________________
Badosaasd श्री सूत्रकृताङ्गसूत्रम् saa३२ यिनः-स्वजनास्तथापि ते न लभन्ते आत्मसात्कर्तुं निजं परिग्रहम्-आत्मीयपरिग्रहबुद्ध्या गृहीतमिति ।।९।। अत्रान्तरे नागार्जुनीयास्तु पठन्ति “सोऊण तयं उवट्ठियं, केइ गिही विग्घेण उट्ठिया । धम्ममि अनुत्तरे मुणी, तंपि जिणिज्ज इमेव पंडिए ।।९।। कण्ठ्यं नवरं 'तंपि' तानपि गृहिण इति । एतदेवाहइहलोगदुहावहं विऊ, परलोगे य दुहं दुहावहं । विद्धंसणधम्ममेव तं, इति विज्जं कोऽगारमावसे ||१०||
इहलोके हिरण्यस्वजनादिकं दुःखावहम् इति विद्या : जानीहि, परलोके च तन्ममत्वापादितकर्मजं दुःखं तदप्यपरं दुःखावहं, तथा तद् उपार्जितमपि धनादिकं विध्वंसनधर्मम् इति विद्वान्-जानन् कः सकर्ण: अगारं-गृहम् आवसेत् ? उक्तं च-"दारा: परिभवकारा बन्धुजनो बन्धनं विषं विषयाः । कोऽयंजनस्य मोहो? ये रिपवस्तेषु सुहृदाशा ।।१।।१०।। पुनरप्युपदेशमधिकृत्याहमहयं पलिगोव जाणिया, जा वि य वंदण-पूयणा इहं । सुहमे सल्ले दुरुद्धरे, विदुमं ता पजहेज्ज संथवं ||११||
संसारिणां दुस्त्यजत्वाद् हिरण्यस्वजनादिकः महान् परिगोपः भावत: अभिष्वङ्गः यापि च राजादिभि: वन्दनापूजना अह साऽपि गर्वापादकत्वात् सूक्ष्मं शल्यं दुरुद्धरम् इति ज्ञात्वा विद्वान् संस्तवं परिचयमभिष्वङ्गं प्रजह्यात्-परित्यजेदिति । नागार्जुनीयास्तु पठन्ति“पलिमंथं महं वियाणिया, जाऽविय वंदणपूणा इदं सुहुमं सल्लं दुरुद्धरं, तंपि जिणे एएण पंडिए ।।१।। सुगमं, नवरं पलिमन्थः विघ्नः स्वाध्यायादिसदनुष्ठानस्य सद्गतेर्वा, तथा 'जयेद्' अपनयेत् पण्डित एतेन वक्ष्यमाणेनेति ।।११।। एगे चरे ठाणमासणे, सयणे एगे समाहिए सिया । भिक्खू उवधाणवीरिए, वइगुत्ते अज्झप्पसंवुडे ।।१२।।
भिक्षुः रागद्वेषविरहाद् एकश्चरेत् तथैव स्थाने-कायोत्सर्गादिके आसने शयने च एकः समाहित उपधानवीर्य:-तपोवीर्यवान् वाग्गुप्तः अध्यात्मसंवृतः मनसा च संवृतः स्यादिति ।।१२।। किञ्चणो पीहे णावऽवंगुणे, दारं सुन्नघरस्स संजते । पुट्ठोण उदाहरे वयिं, न समुच्छे नो य संथरे तणं ।।१३।।
संयत: कपाटादिना शून्यगृहस्य द्वारं न पिदध्यान्न चोद्घाटयेत्, केनचिन्निमित्तेन तत्रस्थोऽन्यत्र वा केनचिद्धर्मादिकं मार्ग वा पृष्टः सन् सावद्यां वाचं नोदाहरेत् ब्रूयात् आभिग्र