________________
aaaaaaad श्री सूत्रकृताङ्गसूत्रम् sitaas६१] पदेशेन परिहरन्ति परिदधति, अध:कायं-जङ्घोर्वादिकं दर्शयन्ति तथा बाहूध्दृत्य कक्षामादर्य साधुमनुव्रजेत् अभिमुखं व्रजेत् ।।३।। अपि च-ताः स्त्रियस्तं साधुं योग्यैः शयनासनादिभिरेकदा निमन्त्रयन्ति । एवमादीनि अन्यान्यपि भ्रूकटाक्षविक्षेपादीनि विरूपरूपाणि नानारूपाणि तस्य साधो: पाशा : बन्धनरूपाणि जानीयादिति ।।४।। तानि पुन: कथं परिहर्तव्यानि ? उच्यतेनो तासु चक्खु संधेज्जा, नो वि य साहसं समभिजाणे । नो सद्धियं पि विहरेज्जा, एवमप्पा सुरक्खिओ होइ ||५||
नैव तासु चक्षुः सन्दध्यात् सन्धयेद्वा, नापि च साहसं-अकार्यकरणं समनुजानीयात्, नैव स्त्रीभिः सार्धमपि ग्रामादौ विहरेत् । एवमात्मा सुरक्षितो भवति । पाठान्तरं च 'रक्खित्तु सेओ' रक्षित्वा श्रेयः, स इह परलोके च सुरक्षितो भवतीति ।।५ ।। पुनरिदानीं पाशा: एता: कथं भवन्तीत्याहआमंतिय उस्सविया, भिक्खं आतसा निमंति । एताणि चेव से जाणे, सद्दाणि विरूवरूवाणि ||६||
आमन्त्र्य-संकेतं ग्राहयित्वा 'उस्सविया' विश्रम्भे पातयित्वा च भिक्षुमकार्यकरणायऽऽत्मनोपभोगेन निमन्त्रयन्ति यथा युष्मदीयमिदं शरीरमित्यादि प्रलोभनेन । स च भिक्षुः विरूपरूपान्-नानाप्रकारान् एतान् शब्दादिविषयान् सन्मार्गार्गलाभूतान् दुर्गतिगमनैकहेतून् जानीयात् परिहरेच्चेति ।।६।। अन्यच्चमणबंधणेहिं णेगेहिं, कलुणविणीयमुवगसित्ताणं । अदु मंजुलाइं भासंति, आणवयंति भिन्नकहाहिं ||७||
अनेकैर्मनोबन्धनैः मञ्जुलालापस्निग्धावलोकनादिभि: करुणालापविनयपूर्वकम् उपक्रम्य पाठान्तरं च ‘उवगसिताणं' उपकस्य-समीपमागत्य अथ अनन्तरं मञ्जुलानि भाषन्ते तथा भिन्नकथाभिः तं साधुमकार्यकरणं प्रति आनामयन्ति स्ववशं वा ज्ञात्वा आज्ञापयन्ति आज्ञां कारयन्तीति ।।७।। अपि चसीहं जहा व कुणिमेणं, णिब्भयमेगचरं पासेणं । एवित्थिया उ बधंति, संवुडं एगतियमणगारं ||८||
यथा च निर्भयमेकचरं सिंहं कुणिमेण-मांसादिना प्रलोभ्य पाशेन बध्नन्ति तथैव स्त्रियो गतिविभ्रमेङ्गिताकारहास्यादिना संवृतमेकचरमनगारं बध्नन्ति, किं पुन: असंवृतम् ? ।।८।। किञ्च