________________
aaaaaaaaat श्री सूत्रकृताङ्गसूत्रम् aadiadda१२९ अभावात् विद्ययैव-ज्ञानेनैव मोक्षमाहुरिति । क्वचित् चरमपदस्यैवं पाठ: ‘जाणामु लोगंसि वयंति मन्द' त्ति विद्यामनधीत्यैव वयं स्वयमेव लोकं लोके वा भावान् जानीमः । एवं मन्दा: जडा वदन्तिा न च निमित्तस्याऽतथ्यतेति वाच्यं सम्यगधीतस्य श्रुतस्याऽविसंवादित्वात् । दृश्यते च चन्द्रोपरागादीनां संवादितत्वमिति ।। यदपि षट्स्थानपतित्वमुद्धोष्यते तदपि पुरुषा:श्रितक्षयोपशमवशेन, न च प्रमाणाभासव्यभिचारे सम्यक्प्रमाणव्यभिचाराशङ्का कर्तुं युज्यते । न हि सुविवेचितं कार्य कारणं व्यभिचरति । तदेवं सुविवेचितं निमित्तश्रुतमपि न व्यभिचरतीति ।।१०।। साम्प्रतं क्रियावादाभिमतं दुदूषयिषुस्तन्मनमाविष्कुर्वन्नाहते एवमक्खंति समेच्च लोगं, तहा तहा समणा माहणा य ।. सयंकडं णण्णकडं च दुक्खं, आहंसु विज्जाचरणं पमोक्खं ||११||
क्रियात एव सर्वं सिध्यतीति स्वाभिप्रायेण लोकं चराचरं समेत्य ज्ञात्वा एवं ते सावधारणम् आख्यान्ति प्रतिपादयन्ति यथा सर्वमस्त्येवेति न किञ्चिन्नास्तीति । कथमाख्यान्ति ? यथा यथा शुभाऽशुभा क्रिया तथा तथा स्वर्गनरकादिकं फलमिति ते च श्रमणाः तीर्थका ब्राह्मणा: वा क्रियात एव सिद्धिमिच्छन्ति । किञ्च-यत्किञ्चित् संसारे दुःखं तथा सुखं तत् सर्वं स्वयम् एव कृतं नान्यकृतं न कालेश्वरादिना कृतम् । यदिवाऽन्यथा पातनिका-केनैतानि समवसरणानि प्रतिपादितानि, यच्चोक्तं यच्च वक्ष्यते इत्येतदाशङ्क्याह-ते तीर्थकरा: एवम् अनन्तरोक्तया प्रक्रियया सम्यग् आख्यान्ति-लोकं केवलज्ञानेन समेत्य ज्ञात्वा । किम्भूतास्ते एवमाख्यान्तीत्याह-तथागता: तीर्थकरत्वं केवलज्ञानं च गताः प्राप्ताः, श्रमणा: साधवः, ब्राह्मणाः संयतासंयता: आख्यान्ति-यथा यथा समाधिमार्गो व्यवस्थितस्तथा तथा कथयन्ति, एतच्च कथयन्ति-यत्किञ्चित् दुःखं च सुखं तत् स्वयम् आत्मना कृतं, नान्येन कालेश्वरादिना कृतमिति । तथा चोक्तम् “सव्वो पुव्वकयाणं कम्माणं पावई फलविवागं । अवराहेसु गुणेसु य निमित्तमित्तं परो होइ" ।।१।।
___ एतच्चाहुस्तीर्थकरगणधरादयः विद्या च ज्ञानं, चरणं च क्रिया, ते द्वेऽपि विद्येते कारणत्वेन यस्येति विद्याचरण: प्रमोक्षस्तं विद्याचरणं प्रमोक्षम् । अयं भाव:-न च ज्ञानरहितायाः क्रियायाः सकाशात् सिद्धिः, तदुपायपरिज्ञानाभावात्, अतो ज्ञानस्यापि प्राधान्यं, नापि ज्ञानादेव सिद्धिरित्याहुस्तीर्थकरगणधरादय इति ।।११ ।। किञ्च- . ते चक्खु लोगंसिह णायगा तु, मग्गाऽणुसासंति हितं पयाणं । तहा तहा सासयमाहु लोए, जंसी पया माणव ! संपगाढा ||१२||
ते तीर्थकरादयः चक्षुरिव चक्षुः लोके यथावस्थितपदार्थोपदेशकत्वात् अत एव ते नाय