सम्मता ।
एवं लोगंसि नारीओ, दुत्तरा अमतीमता ॥१६॥
यथा नदी वैतरणी दुरुत्तरा इह प्रवचने सम्मता, एवं लोकेऽपि नार्यो दुरुत्तरा अमतिमता-निर्विवेकेनेति ।। १६ ।। अपि च
जेहिं नारीण संजोगा, पूयणा पिट्ठतो कता ।
सव्वमेयं निराकिच्चा, ते ठिता सुसमाहिए ||१७||