________________
ॐ०.०.००८ श्री सूत्रकृताङ्गसूत्रम्
[ १९
कारणोच्छेदेनैव कार्योच्छेदात् अपि तु संसार एव जन्मजरामरणाद्यनेकदुःखव्राताघ्राता भूयो भूयोऽरहट्टघटीन्यायेनानन्तमपि कालं संस्थास्यन्ति ।। १० ।। साम्प्रतं प्रकारान्तरेण कृतवादिमतमेवोप
न्यस्यन्नाह
सुद्धे अपावए आया, इहमेगेसि आहितं ।
पुणो कीडा-पदोसेणं, से तत्थ अवरज्झति ||११||
इह-अस्मिन् कृतवादिप्रस्तावे एकेषां त्रैराशिकाणां गोशालकमतानुसारिणाम् आख्यातं, तथाहि - अ हॆ-अयम् आत्मा (१) शुद्धः शुद्धाचारो भूत्वा (२) मोक्षे अपापको अपगताशेषकर्मा भवति, पुन: असावात्मा शुद्धत्वाकर्मत्वराशिद्वयावस्थो भूत्वा तत्र मोक्षस्थ एव स्वशासनपूजामुपलभ्यान्यशासनपराभवं चोपलभ्य क्रीडयति-प्रमोदते, स्वशासनन्यक्कारदर्शनाच्च प्रद्वेष्टि एवं क्रीडाप्रद्वेषाभ्यां मोक्षस्थ एव (३) अपराध्यति - रजसा श्लिष्यते, ततोऽसौ कर्मगौरवाद्भूयः संसारेऽवतरति, अस्यां चावस्थायां सकर्मत्वात्तृतीयराश्यवस्थो भवति ।। ११ ।। किंचइह संवुडे मुणी जाते, पच्छा होति अपावए । विडं व जहा भुज्जो, नीरयं सरयं तहा ||१२||
इह - मनुष्यभवे प्राप्तो मुनिः भूत्वा संवृतः - यमनियमरतो जातः सन् पश्चाद् अपापको भवति, ततः स्वशासनं प्रज्वाल्य मुक्त्यवस्थो भवति, पुनरपि शासनपूजानिकारदर्शनाद् रागद्वेषोदयात् सकर्मा भवति यथा विकटाम्बु-उदकं निरजस्कं सद् वातोद्धतरेणुसंपृक्तं सरजस्कं भूयो भवति तथा-एवं त्रैराशिकानामुक्तक्रमेण राशित्रयावस्थो भवत्यात्मा । उक्तं च“दग्धेन्धनः पुनरुपैति भवं प्रमथ्य, निर्वाणमप्यनवधारितभीरुनिष्ठम् । मुक्तः स्वयं कृतभवश्च परार्थशूरस्त्वच्छासनप्रतिहतेष्विह मोहराज्यम् ।। १ ।। इति ।। १२ ।। अधुनैतदूषयितुमाह
ताणुवीति मेधावि, बंभचेरे ण ते वसे ।
पुढो पावाउया सव्वे, अक्खायारो सयं सयं ||१३||
एतान्-राशित्रयवादिनो देवोप्तादिलोकवादिनश्च अनुविचिन्त्य मेधावी एतदवधारयेत्, यथा- - नैते वादिनो ब्रह्मचर्ये तदुपलक्षिते संयमानुष्ठाने वसेयुः तथाहि तेषामयमभ्युपगमो यथा स्वदर्शनपूजानिकारदर्शनात् कर्मबन्धो भवति, एवं चावश्यं तद्दर्शनस्य पूजया तिरस्कारेण वोभयेन वा भाव्यं, तत्संभवाच्च कर्मोपचयस्तदुपचयाच्च शुद्धयभावः, शुद्धयभावाच्च मोक्षाभाव:, न च मुक्तानां रागद्वेषानुषङ्गः, तदभावाच्च कुतः पुनः कर्मबन्धः तद्वशाच्च संसारावतरणम् ? अतस्ते यद्यपि कथञ्चिद् द्रव्यब्रह्मचर्ये व्यवस्थितास्तथापि सम्यग्ज्ञानाभावान्न ते सम्यगनुष्ठानभाज इति स्थितम् । अपिच- सर्वे अप्येते प्रावादुकाः पृथक् पृथक् स्वकं स्वकं दर्शनं