________________
asiaaaaaad श्री सूत्रकृताङ्गसूत्रम् aid१२५
॥ अथ समवसरणं द्वादशमध्ययनम् ।। इहानन्तराऽध्ययने मार्गोऽभिहित:, स च कुमार्गव्युदासेन सम्यग्मार्गतां प्रतिपद्यते, अत: कुमार्गव्युदासं चिकीर्षुणा तत्स्वरूपमवगन्तव्यम्, तच्चाऽत्राऽध्ययने निरूप्य क्रियावादाऽक्रियावादाऽज्ञानवादवैनयिकवादानां चतुर्णामपि आक्षेपं कृत्वा यत्र विक्षेपः क्रियते तद् भावसमवसरणम् । तत्र काल-स्वभावनियतिपूर्वकृतपुरुषकारलक्षणान् सर्वानपि कारणत्वेनाऽभ्युपगछन् तथाऽऽत्म-पुण्य-पाप-परलोकादिकं चेच्छन् क्रियावादी सम्यग्दृष्टित्वेनाऽभ्युपगन्तव्यः शेषास्तु वादा अक्रियावादाऽज्ञानवादवैनयिकवादा मिथ्यावादा द्रष्टव्याः। अत्र तु बहुवक्तव्यं तन्मूलटीकाग्रन्थतोऽवसेयम् प्रस्तुतप्रयासस्याऽक्षरगमनिकामात्रत्वात् । अथ सूत्रमनुश्रियतेचत्तारि समोसरणाणिमाणि, पावादुया जाइं पुढो वयंति । किरियं अकिरियं विणयं ति तइयं, अण्णाणमाहंसु चउत्थमेव ||१||
चत्वारि समवसरणानि परतीर्थिकाऽभ्युपगमसमूहरूपाणि यानि प्रावादुकाः पृथक् पृथग् वदन्ति तानि च इमानि, तद्यथा-क्रियाम् अस्तीत्यादिकां वदितुं शीलं येषां ते प्रथमा: क्रियावादिन: (१) । तथा-अक्रियां नास्तीत्यादिकं वदितुं शीलं येषां ते द्वितीया अक्रियावादिनः (२) । तथा विनयं वदितुं शीलं येषां ते तृतीया वैनयिकाः (३) । तथा-अज्ञानमेव श्रेय इति वदितुं शीलं येषां ते चतुर्थास्तु अज्ञानिका इति (४) ।।।१।। अज्ञानिकास्तावत् प्रदर्श्यन्तेअण्णाणिया ता कुसला वि संता, असंथुया णो वितिगिच्छतिण्णा । अकोविया आहु अकोवियाए, अणाणुवीयीति मुसं वदंति ||२||
तेच अज्ञानिकास्तावत् वयमेव कुशला इतिवादिनः अपि सन्त: असंस्तुता: अज्ञानमेव श्रेय इति वादितयाऽसम्बद्धाः । असंस्तुतत्वादेव ते विचिकित्सां चित्तभ्रान्तिं न तीर्णा: नातिक्रान्ताः । स्वतो धर्मोपदेशं प्रति अकोविदाः अनिपुणास्ते अकोविदेभ्यः स्वशिष्येभ्य एवम् आहुः उक्तवन्तः, यथाऽज्ञानमेव श्रेय इत्यज्ञानपक्षसमाश्रयणात्ते अननुविचिन्त्य मृषां वदन्तीति ।।२।। साम्प्रतं वैनयिकवादं निसचिकीर्षुः प्रक्रमतेसच्चं असच्चं इति चिंतयंता, असाहु साहु त्ति उदाहरंता । जेमे जणा वेणइया अणेगे, पुडा वि भावं विणइंसु नाम ||३||
सद्भ्यो हितं सत्यं सम्यग्दर्शनज्ञानचारित्राख्यो मोक्षमार्गः सत्यस्तम् असत्यम् इति चिन्तयन्त: मन्यमानाः, विनयादेव मोक्ष इत्येतदसत्यमपि सत्यत्वेन मन्यमानाः, तथा-असाधुम् अविशिष्टकर्मकारिणं रासभादिकमपि वन्दनादिकया विनयप्रतिपत्त्या साधुमिति उदाहरन्त: प्रतिपादयन्त: न सम्यग्धर्मस्य परीक्षकाः, युक्तिविकलं विनयादेव केवलात् धर्म इत्येवमभ्युपगमात्