________________
ॐ श्री सूत्रकृताङ्गसूत्रम्
९९
मोक्षं प्रति नयनशीलं नैयायिकं तीर्थकरादिभिः सुष्ट्वाख्यातं स्वाख्यातं धर्मम् उपादाय सम्यग् इहते चेष्टते समीहते ध्यानाध्ययनादावुद्यमं विधत्ते इत्यर्थः । अथ धर्मध्यानारोहणायालम्बनमाह-यद्बालवीर्यं तद् भूयो भूयः पौनः पुन्येन दुःखमावासयतीति दुःखावासं वर्तते, यथा यथा च बालवीर्यवान् नरकादिषु पर्यटति तथा तथा चाऽस्याशुभाऽध्यवसायित्वात् अशुभत्वं प्रवर्धते इत्येवं संसारस्वरूपमनुप्रेक्षमाणस्य धर्मध्यानं प्रवर्तत इति ।। ११ ।। साम्प्रतमनित्यभावनामाश्रित्याह
ठाणी विविहठाणाणि, चइस्संति न संसओ ।
अणीतिते अयं वासे, णायएहि य सुहीहि य ॥१२॥
देवलोकादिषु स्थानानि विद्यन्ते येषां ते स्थानिन: विविधस्थानानि त्यक्ष्यन्ति न अत्र संशय:, तथा-ज्ञातिभि: बन्धुभि: सुहृद्भि: मित्रैर्य: संवास : स: अनित्यः । चकारौ धनधान्यशरीराद्यनित्यत्वभावनार्थम् अशरणाद्यशेषभावनार्थं चेति ।।१२।। अपि च
एवमायाय मेहावी, अप्पणो गिद्धिमुद्धरे ।
आरियं उवसंपज्जे सव्वधम्ममकोवियं ॥१३॥
एवम् अनित्यत्वम् आदाय अवधार्य आत्मनो गृद्धिम् उद्धरेत् अपनयेत् । तथा-सर्वैः कुतीर्थिकधर्मैः अकोपितम् अदूषितं सर्वधर्माऽकोपितम् आर्यं सुधर्मम् उपसम्पद्येत्, यदिवा सर्वधर्मैः अनुष्ठानरूपैः अगोपितं प्रकटं कुत्सितकर्तव्याभावात् सर्वधर्माऽगोपितं सुधर्मं समाश्रयेदिति ।।१३।। सुधर्मपरिज्ञानं च यथा भवति तद्दर्शयितुमाह
सहसम्मइए णच्चा, धम्मसारं सुणेत्तु वा । समुट्ठिते अणगारे, पच्चक्खायपाव ॥१४॥
सहसन्मत्या स्वमत्या वा जातिस्मरणादिना प्रत्येकबुद्धवत् ज्ञात्वा श्रुत्वा वा चिलातपुत्रवत् धर्मसारं चारित्रम् उत्तरोत्तरगुणसम्पत्तये समुपस्थितस्तु अनगार: प्रत्याख्यातं निराकृतं पापकं सावद्यानुष्ठानं येनाऽसौ प्रत्याख्यातपापको भवतीति ।।१४।। किञ्चाऽन्यत्– जं किंचुवक्कमं जाणे, आउक्खेमस्स अप्पणो । तस्सेव अंतरा खिप्पं, सिक्खं सिक्खेज्ज पंडिते ॥१५॥
आत्मन: आयु: क्षेमस्य आरोग्यस्य येन केनचित् प्रकारेण यस्मिन् वा काले भाविनम् उपक्रमम् उपद्रवं जानीयात्, ज्ञात्वा च पण्डितः तस्यैव उपक्रमस्य कालस्य वा अन्तराले क्षिपं संलेखनारूपां शिक्षां भक्तपरिज्ञेङ्गितमरणादिकां वा शिक्षेत कुर्यादिति ।। १५ ।। किञ्चा