________________
०००००८ श्री सूत्रकृताङ्गसूत्रम्
०००००० [ ९६
भारस्य संयमभारस्य यात्रार्थं निर्वाहार्थं मुनिर्भुञ्जीत, पूर्वाचारितस्य पापस्य विवेकं विनाशं काङ्क्षेत् भिक्षु:, तथा परीषहोपसर्गादिना दुःखेन स्पृष्टः सन् धूतं संयमं ज्ञानादि वा आददीत, संयमादिना दुःखं जयेदित्यर्थः, यथा दमदन्तो राजर्षिः, यथा वा कश्चित् सुभटः सङ्ग्रामशिरसि शत्रुं दमयति तथा परं कर्मशत्रुं दमयेदिति ।। २९ ।। अपि चअवि हम्ममाणे फलगावतट्ठी, समागमं कखति अंतगस्स ।
णिद्धूय कम्मं ण पवंचुवेति अक्खक्खए वा सगडं ||३०|| त्ति बेमि परीषहोपसर्गै हन्यमानोऽपि फलकावतष्टी यथा फलकमुभाभ्यामपि पार्श्वाभ्यामवतष्टम् अवकृष्टं सत् तनु भवति अरक्तद्विष्टं च तथाऽसावपि साधुस्तपसा कृशशरीर : अरक्तद्विष्टश्च अन्तकस्य मृत्योः समागमं काङ्क्षति । एवं कर्म निर्धूय क्षपयित्वा मोक्षं च प्राप्य न पुनः जन्मजरामरणादिलक्षणं प्रपञ्चं संसारम् उपैति यथा अक्षक्षये गत्युपष्टम्भकस्याऽक्षस्य क्षये विनाशे शकटं समविषमपथरूपं प्रपञ्चं नोपैतीति ब्रवीमीति ।। ३० ।।
"
।। समाप्तं सप्तममध्ययनम् ।।
"
।। अथ वीर्यनामाऽष्टममध्ययनम् ।।
इहानन्तराऽध्ययने कुशीलाः सुशीलाश्च प्रतिपादिता:, तेषां च कुशीलत्वं सुशीलत्वं च संयमवीर्यान्तरायोदयात् तत्क्षयोपशमाच्च भवत्यतो वीर्यप्रतिपादनायेदमध्ययनमारभ्यते, तस्यचेदमादिसूत्रम्
दुहा चेयं सुयक्खायं, वीरियं ति पवुच्चति ।
किं नु वीरस्स वीरत्तं, केण वीरो त्ति वुच्चति ||१||
द्विधा चेदं वीर्यं जीवस्य शक्तिविशेष इति यदनन्तरं प्रोच्यते तत् सुष्ठ्वाख्यातं स्वाख्यातं तीर्थकरादिभिः । किमिति परिप्रश्ने नु शब्दश्च वितर्के, तथाहि किं वीरस्य सुभटस्य वीरत्वं, कथं चाऽसौ वीर इति प्रोच्यते ? इति गाथार्थः । ।। १ ।। अत्र भेदद्वारेण वीर्यस्वरूपमाख्यातुमाह
कम्ममेगे पवेदेंति, अकम्मं वा वि सुव्वता ।
एतेहिं दोहिं ठाणेहिं, जेहिं दिस्संति मच्चिया ॥२॥
एके कर्म क्रियानुष्ठानं, यदिवा कर्माऽष्टप्रकारं कारणे कार्योपचारात् तदेवौदयिकभावनिष्पन्नत्वाद् बालवीर्यमिति प्रवेदयन्ति, द्वितीयं तु अकर्मवीर्यं वीर्यान्तरायक्षयजनितं जीवस्य