SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ॐ श्री सूत्रकृताङ्गसूत्रम् अहिमे संति आवट्टा, कासवेण पवेदिता | बुद्धा जत्थावसप्पंति, सीयंति अबुहा जहिं ||१४|| अथ इमे वक्ष्यमाणाः प्राणिनं भवसमुद्रे आवर्तयन्ति-भ्रामयन्तीति आवर्ता :-विषयाभिलाषसंपादकसंपत्प्रार्थनाविशेषाः काश्यपेन श्रीवर्द्धमानस्वामिना प्रवेदिताः सन्ति यत्र येषु सत्सु बुद्धा दूरत एव अवसर्पन्ति अबुधास्तु यत्र- येषु सीदन्ति आसक्ति कुर्वन्तीति ।।१४।। ताने वावर्तान् दर्शयितुमाह रायाणो रायमच्चा य, माहा अदुव खत्तिया | निमंतयंति भोगेहिं, भिक्खुयं साहुजीविणं ||१५| राजानो राजामात्याश्च ब्राह्मणा अथवा क्षत्रिया निमन्त्रयन्ति भोगैर्भिक्षुकं साधुजीविनं-संयमजीविनं यथा ब्रह्मदत्तेन चित्रसाधुरुपनिमन्त्रित इति ।। १५ ।। एतदेव दर्शयितु माह ४९ हत्थऽस्स-रह-जाणेहिं, विहारगमणेहि य । भुंज भोगे इमे सग्घे, महरिसी पूजयामु तं ॥१६॥ हस्त्यश्वरथयानैः विहारगमनैश्च-उद्यानिकागमनैश्चोपनिमन्त्रयेयुः, तद्यथा-भुङ्क्ष्व भोगानिमान् श्लाध्यान् महर्षे ! एवमपि पूजयामस्त्वामिति ।। १६ ।। किञ्चान्यत् वत्थगंधमलंकारं, इत्थीओ सयणाणि य । भुंजाहिमाई भोगाई, आउसो ! पूजयामु तं ||१७|| वस्त्रगन्धमलङ्कारं स्त्रियः शयनानि च अस्माभिर्यौकितान् इमान् भोगान् भुङ्क्ष्व हे आयुष्मन् ! पूजयामस्त्वामिति ।।१७।। अपि च जो तुमे नियमो चिण्णो, भिक्खुभावम्मि सुव्वता । अगारमावसंतस्स, सव्वो संविज्जए तहा ||१८|| यस्त्वया पूर्वं भिक्षुभावे- प्रव्रज्यावसरे नियमो यथा चीर्ण: अनुष्ठित: हे सुव्रत ! स साम्प्रतमपि अगारमावसतो भवतः सर्वः संविद्यते तथा, न हि सुकृतदुष्कृतस्यानुचीर्णस्य नाशोऽस्तीति भावः ।। १८ ।। किञ्च चिरं दूइज्जमाणस्स, दोसो दाणि कुतो तव । इच्चेव णं निमंतेंति, नीवारेण व सूयरं ||१९|| चिरं द्रवत :- विहरतः सतः इदानीं दोष: कुतस्तव ? इत्येवं हस्त्यश्वरथवस्त्रादिभिः
SR No.022579
Book TitleSutrakritang Sutra
Original Sutra AuthorN/A
AuthorKulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
PublisherJain Shwetambar Murtipujak Sangh
Publication Year2007
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy