________________
aaaaaaaaaaaaarit श्री सूत्रकृताङ्गसूत्रम् sarastaas१२८] सर्वकार्यापत्तेः, न चैतदृष्टमिष्टं वेति ।।६।। पुनरपि शून्यमताविर्भावनायाहणाइच्चो उदेति ण अत्थमेति, ण चंदिमा वड्ढती हायती वा । सलिला ण संदंति ण वंति वाया, वंझे णियते कसिणे हु लोए ।।७।।
____नादित्य उदेति नास्तमेति, न चन्द्रमा वर्धते न हीयते, सलिलानि पर्वतनिर्झरेभ्यो न स्यन्दन्ते=न स्रवन्ति, न वान्ति वाताः, किं बहुनोक्तेन ? कृत्स्न: अप्ययं लोक: वन्ध्यः अर्थशून्य: नियत: निश्चित: अभावरूप इतियावत्, सर्वमिदं यदुपलभ्यते तन्मायास्वप्नेन्द्रजालकल्पमिदमिति एतत्परिहर्तुकाम आहजहा य अंधे सह जोतिणा वि, रुवाइंणो पस्सति हीणनेत्ते । संतं पि ते एवमकिरियआता, किरियं ण पस्संति निरुद्धपण्णा ||८||
यथान्धः जात्यन्धः पश्चाद्वा हीननेत्र: ज्योतिषाऽपि प्रदीपादिना सह वर्तमान: रूपाणि घटपटादीनि न पश्यति, एवं ते अपि अक्रियावादिनः सदपि घटपटादिकं वस्तु क्रियां च न पश्यन्ति यतस्ते निरूद्धप्रज्ञा : सन्तीति ।।८।। अनिरूद्धप्रज्ञास्तु ज्ञानिनः पदार्थान् करतलामलकन्यायेन पश्यन्ति, तदाहसंवच्छरं सुविणं लक्खणं च, निमित्तं देहं उप्पाइयं च । अटुंगमेतं बहवे अहित्ता, लोगंसि जाणंति अणागताई ॥९॥
सांवत्सरं ज्योतिष, स्वप्नं स्वप्नप्रतिपादकं ग्रन्थं, लक्षणं=श्रीवत्सादिकं, निमित्तं वाक्प्रशस्तशकुनादिकं, देहे भवं दैह-मषकतिलकादि, उत्पाते भवम् औत्पातिकम् उल्कापात-दिग्दाह-निर्घात-भूमिकम्पादिकं तथा अष्टाङ्ग च निमित्तमधीत्य बहवे लोका: लोके अस्मिन् अतीतानि अनागतानि च वस्तूनि जानन्ति, न चैतत् शून्यवादिषु घटते । तस्मादप्रमाणकमेव तैरभिधीयत इति ।।९।। एवं व्याख्याते सति पर आह-अष्टाङ्गनिमित्तशास्त्राणां सवृत्तिपरिभाषाणां नैकश्लोकलक्षप्रमाणत्वात् तद्वेदिनामपि परस्परत: षट्स्थानपतितत्वेन व्यभिचारित्वमत इदमाहकेई निमित्ता तहिया भवंति, केसिंचि तं विप्पडिएति णाणं । ते विज्जभावं अणहिज्जमाणा, आहंसु विज्जापलिमोक्खमेव ।।१०।।
छान्दसत्वात् प्राकृतशैल्या वा लिङ्गव्यत्यय इति कानिचिद् निमित्तानि तथ्यानि सत्यानि भवन्ति, केषाञ्चित् तत् ज्ञानं विपर्यासं व्यत्ययम् एति तदेवं निमित्तशास्त्रस्य व्यभिचारमुपलभ्य ते अक्रियावादिनो विद्यभावं विद्याम् अनधीयानाः सन्तो निमित्तं तथा चान्यथा च भवतीति मत्वा विद्यायाया: श्रुतस्य परिमोक्षं परित्यागं विद्यापरिमोक्षम् आहुः । यदिवा क्रियाया