________________
aadebeddedbaddakad श्री सूत्रकृताङ्गसूत्रम् sardakadaas ५३ | एवं यूयं प्रभाषमाणा दुष्पक्षं असत्प्रतिज्ञाभ्युपगमं यदिवा द्विपक्षं-रागद्वेषात्मकं सदोषात्मीयपक्षसमर्थनाद् रागो, निष्कलङ्कस्यास्मदभ्युपगमस्य दूषणाद् द्वेषः, अथवा वक्ष्यमाणनीत्या बीजोदकोद्दिष्टकृतभोजित्वाद् गृहस्थत्वं यतिलिङ्गाभ्युपगमात्किल प्रव्रजितत्वं चैव सेवध्वमिति ।।११।। आजीविकादीनां दिगम्बराणां चासदाचारनिरुपणायाहतुब्भे भुंजह पाएसु, गिलाणा अभिहडं ति य । तं च बीओदगं भोच्चा, तमुद्देसादि जं कडं ||१२||
यूयं आजीविकादयो गृहस्थगृहे तेषां पात्रेषु भुङ्ग्ध्वं ततश्च पूर्वकर्मपश्चात्कर्मापत्तिः, तथा दिगम्बराणां यतेरानयनाधिकाराभावात् गृहस्थैः अभ्याहते सति, तं च आहारं भुक्त्वा ग्लानो तमुद्दिश्य यत् गृहस्थैः बीजोदकम् उपमर्च कृतं-निष्पादितं तदौदेशिकादि दोषजातं प्राप्नोतीति ।।१२।। किञ्चान्यत्लित्ता तिव्बाभितावेण उज्झिआ, असमाहिया । नातिकंडुइतं सेयं, अरुयस्सावरज्झती ।।१३।।
साधुनिन्दारूपं यूयममर्षरूपेण तीव्राभितापेन लिप्ता: सद्विवेकेन च उज्झिता: अत एव असमाहिताः । यथा अरुषः व्रणस्य अतिकण्डूयितं न श्रेयः, अपितु पीडाहेतुत्वात् अपराध्यति, एवं भिक्षापात्रादिकमपि संयमोपकरणं परिहरतां युष्माकमशुद्धाहारपरिभोगरूपव्रणवतां सम्बद्धसमकल्पाद्यभ्याख्यानरूपमतिकण्डूयितं न श्रेय इति भावः ।।१३।। अपि चतत्तेण अणुसट्टा ते अपडिण्णेण जाणया । ण एस णियए मग्गे असमिक्खा वई किती ||१४||
तत्त्वेन अनुशासिताः ते आजीविकादयो बोटिका वा अप्रतिज्ञेन-असदपि समर्थनीयमित्येवंप्रतिज्ञारहितेन साधुना हेयोपादेयार्थपरिच्छेदकेन जानता, तथाहि-एष न नियत:-न निश्चितो न युक्तिसङ्गतो भवदभ्युपगतो मार्ग: अतो भवतां 'संबद्धसमकल्पा' इत्यादिका वाक्
औदेशिकाभ्याहृतादिभोजनादिका च कृतिः असमीक्षिता एव ।।१४।। एतदेव दृष्टान्तेनाहएरिसा जा वई एसा, अग्गे वेणु व करिसिता । गिहिणं अभिहडं सेयं, भुंजितुं न तु भिक्खुणं ||१५||
या ईदृक्षा भवतां वाक् यथा गृहिणां सम्बन्धि यद् अभ्याहतं तद् यतेर्भोक्तुं श्रेयः, न तु भिक्षूणां सम्बन्धीति एषा वाक् अग्रे वेणुवत् कर्षिता-तन्वी दुर्बला युक्त्यक्षमत्वात् । तनुत्वं चास्या वाच एवं द्रष्टव्यं यथा गृहस्थाभ्याहृतं जीवोपमर्दैन भवति, यतीनां तूगमादिदोषरहितमिति ।।१५।। किञ्च