________________
Baaaaaaaad श्री सूत्रकृताङ्गसूत्रम् saicsindia १७
तमेव-आधाकर्मोपभोगदोषम् अविजानन्तो विषमे-कर्मबन्धे द्वन्द्वप्रचुरे वा संसारे अकोविदाः तस्मिन्नेव संसारोदरे कर्मपाशावपाशिता दुःखिनो भवन्ति यथा विशाला एव वा वैशालिका: विशाल:-समुद्रस्तत्र भवा वा वैशालिकाः, विशालाख्यविशिष्टजात्युद्भवा वा वैशालिका: मत्स्या: उदकस्याभ्यागमे-समुद्रवेलायां सत्यां नदीमुखमागताः पुनर्वेलापगमे उदकस्याल्पभावेन शुष्के तस्मिन्नेव धुनीमुखे=नदीमुखे 'उदगस्स पभावेण'मिति पाठमाश्रित्य-उदकस्य प्रभावेन नदीमुखमागताः पुनर्वेलापगमे तस्मिन्नुदके शुष्के-वेगेनैवापगते सति बृहत्त्वाच्छरीरस्य तस्मिन्नेव नदीमुखे विलग्ना: आमिषार्थिभिः ढकैः ककैश्च विलुप्यमाना दुःखिन:सन्तो घातं-विनाशं यन्ति ।।२-३ ।। एवं दृष्टान्तमुपदर्थ दार्टान्तिके योजयितुमाहएवं तु समणा एगे, वट्टमाणसुहेसिणो | मच्छा वेसालिया चेव, घातमेसंतऽणंतसो ||४||
एवं तु श्रमणा एके-शाक्यपाशुपतादयः स्वयूथ्या वा वर्तमानसुखैषिणो मत्स्या वैशालिका इव घातं-विनाशम् एष्यन्ति-अनुभविष्यन्ति अनन्तश:-अरहट्टघटीन्यायेन भूयो भूयः संसारोदन्वति निमज्जनोन्मज्जनं कुर्वाणा न ते संसाराम्भोधेः पारगामिनो भविष्यन्तीत्यर्थः ।।४।। साम्प्रतमपराज्ञानाऽभिमतोपप्रदर्शनायाहइणमन्नं तु अण्णाणं, इहमेगेसिमाहियं । देवउत्ते अयं लोगे, बंभउत्ते त्ति आवरे ||५||
इदम् अन्यत्तु अज्ञानम् इहैकेषाम् आख्यातम्, तद्यथा-देवेनोप्तो देवोप्तः कर्षकेणेव बीजवपनं कृत्वा निष्पादितोऽयं लोक इत्यर्थः । देवगुप्तो देवैर्वा गुप्तो रक्षित इति देवपुत्रो वाऽयं लोक इत्येवमादिकमज्ञानमिति, तथा ब्रह्मणा उप्तो ब्रह्मोप्तोऽयं लोक इत्यपरे एवं व्यवस्थिताः, तेषामयमभ्युपगम: ब्रह्मा जगत्पितामहः स चैक एव जगदादावासीत्तेन च प्रजापतयः सृष्टाः तैश्च क्रमेणैतत्सकलं जगदिति ।।५।। तथाईसरेण कडे लोए, पहाणाति तहावरे | जीवाऽजीवसमाउत्ते, सुहदुक्खसमन्निए ||६||
ईश्वरेण कृतोऽयं लोक इत्येवमेके ईश्वरकारणिका अभिदधति, तथाऽपरे-सांख्या: प्रतिपन्ना यथा-प्रधानादिकृतोऽयं लोकः, सत्त्वरजस्तमसां साम्यावस्था प्रकृति: सा च पुरुषार्थं प्रति प्रवर्तते, आदिग्रहणाच्च 'प्रकृतेर्महान् ततोऽहङ्कारः तस्माच्च गण: षोडशकः, तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानी' त्यादिकया प्रक्रियया सृष्टिर्भवतीति, यदिवा आदिग्रहणात् स्वभावादिकं गृह्यते, ततश्चायमर्थ:-स्वभावेन कृतोऽयं लोकः, कण्टकादितैक्ष्ण्यवत्, तथान्ये नियतिकृतो लोको मयूरपिच्छवत्, इत्यादिभि: कारणैः कृतोऽयं लोको जीवाजीवसमायुक्तः सुख