________________
ॐ०००. श्री सूत्रकृताङ्गसूत्रम् ००० ९५ निक्खम्म दीणे परभोयणम्मि, मुहमंगलिए उदरियाणुगिद्धे । नीवार गिद्धे व महावराहे, अदूर एवेहति धातमेव ||२५||
स्वकीयं धनधान्यादिकं त्यक्त्वा निष्क्रम्य च परभोजने दीनो रसनेन्द्रियवशगो बन्दिवत् मुखे मङ्गलानि प्रशंसावाक्यानि यस्य स मुखमाङ्गलिक: चाटुकारी भवति । एवम् उदरानुगृद्धो नीवारगृद्धः सूकरादिमृगभक्ष्याऽऽसक्तः महावराहः महाकाय : सूकर इव अदूर एव शीघ्रमेव घातं विनाशम् एष्यति यास्यतीति ।। २५ ।। किञ्चान्यत्
अन्नस्स पाणस्सिहलोइयस्स, अणुप्पियं भासति सेवमाणे । पासत्थयं चेव कुसीलयं च निस्सारए होति जहा पुलाए ||२६||
1
स कुशील: अन्नस्य पानस्य इहलौकिकस्य च कृते वस्त्रादेः सेवकवत् अनुप्रियम् अनुभाषते दातारं सेवमानः स एवं पार्श्वस्थत्वं कुशीलत्वं च गच्छति । तथा निष्कणः पुलाक : तुषमात्रावशेष इव निस्सारो भवति संयमानुष्ठानं निस्सारीकरोतीत्यर्थः ।। २६ । । उक्त : कुशीलाः, पुन: सुशीलानाह
अण्णातपिंडेणऽधियासएज्जा, नो पूयणं तवसा आवहेज्जा । सद्देहिं रूवेहिं असज्जमाणे, सव्वेहिं कामेहिं विणीय गेहिं ॥ २७ ॥
अज्ञातपिण्डेन अन्तप्रान्तेन लब्धेन समचित्तः सन् अध्यासयेत् अधिसहेत् अलब्धेन न दैन्यं कुर्यात्, नाप्युत्कृष्टेन लब्धेन मदं विदध्यादित्यर्थः । तपसा न पूजनमावहेत् न पूजासत्कारनिमित्तं तपः कुर्यादित्यर्थः । तथा शब्देषु रूपेषु अपि असजन् एवं सर्वेभ्यः कामेभ्यो गृद्धिम् विनीय अपनीय संयममनुपालयेदिति ।। २७ ।। किञ्च
सव्वाइं संगाई अइच्च धीरे, सव्वाइं दुक्खाइं तितिक्खमाणे । अखिले अगिद्धे अणि यचारी, अभयंकरे भिक्खू अणाविलप्पा ||२८||
सर्वान् सङ्गान् अतीत्य त्यक्त्वा धीरः परीषहोपसर्गजनितानि सर्वाणि दुःखानि तितिक्षमाणः अधिसहन्, अखिल : ज्ञानादिभि: सम्पूर्ण:, कामेषु अगृद्धः, अनियतचारी अप्रतिबद्धविहारी, जीवानाम् अभयङ्करो भिक्षुः, विषयकषायैः अनाविलात्मा अनाकुलस्वभावः सन् संयममनुवर्तत इति ।। २८ ।। किञ्च
भारस्स जाता मुणि भुंजएज्जा, कंखेज्ज पावस्स विवेग भिक्खू | दुक्खेण पुढे धुयमातिएज्जा, संगामसीसे व परं दमेज्जा ||२९||