________________
ॐ
श्री सूत्रकृताङ्गसूत्रम् ००१
।। श्री शंखेश्वरपार्श्वनाथाय नमः ॥
|| श्री प्रेमसूरिसद्गुरुभ्यो नमः ।।
अक्षरगमनिकाऽलङ्कृतं श्री सूत्रकृताङ्गसूत्रम् (प्रथमः श्रुतस्कन्धः)
जिनान् सर्वान् च श्रीवीरं, गुरून्नत्वाऽऽशुबोधये । कुर्वे सूत्रकृताङ्गस्याऽक्षरगमनिकां श्रुतात् ||१||
समयाख्यं प्रथममध्ययनम् (प्रथमोद्देशक : )
श्रीसुधर्मस्वामी श्रीजम्ब्वादीन् प्रत्युपदिशति
बुज्झिज्जत्ति, तिउट्टिज्जा, बंधणं परिजाणिया ।
किमाह बंधणं वीरो ? किं वा जाणं तिउट्टई ? ||१||
बुध्येत बन्धनं कर्म तद्धेतुन् वा तच्च परिज्ञाय त्रोटयेत । एवमभिहिते जम्बूस्वाम्यादिको विनेय: प्रपच्छ-किमाह बन्धनं श्रीवीर : ? किं वा जानन् तद् बन्धनं त्रोटयति ततो वा त्रुट्यति ? ।।१ ।। निर्वचनाय बन्धनमाह
चित्तमंतमचित्तं वा, परिगिज्झ किसामवि ।
अन्नं वा अणुजाणाति, एवं दुक्खा ण मुच्चइ ॥२॥
कृशमपि = अल्पमपि चित्तमंतं-सचित्तम् अचित्तं तदुभयं वा परिगृह्यऽन्यान्वा ग्राहयित्वा गृह्णतो वाऽन्याननुजानाति एवं स दुःखान्न मुच्यते । परिग्रहेष्वप्राप्तनष्टेषु काङ्क्षाशोकौ प्राप्तेषु च रक्षणमुपभोगे चाऽतृप्तिरेवं परिग्रहे सति दुःखात्मकाद्बन्धनान्न मुच्यत इति ।।२।। परिग्रहवतश्चावश्यंभाव्यारम्भस्तस्मिंश्च प्राणातिपात इति दर्शयितुमाह यदिवा प्रकारान्तरेण
बन्धनमेवाह
सयं तिवाय पाणे, अदुवा अण्णेहिं घायए । हणंतं वाऽणुजाणाइ, वेरं वड्डेति अप्पणो ॥३॥
स परिग्रहवान् स्वयं त्रिभ्यो मनोवाक्कायेभ्य आयुर्बलशरीरेभ्यो वा पातयेत् अकारलोपाद्वा अतिपातयेत् प्राणिनः अथवा अन्यैरपि घातयेत् घ्नतश्चान्याननुजानाति, एवम् आत्मनो वैरं = कर्म वर्धयति, ततश्च दुःखपरम्परारूपाद् बन्धनान्न मुच्यत इति ।। ३ ।। पुनर्बन्धनमेवाश्रित्याह