Book Title: Mahopnishad
Author(s): Vijaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
Catalog link: https://jainqq.org/explore/600450/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ अध्यात्मदर्शनाकलिता महोपनिषद् अज्ञातपूर्वमहर्षयः आचार्यश्रीकल्याणबोधिसूरयः Page #2 -------------------------------------------------------------------------- ________________ * कृपावर्षा सिद्धान्तमहोदधि-सच्चारित्रचूडामणि-सुविशालगच्छसर्जक आचार्यदेवश्रीमद्विजयप्रेमसूरीश्वराः न्यायविशारद-वर्धमानतपोनिधि-गच्छाधिपति आचार्यदेवश्रीमद्विजयभुवनभानुसूरीश्वराः समतासागर-संयमसमर्पणादिगुणगणार्णवप.पू.पंन्यासप्रवरश्रीपद्मविजयगणिवराः •आज्ञाप्रसादः . सिद्धान्तदिवाकर-गीतार्थगच्छाधिपति-आचार्यदेवश्रीमद्विजय-जयघोषसूरीश्वराः * प्रेरणापीयूषम् . वैराग्यदेशनादक्ष-प्राचीनश्रुतोद्धारक-आचार्यदेवश्रीमद्विजय-हेमचन्द्रसूरीश्वराः वर्धमानतपोनिधि-आचार्यदेवश्रीमद्विजय-कल्याणबोधिसूरीश्वराः Page #3 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना // श्रीशङ्केश्वरपार्श्वनाथाय नमः // णमोत्थु णं समणस्स भगवओ महावीरस्स // श्रीप्रेम-भुवनभानु-पद्म-जयघोषसूरिभ्यो नमः // अध्यात्मदर्शनाभिधवृत्तिविभूषिता महोपनिषद * मूलकाराः . अज्ञातपूर्वमहर्षयः •वृत्तिकाराः. प्राचीनश्रुतोद्धारक प.पू.आ. श्रीहेमचन्द्रसूरीश्वरशिष्याः वर्धमानतपोनिधि प.पू.आ. श्रीकल्याणबोधिसूरयः .प्रकाशकः. श्री जिनशासन आराधना ट्रस्ट Page #4 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना मूलग्रन्थः मूलकाराः नवनिर्मितकतिपयांशवृत्तिः - वृत्तिकाराः महोपनिषद्, ग्रन्थानम्-५६५, भाषा-संस्कृतम्, अज्ञातप्राचीनमहर्षयः अध्यात्मदर्शना, भाषा-संस्कृतम् / प्राचीनश्रुतोद्धारक प.पू.आ.श्रीहेमचन्द्रसूरीश्वरशिष्याः वर्द्धमानतपोनिधि प.पू.आ.श्रीकल्याणबोधिसूरयः मुनिराजश्री भावप्रेम-तत्त्वप्रेम-राजप्रेमविजयाः अध्यात्मम् विदुषां पुनः पुनः परिशीलनीयो ज्ञानानन्दप्रदः प्रबन्धः गीतार्थगुर्वनुज्ञातो बहुश्रुतात्मा श्रीपार्श्वनाथ जैन संघः, श्रीआदि-सीमन्धर जिनालयः, समा, वडोदरा सहयोगदातारः विषयः विशेषता पठनाद्यधिकारी सृजनस्थली Page #5 -------------------------------------------------------------------------- ________________ महोपनिषद् 身為萬萬萬萬萬萬萬萬萬萬萬萬萬萬萬萬萬萬萬 सुकृत सहयोगी श्रीरेसकोर्स श्वे. मूर्ति. तपा. जैन संघ प्रेरकाः प.पू. मुनिराजश्रीसौम्यरत्नविजयाः भावसारा अनुमोदना भूरयः साधुवादाः Page #6 -------------------------------------------------------------------------- ________________ महोपनिषद् समर्पणम् समर्पणम् 萬萬萬萬萬萬萬得得得得得習者 समग्रोऽपि स्वजनवर्गो यया महासत्या वीतरागोपदिष्टे धर्ममार्ग आनीतः / पुत्री पुत्रौ च सोल्लासं प्रवाजिता / स्वयमपि च भ; सह प्रव्रजिता तस्यै स्वनामधन्यायै मोक्षसाधनैकसन्निमग्नायै अध्यात्मदर्शना इत्यभिधानाऽऽर्यायै सादरं समर्पितमिदं वृत्तिपुष्पम् या वनिता अपि यशसा साकं कुलयुगलं विदधति सुपताकम् / तासां सुचरितसञ्चितराकं दर्शनमपि कृतसुकृतविपाकम् // Page #7 -------------------------------------------------------------------------- ________________ महोपनिषद् ઝલક મહોપનિષદ્ ઝલક आपतत्सु यथाकालं सुखदुःखेष्वनारतम् / न हृष्यति ग्लायति यः स जीवन्मुक्त उच्यते // 2-43 // यस्य स्त्री तस्य भोगेच्छा निःस्त्रीकस्य क्व भोगभूः ? / स्त्रियं त्यक्त्वा जगत् त्यक्तं जगत् त्यक्त्वा सुखी भवेत् // 3-48 // दृष्टदृश्यस्य सत्तान्तर्बन्ध इत्यभिधीयते / दृष्टा दृश्यवशाद् बद्धो दृश्याभावे विमुच्यते // 4-47, 48 // द्वे पदे बन्धमोक्षाय निर्ममेति ममेति च / ममेति बध्यते जन्तु-निर्ममेति विमुच्यते // 4-72 // हस्तं हस्तेन सम्पीड्य दन्तैर्दन्तान् विचूर्ण्य च / अङ्गान्यङ्गैरिवाक्रम्य जयेदादौ स्वकं मनः // 5-75 // सतोऽसत्ता स्थिता मूलि, रम्याणां मूय॑रम्यता / सुखानां मूनि दुःखानि, किमेकं संश्रयाम्यहम् ? // 6-24 // Page #8 -------------------------------------------------------------------------- ________________ महोपनिषद् પ્રસાદી અધ્યાત્મદર્શનાપ્રસાદી 1萬萬萬萬萬萬萬萬萬萬萬萬萬萬萬萬萬萬 को नाम जीवन्मुक्त्यनुभूत्यनुभूयमानपरमानन्दात् पराङ्मुखीभूयाऽऽभासमात्रपर्यवसितबाह्यसुखदुःखोप युक्तस्स्यादिति तदुपेक्षणमेव जीवन्मुक्तिलिङ्गम् // 2-43 // आसीनः, स्वभावातिरिक्तस्पृहाशून्यत्वात् // 2-47 // विषमप्रतिभासस्यैव वस्तुतः संसारात्मकतत्वात् // 2-54 // साम्यसिद्धिरेव सिद्धिः // 4-72 // एषैवाज्ञस्याज्ञता यत् परव्यतिकरे निजत्वारोपणेनात्मनो विह्वलीकरणम् // 4-130 // विचारोपरम एव विमुक्त्यारम्भ इति तात्पर्यम् // 5-5 // एवं सति पर्यायावेव नगरं गन्धर्वनगरमिति / स्वपुत्रो वन्ध्यापुत्र इति च // 5-167 // भ्रान्त्युत्थितस्य कथञ्चिदनुभूयमानत्वेऽपि परमार्थतो विभ्रमत्वानतिक्रमात् // 6-22 // Page #9 -------------------------------------------------------------------------- ________________ महोपनिषद् // व्योमसाम्यः सुखी भव // उपोद्घातः महोपनिषदिति जीवन्मुक्तिमहामार्गः समाध्येकसञ्चरः परमानन्दानुभूतिपदवी परमपदप्रेक्षणैकपरिनिर्मलचक्षुर्विरागरससरःसरसलहरी स्वरूपसुधासन्निमज्जनकमनीयकुण्डश्च / उत्सवोऽयं विदुषाम्, महोत्सवोऽयं मुमुक्षूणाम्, दर्शनञ्चैतदध्यात्मस्य, तदेतदध्ययनेनाऽऽनन्दितो भवत्वधिकार्यध्येतृवर्गः, सफलीभवतु चैष प्रयासः / अधिकारिणस्त्वत्र नयवादविज्ञातारो गीतार्थगुर्वनुज्ञाता बहुश्रुता आत्मान एव, इतरेषामतो गुणासम्भवात्, प्रत्यपायप्रसङ्गाच्च / ते हि यथावस्थितवस्तुविवेचनासमर्थास्तदपेक्षाभिप्रायमबुध्यन्तो मिथ्याऽर्थग्रहणेन नश्यन्ति स्वयम्, नाशयन्ति च स्वप्रतिपाद्यान् / आह चोपनिषत्कृदेव-आदौ शमदमप्रायैर्गुणैः शिष्यं विशोधयेत् / पश्चात् सर्वमिदं ब्रह्म शुद्धस्त्वमिति बोधयेत् // अज्ञस्यार्धप्रबुद्धस्य सर्वं ब्रह्मेति यो वदेत् / महानरकजालेषु स तेन विनियोजितः - इति ( महोपनिषदि 5-104, 105) / अत यथोक्त एव प्रवर्तेतात्रेति शम् / Page #10 -------------------------------------------------------------------------- ________________ महोपनिषद् (मङ्गलम्) अध्यात्मदर्शना 萬萬萬萬萬萬萬萬萬萬萬萬萬萬萬萬萬萬萬萬萬 श्रीवर्द्धमानमानम्य जिनं श्रीवर्द्धमानकम् / सूरीन्द्रं हेमचन्द्रं च चन्द्रचन्द्रिकया समम् // कतिपयेषु सूक्तेषु महोपनिषदो नवाम् / अध्यात्मदर्शनां कुर्वे, वृत्तिमध्यात्मदर्शनाम् // इह हि मोक्षार्थं यतमाना अप्यनल्पाः सत्त्वाः संसारमेवानुपरिवर्तन्ते, सम्यङ् मोक्षस्वरूपस्यैवानवगमादिति कारुणिक | उपनिषत्कार आदौ मोक्षस्वरूपमेवोपन्यस्यति अशेषेण परित्यागो, वासनाया य उत्तमः / मोक्ष इत्युच्यते सद्भिः, स एव विमलक्रमः // 2-39 // रागादितिमिरोपप्लवोपप्लुतान्तश्चक्षुषोऽतत्तदर्शनं वासना / तत्त्वतस्तद्रूप एव संसारः / अतस्तत्त्यागरूपत्वं मोक्षस्योपपन्नमेव, अन्वाह-वासना एव संसार इति सर्वा विमुञ्च ताः / तत्त्यागो वासनात्यागात्, स्थितिरद्य यथा तथा - इति (अष्टावक्रगीतायाम् ), अन्यत्रापि - वासनाप्रक्षयो मोक्षः - इति (विवेकचूडामणौ)। स एव - वासनात्यागात्मको मोक्ष एव, विमलक्रमः - फले हेतूपचारान् नैर्मल्यानुगुणाभियोगः, शिष्टस्य सर्वस्याप्यभियोगस्य मालिन्यहेतुत्वात् / तस्मात् Page #11 -------------------------------------------------------------------------- ________________ महोपनिषद् | अध्यात्म दर्शना Daaaaaa00000000000000 ये शुद्धवासना भूयो, न जन्मानर्थभागिनः / ज्ञातज्ञेयास्त उच्यन्ते, जीवन्मुक्ता महाधियः // 2-40 // शुद्धवासना हि कण्टकन्यायेनाशुद्धवासनामपनीय स्वयमप्यपगच्छन्ती मुक्तिहेतुतां प्रतिपद्यते / अतस्तद्वन्त आसन्नमुक्तितया जीवन्मुक्तत्वेन व्यपदिश्यन्ते / ते च ज्ञातज्ञेयाः, वासनाशुद्धौ यथार्थपदार्थस्वरूपस्य स्वयमेव स्फुटीभवनात्, अत एव महाधियः, प्रज्ञोदरोरीकृतमहत्तत्त्वत्वात् / न हि प्रतिपक्षावगममन्तरेण स्पष्टावगमः प्रस्तुतस्येतिनीतिमनुसरन् बन्धलक्षणप्रतिपादनपुरस्सरं मोक्षं लक्षयति पदार्थभावनादायँ, बन्ध इत्यभिधीयते / वासनातानवं ब्रह्मन्, मोक्ष इत्यभिधीयते // 2-41 // पदार्थभावना - मदीया रमणीया वैत इति स्वरूपातिरिक्तवस्तुगोचरा वासना, तस्या दाढ्यम् - अतत्तत्संवेदनलक्षणमिथ्यात्वेन गाढत्वापादनम्, तदेव बन्ध इत्यभिधीयते, हेतौ फलोपचारात् / हे ब्रह्मन् ! - शुद्धात्मस्वरूपाभिन्नसत्ताशाली, वासनातानवम् - उक्तभावनाशैथिल्यप्रयुक्ततद्दभ्रता, तदेव मोक्ष इत्यभिधीयते, तद्धेतुभावात् / न च पूर्वेण व्याहतमिदमिति वाच्यम्, अभिप्रायापरिज्ञानात्, न हि वासनैवात्र मोक्षत्वेन व्यपदिश्यते, अपि तु तत्तानवम्, Page #12 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना तच्चांशतस्तदभाव एवेत्युपचारेण तत्र मोक्षत्वोक्तिरबाधितैव, घृतमायुरिति यथा, तद्धेतुभावश्च - जह जह दोसा विरमइ, जह जह विसएहि होइ वेरग्गं / तह तह विन्नायव्वं आसन्नं से य परमपयं - इत्यादिपारमर्षात् (इन्द्रियपराजयशतके) प्रतीतमेव / एतदेव प्रकारान्तरेण स्पष्टयति तपःप्रभृतिना यस्मै, हेतुनैव विना पुनः / भोगा इह न रोचन्ते, स जीवन्मुक्त उच्यते // 2-42 // प्रतिपन्नतपोविशेषतया मनोज्ञाहारादिभोगपरित्यागस्तु विरागमन्तरेणापि सम्भवति, स च संसारवासनाकलुषिततया न | जीवन्मुक्तिसाधकः, अतो विशिष्टनिर्देशः, सांसिद्धिक एव विरागप्रकर्षो जीवन्मुक्तिबीजमित्याशयः, उक्तञ्च - सर्वत्र दृश्यते स्वस्थः सर्वत्र विमलाशयः / समस्तवासनामुक्तो मुक्तः सर्वत्र राजते-इति (अष्टावक्रगीतायाम् ) / एतदेव प्रकारान्तरत आह - आपतत्सु यथाकालं, सुखदुःखेष्वनारतम् / न हृष्यति ग्लायति यः, स जीवन्मुक्त उच्यते // 2-43 // को नाम जीवन्मुक्त्यनुभूत्यनुभूयमानपरमानन्दात् पराङ्मुखीभूयाऽऽभासमात्रपर्यवसितबाह्यसुखदुःखोपयुक्तस्स्यादिति Page #13 -------------------------------------------------------------------------- ________________ महोपनिषद् l अध्यात्मदर्शना तदुपेक्षणमेव जीवन्मुक्तिलिङ्गम्, उक्तञ्च - सानुरागां स्त्रियं दृष्टवा मृत्युं वा समुपस्थितम् / अविह्वलमनाः स्वस्थो मुक्त एव महाशयः - इति (अष्टावक्रगीतायाम्) / एवञ्च हर्षामर्षभयक्रोध-कामकार्पण्यदृष्टिभिः / न परमृश्यते योऽन्तः, स जीवन्मुक्त उच्यते // 2-44 // विभावा हि तमेव गोचरीकुर्वन्ति, यो विभावमात्रव्यवस्थितः, यस्तु स्वभावमात्रसम्प्रतिष्ठिततया सर्वविभावव्यतीतः, सोऽशक्यपरामर्शतया विभावानां मुक्तप्रतियोगिकभेदाभाववान्, निबन्धनविरहात्, अत उपपन्नैव तस्य जीवन्मुक्ततेति भावः / तथा अहङ्कारमयीं त्यक्त्वा, वासनां लीलयैव यः / तिष्ठति ध्येयसन्त्यागी, स जीवन्मुक्त उच्यते // 2-45 // न हि परिज्ञातरज:स्वरूपस्य तद्विधूनने दुष्करत्वं भवति किमपि, कष्टत्वं वा, अपि तु लीलामात्रम्, एवं रजोऽनतिशय्यहङ्कारवासनास्वरूपवेत्तुरपि तत्त्यागो लीलैव, अनुन्मत्तस्य रजःप्रतिबन्धविरहात् / किञ्चात एवासौ ध्येयसन्त्यागी / किलाहं कञ्चन ध्यानगोचरीकुर्याम् - इति हि ध्येयाभिसन्धिः, सा चाहङ्कारात्यन्तविलये न Page #14 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना सङ्गतिमङ्गति, कत्रपेक्षत्वात्कर्मणः / एवञ्च ध्यानादिगोचरकर्तृभावस्याप्यभावादन्यूनकृतकृत्यतानुभूतेरविशेष एव मुक्तात्मन इति जीवन्मुक्तिः, कर्त्तव्यमतेरेव कथञ्चिद् बन्धात्मकत्वात् तद्विरहस्य तत्प्रतिपक्षत्वोपपत्तेः, अन्वाह - तदा बन्धा यदा चित्तं किञ्चिद्वाञ्छति शोचति / किञ्चिन्मुञ्चति गृह्णाति किञ्चिद्धृष्यति कुप्यति / / तदा मुक्तिर्यदा चित्तं न वाञ्छति न शोचति / न मुञ्चति न गृह्णाति न हृष्यति न कुप्यति - इति (अष्टावक्रगीतायाम् ) / एतदेव साक्षादाचष्टे ईप्सितानीप्सिते न स्तो, यस्यान्तर्वतिदृष्टिषु / सुषुप्तिवद्यश्चरति, स जीवन्मुक्त उच्यते // 2-46 // यदि हीहिताद्यभावेऽप्यमुक्तत्वम्, तदा मुक्तस्यापि तदस्तु, तुल्यन्यायात्, अथ च न तत्तत्त्वमिष्टम्, ततोऽस्यापि तन् मा भूत्, अत एवेति, उक्तञ्च - ईहितानीहितैर्मुक्तो मुक्त एव महाशयः - इति (अष्टावक्रगीतायाम्) / ननु कथं नाम भवस्थस्यापि वाञ्छाविरहो घटाकोटिमाटीकेतेति चेत् ? अत्राह अध्यात्मरतिरासीनः, पूर्णः पावनमानसः / प्राप्तानुत्तमविश्रान्तिर्न किञ्चिदिह वाञ्छति / यो जीवति गतस्नेहः, स जीवन्मुक्त उच्यते // 2-47 // Page #15 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना अध्यात्मरतिः, शब्दाद्यशेषविषयरतिव्युपरमे तद्रतेरेवावशेषात्, आसीनः, स्वभावातिरिक्तस्पृहाशून्यत्वात्, बलादृष्ट्याविर्भावात्, तथा च तदनुभावः - नास्यां सत्यामसत्तृष्णा प्रकृत्यैव प्रवर्तते / तदभावाच्च सर्वत्र स्थितमेव सुखासनम् - इति (योगदृष्टिसमुच्चये)। अत एव पूर्णः, स्वतत्सतत्त्वावगमात्, स्वरूप आनेयत्वापास्यत्वयोरभावाच्च, तथा चोपनिषत् - ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते / पूर्णस्य पूर्णमादाय पूर्वमेवावशिष्यते - इति (मन्त्रिकोपनिषदि) / अत एव पावनमानसः, न्यूनत्वभ्रमस्यैवाशेषमनःकालुष्यनिबन्धनत्वात्, अत एव प्राप्तानुत्तमविश्रान्तिः, आत्मविश्रमतोऽप्युत्तरविश्रमस्याभावात्, परमार्थतस्तन्मात्रत्वाद्विश्रमस्य, अपरस्य विचार्यमाणस्य खेदमात्रत्व- 2 पर्यवसानात् / अत एवासौ इह न किञ्चिद् वाञ्छति, प्राप्तव्याप्रेक्षणात्, तदाह - स्वभावलाभात्किमपि प्राप्तव्यं / नावशिष्यते / इत्यात्मैश्वर्यसम्पन्नो नि:स्पृहो जायते मुनिः - इति (ज्ञानसारे)। एवञ्च यो गतस्नेहो जीवति, स्वरूपभिन्नस्नेहक्रियाकर्मानुपलब्धेः केवलस्य कतुरेवावशिष्टत्वात्, स जीवन्मुक्त उच्यते, ईदृशस्यापि तत्त्वाभावेऽनीदृशस्य तु सुतरां तत्त्वविरहाद्वन्ध्यापुत्राभाववत्तदत्यन्ताभावप्रसक्तेः / एतदेव लक्ष्यं लक्षणान्तरेण लक्षयति संवेद्येन हृदाकाशे, मनागपि न लिप्यते / यस्यासावजडा संवित्, स जीवन्मुक्त उच्यते // 2-48 // 000000000000000000 Page #16 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना संवेद्येन - चक्षुरादिनानुभूयमानेन स्त्र्यादिविषयेण, हृदाकाशे - स्वास्वनितावकाशे, मनागपि न लिप्यते, शुष्कगोलकवच्छ्लेषाविषयत्वात्, यथोदितम् - अल्लो सुक्को य दो छूढा गोलया मट्टियामया / दोवि आवडिया कूडे जो भार अल्लो सो विलग्गइ // एवं लग्गंति दुम्मेहा जे नरा कामलालसा / विरत्ता उ न लग्गंति जहा सुक्के अ गोलए - इति / (इन्द्रियपराजये)। अत एव यस्यासावजडा संवित्, दृश्यैकात्म्यविरहेण तद्गतचैतन्यस्याव्याहतत्वात्, स जीवन्मुक्त उच्यते, निःशेषजाड्यापगममक्त्योरेकार्थत्वात् / एवञ्च मौनवान् निरहंभावो, निर्मानो मुक्तमत्सरः / यः करोति गतोद्वेगः, स जीवन्मुक्त उच्यते // 2-50 // मौनवान्, समस्तपुद्गलप्रवृत्तिनिवृत्तत्वात्, उक्तञ्च - पुद्गलेष्वप्रवृत्तिस्तु योगानां मौनमुत्तमम् - इति (ज्ञानसारे)। अत एव निरहंभावः, देहाद्यहङ्कारप्रयोजकतत्प्रवृत्त्यभावात्, परमबोधोदयाच्च, यदाह - अहम्भावोदयाभावो बोधस्य परमावधिः - इति / अत एव निर्मानः, विशिष्टसंवित्तिनान्तरीयकत्वान्मानस्य, अस्य च सत्तासामान्यमात्रसंवेदनपरत्वात् / अत एव मुक्तमत्सरः, सत्तासामान्यसंवेदनात् सर्वत्राप्रतिहतसमतासमाधेर्मत्सरानवकाशात् / अत एव गतोद्वेगः, मात्सर्यादिमूलत्वादशेषोद्वेगानां तदभावेऽनुत्थानपराहतत्वात्, मूलं नास्ति कुतः शाखेतिनीत्या, एवंविधः यः Page #17 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना सांसिद्धिकतया विहितक्रियां करोति, स जीवन्मुक्त उच्यते, उपाधिविगम औपाधिकापगमस्याप्यावश्यकतया स्वरूपमात्रावशेषात्, तदतिरिक्तमुक्तिविरहाच्च / तस्मात् सर्वत्र विगतस्नेहो, यः साक्षिवदवस्थितः / निरिच्छो वर्तते कार्ये, स जीवन्मुक्त उच्यते // 2-51 // निरिच्छत्वानुभावात्तत्त्वतस्तस्याकर्तृत्वात्, तदाह - फलतृष्णां विहाय स्यात् सदा तृप्तो विसाधनः / उद्युक्तोऽपि क्रियां कर्तुं किञ्चिन्नैव करोति सः - इति (गणेशगीतायाम् ) / इत्थञ्च येन धर्ममधर्मं च, मनोमननमीहितम् / सर्वमन्तः परित्यक्तं, स जीवन्मुक्त उच्यते // 2-52 // न च धर्मपरित्यागेऽधर्मित्वापत्तिरिति वाच्यम्, इष्टत्वात्, क्षायोपशमिकधर्मपरिहारेण मुक्त्यधिगतियोगात्, यदुक्तम् - धर्मसंन्यासस्तात्त्विकः क्षपकश्रेणियोगिनो द्वितीयापूर्वकरणे भवति / क्षायोपशमिकानां क्षान्त्यादिधर्माणां तदा निवृत्तेः, क्षायिकाणामेव विशुद्धानां प्रादुर्भावात् - इति (स्याद्वादकल्पलतायाम् ) / न च धर्मसामान्यपरित्यागोक्तेः क्षायिकाणामपि सोऽस्त्विति वाच्यम्, अशक्यत्वात्, स्वरूपभूतत्वात्, आत्मवत्, अन्यथाऽभावप्रसक्तः, तस्य चासम्भवात्, यदुक्तम् - Page #18 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना नासतो विद्यते भावो नाभावो विद्यते सतः - इति / अत एव सर्वमन्तः परित्यक्तमित्यत्र स्वरूपातिरिक्ताशेषपरित्याग एव तात्पर्य बोध्यम् / तथा च स्वरूपमात्रस्थितेर्मुक्तिः, उक्तन्यायात् / एतदेव प्रकारान्तरतः प्रस्तौति यावती दृश्यकलना, सकलेयं विलोक्यते / सा येन सुष्ठ सन्त्यक्ता, स जीवन्मुक्त उच्यते // 2-53 // दृष्टदृष्टिमात्रपर्यवसानस्यैव मोक्षपर्यायत्वात, एवमेव साक्षितासिद्धः, दृश्यतादात्म्यस्यैव भवबम्भ्रमणबीजत्वाच्च, तदाह - दृष्टदृङ्मात्रता मुक्तिः, दृश्यैकात्म्यं भवभ्रमः - इति / एतदेव निदर्शयति कट्वम्ललवणं तिक्तममृष्टं मृष्टमेव च। सममेव च यो भुङ्क्ते, स जीवन्मुक्त उच्यते // 2-54 // सममेव - मिथो भेदप्रतिभासलेशमप्यन्तरेण, विषमप्रतिभासस्यैव वस्तुतः संसारात्मकत्वात् / तस्मात् जन्मस्थितिविनाशेषु, सोदयास्तमयेषु च / / सममेव मनो यस्य, स जीवन्मुक्त उच्यते // 2-59 // परमसाम्यसमाधिनिदानं हि - उत्पादव्ययध्रौव्ययुक्तं सत् (तत्त्वार्थसूत्रे ) - इति सत्त्वलक्षणम्, तच्च सन्मात्रे Page #19 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना मुख्यतयोत्पश्यतोऽनाहतमेव स्यात् साम्यम्, अनाकलिततत्त्वस्यान्यतरमात्रगोचरे प्रेक्षाविश्रान्तेरेव वैषम्ययोनित्वात् / सति च साम्ये जीवन्मुक्तिः, तत्स्वरूपत्वात्तस्य / एवञ्च शान्तसंसारकलनः, कलावानपि निष्कलः / यः सच्चित्तोऽपि निश्चित्तः, स जीवन्मुक्त उच्यते // 2-61 // शान्तसंसारकलनः, आत्मीयत्वेन तदकलनात्, न चैवं मनुष्यादितत्तत्पर्यायपरिणत्यभावप्रसङ्ग इति वाच्यम्, आत्मसम्बन्धितदभावादेव, परमार्थतः कर्मपर्यायत्वात्तेषाम्, यदुक्तम् - नृनारकादिपर्यायै-रप्युत्पन्नविनश्वरैः / भिन्नै हाति नैकत्वमात्मद्रव्यं सदान्वयि / कर्मणस्ते हि पर्याया नात्मनः शुद्धसाक्षिणः / कर्मक्रियास्वभावं य-दात्मा तु ज्ञस्वभाववान् - इति (अध्यात्मसारे)। अत एव कलावानपि निष्कलः, तत्त्वतो बाह्यकलानां कर्माश्रितत्ववेदनात्, स्वकीयनिष्कलस्वरूपसंवेदनाच्च / किञ्च यः सच्चित्तोऽपि निश्चित्तः, असत्प्रायत्वगमनात्तन्मनसः, तदाह - मनोऽपि जायते नूनं सम्यग् भजितबीजवत् - इति (शम्भुगीतायाम् ) / एवमुद्देश्यमभिधाय विधेयमाह - स जीवन्मुक्त उच्यते, तद्धस्ततलशायिनीत्वान्मुक्तेः, यदुक्तम् - यस्य सङ्कल्पनाशस्स्यात्तस्य मुक्तिः करे स्थिता - इति (मण्डलब्राह्मणोपनिषदि)। संसारकलनादेरपि सङ्कल्पाधीनत्वात्तदभावे तस्याप्यभावतो जीवन्मुक्तिसिद्धिरिति भावनीयम् / एतदेवान्यविधया व्याचष्टे Page #20 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना पोक्ष यः समस्तार्थजालेष, व्यवहार्यपि नि:स्पृहः / परार्थेष्विव पूर्णात्मा, स जीवन्मुक्त उच्यते // 2-62 // यः - मोक्षे भवे च सर्वत्र निःस्पृहोऽयं सदाशय इतिशुद्धात्मसाधकस्वरूपसंवेत्ता, समस्तार्थजालेषु - मो साधकत्वेन विहितसर्वानुष्ठानसमूहेषु, व्यवहार्यपि - असङ्गानुष्ठानपरिणत्या प्रवृत्तिमानपि, परार्थेष्विव - परप्रयोजनेषु प्रवृत्त इव, नि:स्पृहः - स्वर्गादिफलानभिलाषी, यो हि परप्रयोजनेषु प्रवृत्तो भवति, तस्य तत्फलेहा नोदेत्येव, स्वप्रवृत्तिस्वरूपावगमात्, एवमस्यापि तदौपम्यम्, नि:स्पृहतासाधर्म्यात्, साऽपि तस्य मोक्षेऽप्यनभिलाषात्, तदभिलाषस्यापि तद्बाधकत्वात्, यदाह - मोक्षेऽपि मोहादभिलाषदोषो, विशेषतो मोक्षनिषेधकारी - इति ( पद्मनन्दिपञ्चविंशतिकायाम् ) / एतच्च दशाविशेषमधिकृत्य दृष्टव्यम्, अपरथा तु तदनभिलाषस्यैव तद्बाधकत्वात् / एवञ्च नि:स्पृहतयैव यः पूर्णात्मा, परभावोपनतेरेवात्मन्यूनत्वप्रयोजकतया तद्विगमे पूर्णात्मस्वरूपप्राकट्यस्य नैसर्गिकत्वात्, स जीवन्मुक्त उच्यते, लक्षणसमन्वयात् / ततोऽप्यस्य यत् पर्यवस्यति तदाह - जीवन्मुक्तपदं त्यक्त्वा, स्वदेहे कालसात्कृते / विशत्यदेहमुक्तत्वं, पवनोऽस्पन्दतामिव // 2-63 // Page #21 -------------------------------------------------------------------------- ________________ महोपनिषद् | अध्यात्मदर्शना अदेहमुक्तेः परमनिष्पन्दावस्थारूपत्वात्, जीवन्मुक्तेस्तत्पर्यवसाननियमाच्च / तदेतददेहमुक्तिकारणं जीवन्मुक्तिः / तस्या अपि हेतुर्विरागः / अतस्तदर्थं यच्चिन्त्यं तदाह - विषयाशीविषासङ्ग-परिजर्जरचेतसाम् / अप्रौढात्मविवेकाना-मायुरायासकारणम् // 3-10 // भुजङ्गोपमा हि विषयाः, यदासङ्गतः परिजर्जरभावं भजन्ते चेतांसि, तथाविषयस्वाभाव्यात्, एवं तद्ग्रस्तचित्तानाम्, एतदपि कथमित्याह - अप्रौढाऽऽत्मविवेकानाम् - अपरिपक्वस्वावधिविषयपार्थक्यसंवेदनानाम्, आयु:- जीवनम्, आयासकारणम् - कायक्लेशमात्रहेतुः, तत आत्माभिमतफलनिष्पत्तिविरहात् / अपि च युज्यते वेष्टनं वायो-राकाशस्य च खण्डनम् / ग्रन्थनं च तरङ्गाणा-मास्था नायुषि युज्यते // 3-11 // तदवस्थितेरेभ्योऽप्यविश्वसनीयतरत्वादिति हृदयम् / अपि च तज्जीवनमेव न परमार्थतः, यदुक्तविधयाऽऽयासैकहेतुः, तल्लक्षणाव्याप्तेरिति तल्लक्षणमेवाऽऽह FFFFFFFFFFFFFFFFFFFFFFl Page #22 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना प्राप्यं सम्प्राप्यते येन, भूयो येन न शोच्यते / पराया निवृतेः स्थानं, यत्तज्जीवितमुच्यते // 3-12 // येन आयुषा प्राप्यम् - उपलभ्यतया बुधाभिमतमात्महितम्, सम्प्राप्यते-विवेकसचिवतदुपयोगेन नियोगत उपलभ्यते, येन च भूयो न शोच्यते, उक्तहेतोः कृतकृत्यताऽनुभावात्, अत एव पराया निर्वृतेः स्थानम्, परमानन्दहेतुत्वेन तदाश्रयभूतत्वात्, एवंविधं यत् तज्जीवितमुच्यते परमार्थतः, सफलत्वात् / अन्यथा तु तरवोऽपि हि जीवन्ति, जीवन्ति मृगपक्षिणः / स जीवति मनो यस्य, मननेनोपजीवति // 3-13 // यथावस्थितवस्तुस्वरूपमननेन हेयोपादेययोर्हानोपादानाभ्यामात्मकल्याणसाधनं हि जीवनफलम्, अतस्तदभावे तस्याप्यभावः, यदेवार्थक्रियाकारि तदेव सत् इतिनिश्चयनयसमाश्रयणात् / तस्मात् जातास्त एव जगति, जन्तवः साधुजीविताः / ये पुनर्नेह जायन्ते, शेषा जरठगर्दभाः // 3-14 // तदविशेषात्, उदरभरणमात्रपर्यवसितजीवनत्वात्, भूयः पुनर्जन्मना तत्त्रपास्पदत्वापादनाच्च, उक्तञ्च - जरामरण Page #23 -------------------------------------------------------------------------- ________________ होपनिषद् अध्यात्मदर्शना दौर्गत्यव्याधयस्तावदासताम् / मन्ये जन्मैव धीरस्य भूयो भूयस्त्रपाकरम् - इति (आचारवृत्तावुद्धरणम् ) / अथ शास्त्रज्ञतया तेषु न जरठगर्दभौपम्यापादनं न्याय्यमिति चेत् ? अत्राह भारोऽविवेकिनः शास्त्रं भारो ज्ञानं च रागिणः / अशान्तस्य मनो भारो, भारोऽनात्मविदो वपुः // 3-15 // अविवेकिनः - कृत्याकृत्यमविवेचयतः, शास्त्रम् - भागवतादिगोचरशुष्कपाण्डित्यम्, भारः, तद्धारणपरिश्रममात्रफलत्वेन तत्सधर्मत्वात् / शास्त्रं हि कर्त्तव्यविधानाकर्त्तव्यनिषेधपरवचोकदम्बकरूपम्, तदधिगत्य तदननुसरतस्तद्विफलमेव तत्त्वेन, यत्फलं तु तत्प्रयच्छत्यस्य तेन तस्य भारानतिशयितैव, उक्तन्यायादिति भावनीयम् / एवं रागिणो ज्ञानं च भारः, यतः - तज्ज्ञानमेव न भवति यस्मिन् सति विभाति रागादिगणः / तमसः कुतोऽस्ति शक्तिः दिनकरकिरणाग्रतः स्थातुम् ?- इति / अपि च रागादिविरतिरूपसामायिकलक्षणचरणप्रयोजकत्वेनैव ज्ञानमभीष्टम, ज्ञानस्य फलं विरतिः (प्रशमरतौ) - इत्युक्तेः, अतो यम्प्रति तत्तदप्रयोजकम्, तस्य भार एव तत्, तुल्यफलत्वात्, खरस्य चन्दनभरवदिति भावः, तदार्षम् - जहा खरो चंदणभारवाही, भारस्स भागी ण हु चंदणस्स / एवं खु नाणी चरणेण हीणो नाणस्स भागी ण हु सुग्गइए - इति ( उपदेशमालायाम् ) / एवञ्च अशान्तस्य मनो भारः, खेदावहत्वात्, तथा Page #24 -------------------------------------------------------------------------- ________________ महोपनिषद् 9 अध्यात्म दर्शना अनात्मविदः - देहादिसर्वोपाधिविनिर्मुक्तपरिशुद्धस्वस्वरूपानभिज्ञस्य, वपुः - स्वशरीरम्, भारः, आजीवनमपि तदभिमानभरैकभारितत्वात्तस्य, अतस्त्याज्यो देहाश्रयोऽहङ्कार इत्याह अहङ्कारवशादापदहङ्कारादुराधयः / अहङ्कारवशादीहा, नाहङ्कारात्परो रिपुः // 3-16 // एतदेव रिपोस्तत्त्वम्, यदापदादिहेतुत्वम्, तच्च विचार्यमाणं परमार्थतोऽहङ्कार एव सङ्गतिमङ्गति, तदेकमूलत्वात्तस्य, अतस्तत्परमशत्रुत्वमुपपन्नमेव / अपि च ___ अहङ्कारवशाद्ययन्मया भुक्तं चराचरम् / ___ तत्तत्सर्वमवस्त्वेव, वस्त्वहङ्काररिक्तता // 3-17 // अहङ्कारवशात् - देहोऽहमित्याद्यभिमानात्, यद्यच्चराचरम् स्त्रीभोजनादिरूपं मया भुक्तम्, तत्तत्सर्वमवस्त्वेव, परकीयत्वेन मां प्रत्यसत्त्वात्, ऋजुसूत्रनयमतमिदम्, यथा हि परकीयं धनं स्वं प्रत्यसत्, भावाभावाविशेषात्, स्वोपयोगागोचरत्वात, एवमेव स्त्रीभोजनाद्यपि स्वात्मानं प्रतीत्य, अतो न्याय्यैव तदवस्तुता / किन्तर्हि वस्त्वित्यत्राह - वस्त्वहङ्काररिक्तता - इति, तद्विरेके स्वरूपमात्रावशेषात्, स्वं प्रति तत्त्वतस्तस्यैव वस्तुभूतत्वात् / सत्यप्येवं DHANANUAAAAAAAAA000 Page #25 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना दुष्करस्तद्विरेकः, चित्तचाञ्चल्यादित्याह इतश्चेतश्च सुव्यग्रं, व्यर्थमेवाभिधावति / मनो दूरतरं याति, ग्रामे कौलेयको यथा // 3-18 // यथैव ग्रामकुक्कुरो व्यर्थाभिधावनेन कालं नयति, एवं मनोऽपीति भावः, किञ्च अप्यब्धिपानान्महतः, सुमेरून्मूलनादपि / अपि वयशनाद् ब्रह्मन् ! विषमश्चित्तनिग्रहः // 3-20 // दुष्करतरत्वान् महतामपि, तदाह - चिंतइ अचिंतणिज्जं, वच्चइ दूरं पि लंघइ गुरुं पि.। गुरूआण वि जेण मणो, भमइ दुरायारमहिल व्व - इति (पुष्पमालायाम् ) / तथापि यतितव्यमेव तन्निग्रहे, यतः चित्तं कारणमर्थानां, तस्मिन् सति जगत्त्रयम् / तस्मिन् क्षीणे जगत् क्षीणं, तच्चिकित्स्यं प्रयत्नतः // 3-21 // अर्थानाम् - स्वर्गनरकादिशुभाशुभवस्तूनाम्, कारणम् - अवन्ध्यनिबन्धनम्, चित्तम् - तत्तच्छुभाशुभाध्यवसायपरिणतं मनः, परिणामियं पमाणं - (ओघनिर्युक्तौ) इतिवचनात् , एवञ्च तस्मिन् - चित्ते सति जगत्त्रयम्, Page #26 -------------------------------------------------------------------------- ________________ महोपनिषद् | अध्यात्मदर्शना 0000204040 33333333333999999999 जगत्त्रयवर्तितत्तदर्थसार्थानां चित्तैकप्रसूतत्वात्, तन्निमित्तभावात्, अत एव तस्मिन् क्षीणे सति जगत् अपि तत्कार्य क्षीणं भवति, नाकारणं भवेत्कार्यमितिनीत्या / नन्वेवमेकस्य मुक्तौ जगन्मुक्तिप्रसङ्ग इति चेत् ? न, अभिप्रायापरिज्ञानात्, यच्चित्तक्षयस्तम्प्रतीत्य जगत्क्षयस्याभिप्रेतत्वात्, तथा च चित्ते क्षीणे सति तत्सम्बन्धितया विश्वविश्वपदार्थसार्थपर्यायक्षयात् क्षीणमेव तम्प्रतीत्य जगदिति / यत एवम्, अतः प्रयत्नतः - निरन्तरं वीतरागवचनपरिशीलनाभ्यासाभियोगाऽऽदरतः, तत् - सर्वरोगावहभवज्वरैकहेतुतयोपचारतस्तत्पदव्यपदिष्टं चित्तम्, चिकित्स्यम् - अपास्ततद्धेतुभावतयाऽऽपाद्यम्, निर्मली-कार्यमिति यावत्, अन्वाह - चित्तमेव हि संसारस्तत्प्रयत्नेन शोधयेत् - इति (शाट्यायनीयोपनिषदि) / मनोविकारविशेषमेवाधिकृत्याह यां यामहं मुनिश्रेष्ठ !, संश्रयामि गुणश्रियम् / तां तां कृन्तति मे तृष्णा, तन्त्रीमिव कुमूषिका // 3-22 // पदं करोत्यलयेऽपि, तृप्ता विफलमीहते / चिरं तिष्ठति नैकत्र, तृष्णा चपलमर्कटी // 3-23 // 11033000 Page #27 -------------------------------------------------------------------------- ________________ महोपनिषद् | अध्यात्मदर्शना 酱酱酱酱酱酱酱酱酱慧萬萬萬萬萬萬萬萬 क्षणमायाति पातालं, क्षणं याति नभस्तलम् / क्षणं भ्रमति दिक्कुञ्जे, तृष्णा हृत्पद्मषट्पदी // 3-24 // सर्वसंसारदुःखानां, तृष्णैका दीर्घदुःखदा / अन्तःपुरस्थमपि या, योजयत्यतिसङ्कटे // 3-25 // तथाहि हृदयनगरान्तर्वतिनमपि शरीरान्तर्व्यवस्थितं वाऽऽत्मानं पातयत्येव प्राणसंशयेऽपि सङ्कटे तृष्णा, तत्प्रेरितस्यावारपारापरपारगमनाद्यतिसाहससाध्ये मृत्युभयेऽनुष्ठाने प्रसह्य प्रवृत्तेः / किं तहि कर्तव्यं तदपाकरणार्थमित्यत्राह - तृष्णाविषूचिकामन्त्र-श्चिन्तात्यागो हि स द्विजः / / स्तोकेनानन्दमायाति, स्तोकेनायाति खेदताम् // 3-26 // चिन्तावशवर्तितयैव जीवः स्तोकेनापि धनलाभादिना निमित्तेनानन्दमायाति / अल्पवर्षयाऽपि क्षुद्रनदी यथोत्सेकं भजते, क्षुद्रत्वादेव, एवमल्पमपि मनसा शुभत्वेनाभिगृहीतं निमित्तं तदुत्सेकहेतुतां गच्छति, स्तोकेन च कष्टेन तत्त्वेनाभिमतेन खेदभावं चोपयाति, अतश्चिन्ताऽपासन एव यतितव्यम्, तज्जीवनत्वात्तृष्णाया भवस्य च, तदाह - यावच्चिन्ताऽस्ति जन्तूनां तावद् भवति संसृतिः / यथेन्धनसनाथस्य स्वाहानाथस्य वर्धनम् - इति / अथ देहरागलक्षणं 0000000000000000003 Page #28 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना 臺灣酱酱酱酱酱酱酱酱酱酱酱酱酱酱酱酱酱酱酱達 चित्तमालिन्यमपनयति नास्ति देहसमः शोच्यो नीचो गुणविवर्जितः // 3-27 // पावित्र्यादिगुणगणविकलत्वात्, अमेध्यतमत्वाच्च / अपि च कलेवरमहङ्कार-गृहस्थस्य महागृहम् / लुठत्वभ्येतु वा स्थैर्य, किमनेन गुरो ! मम ? // 3-28 // देह एवाहङ्कारस्य रिपोः परमाश्रयः, प्रथमतस्तदालम्बनेनैव तत्प्रवृत्तेः, अतोऽसौ तिष्ठति वा नश्यतु वा किं मम छिन्नम्, रिपुगृहविनाशस्याभीष्टत्वात्, अतो न तत्स्थितौ मम प्रमोदः, नापि तदुपप्लवे मत्खेदलेशोऽपीति हृदयम् / इतोऽप्येतद्गृहव्यावृत्तरागोऽहमित्याह पङ्क्तिबद्धेन्द्रियपशु, वल्गत्तृष्णागृहाङ्गणम् / चित्तभृत्यजनाकीर्णं, नेष्टं देहगृहं मम // 3-29 // विश्वविश्ववर्तिविपद्विसरहेतूनां देहस्यैवाश्रयभूततयैष ममानिष्ट इत्याशयः / अपि च 26 Page #29 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्म दर्शना 0 0000 जिह्वामार्कटिकाऽऽक्रान्त-वदनद्वारभीषणम् / दृष्टदन्तास्थिशकलं, नेष्टं देहगृहं मम // 3-30 // स्वरूपापर्यालोचननिबन्धनो हि रागस्तत्पर्यालोचने निवर्तत एव नियोगतः, प्रतिपक्षनाश्यत्वस्वाभाव्याद्दोषाणामिति पुनरपि देहपर्यालोचनमेव विधत्ते - रक्तमांसमयस्यास्य, सबाह्याभ्यन्तरे मुने ! / नाशैकधर्मिणो ब्रूहि, कैव कायस्य रम्यता ? // 3-31 // यदि ह्यस्यापि रम्यतेष्यते, तदाऽरम्यताया बीभत्सतायाश्च शब्दकोषमात्राश्रयत्वप्रसक्तेन सशूकस्यात्र तत्परिकल्पनोचितेत्याशयः / नश्वरतामेव देहस्य स्पष्टयति तडित्सु शरदभ्रेषु, गन्धर्वनगरेषु च / स्थैर्य येन विनिर्णीतं, स विश्वसितु विग्रहे // 3-32 // ननु च परिचञ्चलत्वात्तेषु स्थैर्यलेशोऽपि न भवत्येवेति चेत् ? एवं विशरारुत्वैकस्वभावस्य शरीरस्यापि न भवत्येव स्थिरतालवोऽपीति गृहाण अथ तत्तत्पर्यायनैर्गुण्योपदर्शनेन देहाऽऽस्थामपास्यति 10000000 27 Page #30 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना शैशवे गुरुतो भीति-र्मातृतः पितृतस्तथा / जनतो ज्येष्ठबालाच्च, शैशवं भयमन्दिरम् // 3-33 // एवं देहस्य बालत्वावस्था साध्वससङ्कलतयाऽनभिप्रेतफलेत्यभिप्रायः / यौवनदशामधिकृत्याऽऽह स्वचित्तबिलसंस्थेन, नानाविभ्रमकारिणा / बलात्कामपिशाचेन, विवशः परिभूयते // 3-34 // क्लेशैकहेतुत्वात्कामानाम्, तथा च पारमर्षम् - कामभोगाणुराएण केसं संपडिवज्जइ - इति (उत्तराध्ययने) / न चास्तु पारलौकिक: क्लेशः, ऐहिकरत्यैवास्माकं परितुष्टिरिति वाच्यम्, इहलोकेऽपि दुःखसन्दोहनिबन्धनत्वात्कामानाम् / उक्तञ्च - इहलोए चेव कामा कारणं वहबंधणाणं, कुलघरं इस्साए, निवासो अणुवसमस्स, खेत्तं विसायभयाणं - इति (समरादित्यकथायाम् ) / एवञ्च मदनोन्मादविडम्बनापराहततया तारुण्यस्याप्यसारतामुपपाद्य वार्धक्यस्य तामाह दासाः पुत्राः स्त्रियश्चैव, बान्धवाः सुहृदस्तथा / हसन्त्युन्मत्तकमिव, नरं वार्धककम्पितम् // 3-35 // तथा च स्वोपकृतकृतस्वोपहासावज्ञादेरत्यन्तमसह्यतयेहैव नरकवेदनामनुभवति वृद्धः, अतो देहस्य जराजर्जरदशाऽपि Page #31 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना 萬萬萬萬萬萬看着鲁鲁兽得得得得得得 विडम्बनैव / एतदेव विधान्तरेण व्याचष्टे दैन्यदोषमयी दीर्घा, वर्धते वार्धके स्पृहा / सर्वापदामेकसखी, हदि दाहप्रदायिनी // 3-36 // एवञ्च विडम्बनाशतविद्रुते वार्धक्ये स्पृहाभिवृद्धिर्दुष्कालेऽधिकमासकल्पेति भावः, उक्तञ्च - किमथ परमदुःखं सस्पृहत्वं यदेतत् - इति (सुभाषितरत्नसन्दोहे) / ननु चैवं यदि बालादिदशात्रयेऽपि दुःखमात्रमेव स्यात्, तदा कस्यचित् al कदापि सुखानुभूतिर्न सङ्गतिमुपेयात्, भवति तु सा, तत् किमत्र तत्त्वमिति चेत् ? अत्राह क्वचिद्वा विद्यते यैषा, संसारे सुखभावना / आयुः स्तम्बमिवासाद्य, कालस्तामपि कृन्तति // 3-37 // क्वचिदनुभूयमानमपि सुखं भावनामात्रम्, तत्त्वतस्तदभावात्, उक्तञ्च - वासनामात्रमेवैतत् सुखं दुःखं च देहिनाम् / तथा ह्युद्वेजयन्त्येते भोगा रोगा इवापदि - इति (इष्टोपदेशे)। अथ तेनाप्यस्माकं सन्तुष्टिर्वासनामात्रेणेत्यत्राह - आयुरित्यादि, तथा च तस्या अपि विकरालकालकवलीभावगमनस्वाभाव्यान्न तदास्थाऽपि युक्ता सचेतसः, गत्वररागस्य शोकैक-पर्यवसानात्, अत एवागमः - भेउरेसु ण रज्जेज्जा - इति (आचाराने) / अथ कोऽयं कालो वराकोऽस्मत्पुरत Page #32 -------------------------------------------------------------------------- ________________ महोपनिषद् | अध्यात्म दर्शना 魯魯魯灣碧碧碧消著萬萬萬萬萬萬萬萬萬萬 इति दध्मातं तत्स्वरूपशंसनेन बोधयति तृणं पांसुं महेन्द्रं च, सुवर्णं मेरुसर्षपम् / आत्मम्भरितया सर्व-मात्मसात्कर्तुमुद्यतः // कालोऽयं सर्वसंहारी, तेनाऽऽक्रान्तं जगत्त्रयम् // 3-38 // तथा च दुरतिक्रम एव काल इत्यकामेनापि प्रतिपत्तव्यम्, तदप्रतिपत्तेस्तदनुभावमोक्षस्याहेतुत्वात्, उक्तञ्च - काल: पचति भूतानि कालः संहरते प्रजाः / कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः - इति / एवं सर्वथा विरागमार्गमवतारितस्यापि नारीगोचररागो दुर्निर्वर्त्यः, अनादिभवभावनाभ्यस्तत्वात्, मनुष्याणां मैथुनसझाया आधिक्याच्चेति तत्स्वरूपप्रकाशेन तदनुरागान्धकारमपनयति मांसपाञ्चालिकाया स्नायवस्थिग्रन्थिशालिन्याः, स्त्रियः किमिव शोभनम ? // 3-39 // यदि हि कृमिकुलाकुलकुथितकुणपाश्रयं किमपि शोभनत्वं स्यात्तदा स्त्रिया अपि तत्स्यात्, परमार्थतोऽविशेषादित्याशयः / एतदेव स्पष्टतरमाचष्टे 332200333333333 30 Page #33 -------------------------------------------------------------------------- ________________ महोपनिषद् | अध्यात्मदर्शना त्वङ्मांसरक्तबाष्पाम्बु, पृथक्कृत्वा विलोचने / समालोकय रम्यं चेत्, किं मुधा परिमुह्यसि ? // 3-40 // यदि हि शुचितमत्वेनाभिमतेऽपि लोलेक्षणेक्षणे तत्सतत्त्वविवेचने सत्यशुचिमात्रपर्यवसिते स्याताम्, तदान्यानि तु योषिदङ्गानि सुतराममध्यतराणीति मुधैव तत्परिमोह इत्याशयः / एतदेव समर्थयति मेरुशृङ्गतटोल्लासि-गङ्गाचलस्योपमा / दृष्टा यस्मिन् मुने ! मुक्ता-हारस्योल्लासशालिता // 3-41 // श्मशानेषु दिगन्तेषु, स एव ललनास्तनः / श्वभिरास्वाद्यते काले, लघुपिण्ड इवान्धसः // 3-42 // त्याज्योऽतो विरसपर्यवसानानुरागः, तस्य तत्पर्यवसाननियमात् / एतदेवाह केशकज्जलधारिण्यो, दुःस्पर्शा लोचनप्रियाः / दुष्कृताग्निशिखा नार्यो, दहन्ति तृणवन्नरम् // 3-43 // FFFFFFFFFFooooo Page #34 -------------------------------------------------------------------------- ________________ महोपनिषद् | अध्यात्म दर्शना HARYANA ज्वलतामतिदूरेऽपि, सरसा अपि नीरसा / स्त्रियो हि नरकाग्नीना-मिन्धनं चारु दारुणम् // 3-44 // तज्जीवनत्वान्नरकाणाम्, उक्तञ्च - दारा न कारा नरकस्य चित्ते, व्यचिन्ति नित्यं मयकाऽधमेन / / - इति (रत्नाकरपञ्चविंशतिकायाम् ) / ननु यद्येवं तहि चारुत्वं तासां न सङ्गतिमङ्गतीति चेत् ? को वा किमाह? उपनिषत्कदिति चेत् ? न, अभिप्रायापरिज्ञानात्, चार्विति न नारीविशेषणमपि त्विन्धनस्य, तच्च नरकाग्निसम्बन्धि, अतस्तच्चारुत्वोक्तिस्तज्जन्यजननसामर्थ्यप्राबल्यमेवावेदयन्ती तद्दारुणतरतामेव व्यनक्तीति भावनीयम् / अत एवोक्तम् - जानामि नरकं नारीम् - इति (अवधूतगीतायाम्) / अत्र हि - ज्वलना अतिदूरेऽपि - इति (याज्ञवल्क्योपनिषदि) उपनिषदन्तरे पाठ इति ध्येयम् / किञ्च कामनाम्ना किरातेन, विकीर्णा मुग्धचेतसः / नार्यो नरविहङ्गाना-मङ्गबन्धनवागुराः // 3-45 // जन्मपल्लवमत्स्यानां, चित्तकर्दमचारिणाम् / पुंसां दुर्वासनारज्जु-र्नारी बडिशपिण्डिका // 3-46 // 1000000000 3 Page #35 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना 萬萬萬萬萬萬萬萬萬萬萬萬萬萬身邊 तद्वन्धवधादिहेतुत्वात्, अत एवागमः - सूणा पुरिसाणं - इति (तन्दूलवैचारिके) / अतः - सर्वेषां दोषरत्नानां, सुसमुद्गिकयाऽनया / दुःखशृङ्खलया नित्य-मलमस्तु मम स्त्रिया // 3-47 // ननु च न दोषेषु रत्नोपमोचिता, प्रत्यपायावहत्वादिति चेत् ? तर्हि रत्नेष्वपि तव्यपदेशो मा भूत्, तत एव, तुल्यन्यायात् / अतः सञ्ज्ञानादिलक्षणं भावरत्नत्रयं विमुच्य बाह्यरत्नानां प्राशस्त्यविरहान्नोक्तानौचित्यप्रसक्तिः, अपि तु यथा सुसमुद्गके रत्नानि सुरक्षितानि भवन्ति, तथा स्त्रियामपि दोषा इत्यर्थतस्तद्विरागापादनात्मकाभिमतप्रयोजनसिद्धिरेव / युक्तश्चायमर्थः, स्वभावस्य त्यक्तुमशक्यप्रायत्वात्, यदुक्तम् - वञ्चकत्वं नृशंसत्वं चञ्चलत्वं कुशीलता / इति नैसर्गिका दोषा यासां तासु रमेत कः ? - इति / ननु सम्यगेतत्तत्त्वावगमेऽपि दुस्त्यज एवास्माकमङ्गनानुरागस्तत्कि कर्त्तव्यमिति चेत् ? अनुरागगोचरपरिहार इति गृहाण, तदपरिहारस्य तदनुरागजीवनत्वात्, तद्वृद्धिहेतुत्वाच्चेत्याह यस्य स्त्री तस्य भोगेच्छा, नि:स्त्रीकस्य क्व भो स्त्रियं त्यक्त्वा जगत् त्यक्तं, जगत् त्यक्त्वा सुखी भवेत् // 3-48 // अत एव स्त्रियो दर्शनादेरपि प्रतिषेधमभिदधन्ति विदः, अनादितदनुरागवासितान्तःकरणानां तदर्शनादेरपि 3 3 Page #36 -------------------------------------------------------------------------- ________________ अध्यात्मदर्शना महोपनिषद् | महानर्थनिमन्त्रणरूपत्वात्, अगुप्तस्य ब्रह्मचर्यस्यादीर्घकालीनत्वात्, तत्त्वतोऽब्रह्मानतिरेकाच्च / तथा च पारमर्षम् - अदंसणं चेव अपत्थणं च, अचिंतणं चेव अकित्तणं च / इत्थीजणस्सारियझाणजुग्गं हियं सया बंभवए रयाणं - इति (उत्तराध्ययने) / ननु स्त्रीविकलास्तु रोरा अपि धारयेयुर्ब्रह्म, न चैवं कोऽप्यतिशयः, अतः स्त्र्यादिभोगसाधन समूहमध्यगतेनैव वैराग्याभ्यासः कार्य इति चेत् ? केनेति वक्तव्यम्, निष्पन्नयोगिना चेत् ? न तेन भोगसाधनसमूहेन तस्य भR प्रयोजनम्, तस्य वैराग्याभ्याससाधनत्वाभावेऽविगानात्, सिद्धवैराग्यप्रकर्षत्वाच्च / अथ योगारम्भकेनेति, दत्तस्तहि जलाञ्जलिर्वैराग्याभ्यासाय, तद्वधाभियोगस्य तद्भावनाहेतुत्वायोगात्, अत एव सर्वज्ञवचनम् - जहा बिरालावसहस्स मूले ण मूसगाणं वसही पसत्था / एमेव इत्थीणिलयस्स मज्झे ण बंभयारिस्स खमो णिवासो / कामं तु देवीहिं विभूसियाहिं ण चालिया खोभइउं तिगुत्ता / तहा वि एगंतहियं ति णच्चा विवित्तवासो इसीणं पसत्थो - इति (उत्तराध्ययने)। अत: सूक्तम् - यस्य स्त्री तस्य भोगेच्छा निःस्त्रीकस्य क्व भोगभूः ? - इति / स्त्रियं त्यक्त्वा - मनोवाक्कायैः परिहत्य, जगत् त्यक्तम् - समस्तसंसारवासना परित्यक्ता, तीर्णमहासागरस्य सरित्तरणस्याकृतस्यापि कृतप्रायत्वात्, यदार्षम् - एए उ संगे समइक्कमित्ता सुउत्तरा चेव हवंति सेसा / जहा महासागरमुत्तरित्ता णई भवे अवि गंगासमाणा - इति (उत्तराध्ययने) / अथ त्यक्तेनापि जगता को गुण इत्यत्राह - जगत्त्यक्त्वा सुखी भवेत्, दुःखरूपत्वाद् भवस्य, तत्फलत्वात्, तदनुबन्धत्वाच्च, तदुक्तम् - अणाई जीवस्स भवे, Page #37 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना दुक्खरूवे दुक्खफले दुक्खाणुबंधे - इति (पञ्चसूत्रे ) / ननु चैवं यदि स्त्रीत्याग एव जगत्त्यागः, तदा स्त्र्येव जगदित्यापतितं स्यादिति चेत् ? सत्यम्, मू गोचरवस्तुनः कथञ्चित्तद्रूपत्वात्, परमार्थतो मूर्छाया एव जगत्त्वात्, व्यवहारतस्तु समस्तजगति कस्याप्याधिपत्यमपि नेति का तत्परिहारवार्ताऽपि ? वन्ध्यापुत्रोद्वाहवार्तावदसद्विषया सेति भावः / अतो मूर्छापरमनिमित्तरूपायां स्त्रियां जगद्व्यपदेश उपपन्न एवेति / अत एवोच्यते - मूर्छाछन्नधियां सर्वं जगदेव परिग्रहः / मूर्च्छया रहितानां तु जगदेवापरिग्रहः - इति (ज्ञानसारे)। इतश्च मूर्छा त्याज्येत्याह ब्रह्मा विष्णुश्च रुद्रश्च, सर्वा वा भूतजातयः / नाशमेवानुधावन्ति, सलिलानीव वाडवम् // 3-52 // एवञ्च यदि भगवत्त्वेनाभिमतानामपि विनाशपर्यवसानत्वमेव, तदा तदितरस्य तु जगतः का वार्ता ? विनाशपथैकपथिकमेव तत्, अतस्त्याज्यस्तत्प्रतिबन्धः, नश्वरानुरागस्या श्रुपरिणामत्वात्, एतदेवाभिधत्ते आपदः क्षणमायान्ति, क्षणमायान्ति सम्पदः / क्षणं जन्माथ मरणं, सर्वं नश्वरमेव तत् // 3-53 // Page #38 -------------------------------------------------------------------------- ________________ महोपनिषद् | अध्यात्मदर्शना क्षणिकत्वस्यैव नश्वरत्वाक्षेपकत्वात्, वस्तुतस्तदनन्तरत्वाच्च / न हि नश्वरतामात्रं मू परिहार आलम्बनम्, अपि तु दारुणताऽपीति तामाह विषं विषयवैषम्यं, न विषं विषमुच्यते / जन्मान्तरघ्ना विषया, एकजन्महरं विषम् // 3-54, 55 // यद्गोचरेण पुनरपि जीवनमवाप्यते, न तद्विषम्, अपि तु यत्पानेनानन्तमरणगोचरता तद्विषम्, तच्च विचार्यमाणं विषयेष्वेवोपपद्यते, अतस्तद् विषम्, न वराकं विषत्वेनोच्यमानं पानकमिति हृदयम् / अतस्तत्परिहारे यतितव्यम्, विषयवैषम्यमोक्षस्यैव मोक्षरूपत्वात्, तस्यैव चोपादेयत्वात् / अथ प्रकारान्तरेण मोक्षोपादानोपायमभिधातुं तद्द्वारपालस्वरूपमाह मोक्षद्वारे द्वारपालाश्चत्वारः परिकीर्तिताः / शमो विचारः सन्तोषश्चतुर्थः साधुसङ्गमः // 4-2 // यथा हि द्वारपालानुग्रहेणान्त:प्रवेश: सुलभो भवति, तथैव मोक्षानुप्रवेशार्थमेतच्चतुष्टयानुग्रह आवश्यक इत्यभिप्रायः / एतस्याप्युपायमुपदर्शयति Page #39 -------------------------------------------------------------------------- ________________ महोपनिषद् | अध्यात्मदर्शना 10000000000000000 एकं वा सर्वयत्नेन, सर्वमुत्सृज्य संश्रयेत् / एकस्मिन् वशगे यान्ति, चत्वारोऽपि वशं गताः // 4-3 // अन्यतरस्यापि स्वभ्यस्तस्य स्वान्यत्रयनिबन्धनत्वोपपत्तेः / तथा शास्त्रैः सज्जनसम्पर्क-पूर्वकैश्च तपोदमैः / आदौ संसारमुक्त्यर्थं, प्रज्ञामेवाभिवर्धयेत् // 4-4 // न हि गुरूपासनमन्तरेण शास्त्राभिधेयाधिगमः, न तपोदमान्तरेणाधिगताधिगमसाफल्यम्, अतो विनीतविनयेन ज्ञानक्रियासमादरः कर्त्तव्यः, एवमेवाऽऽत्मपरिणतिपरिष्कारात्मकप्रज्ञाभिवृद्धिसम्भवात्, तदाह - विनयफलं शुश्रूषा गुरुशुश्रूषाफलं श्रुतज्ञानम् / ज्ञानस्य फलं विरतिविरतिफलं चाश्रवनिरोधः - इति (प्रशमरतौ)। भवति हि गुरूपासनायुक्तयोगाक्षणिकचित्तस्य सन्तततदभ्यासयोगेनाऽऽत्मसाक्षात्कारानुभावतः संवरसामग्र्यं महोदयैकनिदानम् / एतदेव समर्थयति स्वानुभूतेश्च शास्त्रस्य, गुरोश्चैवैकवाक्यता / यस्याभ्यासेन तेनात्मा, सततं चावलोक्यते // 4-5 // Page #40 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना न ह्यनुभूतिरेवेष्टार्थसाधिका, जीवमात्रसाधारणत्वात्सर्वेष्टसिद्धिप्रसक्तेः, तददर्शनाच्च / अपि तु शास्त्रगुर्वभिप्रायाविरुद्धाऽनुभूतिः / अन्यथा तु ग्रहिलादेः कुक्कुरादेश्चापि भवत्येव काचिदनुभूतिरिति भावनीयम् / एवञ्च यथा तत्रयेऽविगानयोगेन मिथो विशेषलेशस्यापि विरहस्स्यात्तदा सम्भवत्यात्मसाक्षात्कारः, सामग्रीसाध्यत्वात्तस्य / ननु च शास्त्रं गुरुश्चेति पृथग्रहणेन तद्वयस्याभिप्रायभेदसम्भवोऽनिष्ट आपद्येतेति चेत् ? न, तात्पर्यानवगमात्, शास्त्रपदेन हि शिष्याधीतं श्रुतज्ञानमत्राभिप्रेतम्, तच्च तदैव सम्यक्तामवतरेत्, यदा गुरोस्तेनैकवाक्यता स्यात्, एवं स्वानुभूतेरपि वाच्यम्, तस्या अपि प्रायः श्रुतज्ञानप्रभवत्वात्, तस्य च गुर्वधीनत्वात्, अभिहितञ्च - गुर्वायत्ता यस्माच्छास्त्रारम्भा भवन्ति सर्वेऽपि / तस्माद् गुर्वाराधनपरेण हितकाङ्क्षिणा भाव्यम् - इति (प्रशमरतौ) / युक्तं चैतत्, सर्वस्यापि योगमार्गस्य तदधीनत्वात्, अत एवोच्यते - जुत्ताजुत्तवियारो गुरुआणाए ण जुज्जए काउं / दइवाओ मंगुलं पुण जं हुज्जा तं पि कल्लाणं - इति / किञ्चैतदभ्यासत एवोन्मनीभाववशीकारोऽपि, तदनुभावतः सङ्कल्पादिपरिहारसिद्धेस्तत्सम्भवादित्याह सङ्कल्पाशानुसन्धान-वर्जनं चेत् प्रतिक्षणम् / करोषि तदचित्तत्वं, प्राप्त एवासि पावनम् // 4-6 // TECECECEFFFFFFFFFFFFFEE Page #41 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना 獨獨當當葛葛萬萬萬萬萬萬萬萬萬萬 सङ्कल्पाशारूपं हि चित्तम्, अतस्तदभावे तद्विरहो न्यायोपपन्न एव / तत्पावनत्वं च परमपदप्रयोजकत्वात्, तदाह - यस्य सङ्कल्पनाशस्स्यात्, तस्य मुक्तिः करे स्थिता - इति ( मण्डलब्राह्मणोपनिषदि) / अपि च - चेतसो यदकर्तृत्वं, तत् समाधानमीरितम् / ___ तदेव केवलीभावं, सा शुभा निर्वृतिः परा // 4-7 // भावाभावगोचरचित्तप्रवृत्तेरेवाकुलतानिदानत्वेन तन्निवृत्तौ समाधेरेवावशेषात्, उक्तञ्च - भावस्य भावको कश्चिन्, न किञ्चिद्-भावकोऽपरः / उभयाभावकः कश्चि-देवमेव निराकुलः // - इति (अष्टावक्रगीतायाम् ) / कैवल्यमप्यत एव, चित्तविनाशे हृषीकाणामपि स्वत एव विपत्तेस्तटादर्शिशकुन्तपोतप्रत्यागमनवदात्मन आत्मन्येवानुप्रवेशतो द्वैतविगमात्, उक्तञ्च - चित्तनाशाद्विपद्यन्ते सर्वाण्येवेन्द्रियाणि हि / क्षीणस्नेहस्य दीपस्य संरक्ता रश्मयो यथा-इति (वाल्मिकिरामायणे)। अत एव सा प्रशस्ता निर्वृतिः, भोगाद्युपजनितरतेरप्रशस्तत्वात्, परा च सा, सर्वोपरमस्यैव सुखप्रकर्षोपनिषद्रूपत्वात्, तत्प्रायत्वाच्च चित्तोपरमस्य, अस्मात् चेतसा सम्परित्यज्य, सर्वभावात्मभावनाम् / यथा तिष्ठसि तिष्ठ त्वं, मूकान्धबधिरोपमः // 4-8 // Page #42 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्म दर्शना सर्वभावात्मभावनाम् - विश्वविश्वान्तर्वर्तिस्वातिरिक्तपदार्थेषु स्वकीयत्ववासनाम्, चेतसा सम्परित्यज्य, वाङ्मात्रेण तत्त्यागस्य तत्त्वतोऽत्यागत्वात्, वपुषा तदुरीकृतत्वविरहात्तत्त्यागवा या अप्यभावात्, मनसाऽपरित्यक्तस्य वस्तुतो परिगृहीतत्वानतिक्रमात्, तदाह - विषयैः किम्परित्यक्तैर्जागति ममता यदि / त्यागात्कञ्चकमात्रस्य भुजङ्गो न हि निर्विषः - इति (अध्यात्मसारे)। अतस्त्वं यथा - स्वरूपाविच्युत्यनुगुणप्रकारेण तिष्ठसि - सर्वभावात्मभावनासम्परिहारप्रभावतस्स्वरूपसिंहासनैकप्रतिष्ठितो भवसि, तथा मूकान्धबधिरोपमः - परप्रवृत्तिगोचरवचनादिप्रवृत्तिमाश्रित्य मूकादिसदृशः, आत्माभिमुखाऽऽनीतोपयोगसामग्र्य इति यावत्, तिष्ठ, तत उत्थानस्य सर्वव्युत्थाननिमित्तत्वात् / किञ्च तत्त्वावबोध एवासौ, वासनातृणपावकः / प्रोक्तः समाधिशब्देन, न तु तूष्णीमवस्थितिः // 4-12 // वचनानुच्चारमात्रस्यैकेन्द्रियेष्वपि सुलभतया तेषामपि समाहितत्वोपगमप्रसक्तेः / तत्त्वावबोधः समाधिः, वासनातृणपावकतया सर्वविभावविलयापादनपुरस्सरं स्वभावसंलयप्रयोजकत्वात्, तदतिरिक्तसमाधिविरहात् / तत्तद्विभावसन्ततियोनिरपि कर्तृत्वमतिः, सैव च साम्यप्रतिबन्धिनीत्याह 萬萬萬萬萬萬萬萬萬萬萬萬萬萬萬萬萬萬 40 Page #43 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना aaaaaaaaaaaaja तस्मान्नित्यमकर्ताऽह-मिति भावनयेद्धया / परमामृतनाम्नी सा, समतैवावशिष्यते // 4-16 // __ कर्तृत्वमतेरेवाहङ्कारोत्थितिः, तस्या अपि ममकारवासना, तया च साम्यविनिपातः शतमुखः, अतः कर्तृत्वमतिरेवात्माकर्तृत्वोरीकर्तृनिश्चयनयालम्बनेनापास्या, एवमेवापास्ताशेषपरपरिणामस्वभावसंस्थितिरूपपरमसाम्योदयात्, तच्च परमामृतरूपम्, मृत्य्वाद्यपायात्यन्तिकैकान्तिकौषधत्वात्, तत्सिद्धौ च आकृत्यैव विराजन्ते, मैत्र्यादिगुणवृत्तिभिः / समाः समरसाः सौम्य ! सततं साधुवृत्तयः // 4-19 // आकृत्यैव - आकारमात्रेणापि, विराजन्ते - साम्यसाम्राज्यसम्राट्शोभां बिभर्ति, तथाविधानां समाधिसाम्यसिद्धानां तन्मात्रस्यापि देशनातिशयित्वात् / विराजनहेत्वन्तरमाह - मैत्र्यादिगुणवृत्तिभिः - सत्त्वादिषु मैत्र्यादिभावनाविभावनैः, तदुक्तम् - अहवा आहेणं चिय भणियविहाणाओ चेव भावेज्जा / सत्ताइएसु मेत्ताइए गुणे परमसंविग्गो। सत्तेसु ताव मेत्ति, तहा पमोयं गुणाहिएसुं ति / करुणामज्झत्थत्ते किलिस्समाणाऽविणेएसु - इति (योगशतके), आभिरप्येते विराजन्ते, द्वेषादिकालुष्यस्यैवात्मशोभातिरोभावकत्वात्, ततश्च ते समाः, वैषम्यप्रयोजककालुष्यापगमात्, अत एव समरसाः, 2003233003339333 Page #44 -------------------------------------------------------------------------- ________________ महोपनिषद् | अध्यात्मदर्शना तदेकरसीभूतस्वरूपतया तदनतिरेकात्, किमुक्तं भवति ? हे सौम्य ! सततं साधुवृत्तयः, परमसाम्यस्य तन्मात्रपर्यवसानात् / हिंसाद्यसाधुवृत्तयो हि वैषम्ये सत्येव सम्भवन्ति, सव्वभूयप्पभूयस्स सम्मं भूयाइं पासओ (दशवैकालिके) - इत्यागमोदितदशाधिगतौ परमसाम्यपरिणतेहिंसाविचारस्याप्यसम्भवात्, अहिंसामग्र्ये चासत्याद्यनवकाशात् / अत एव अब्धिवद् धृतमर्यादा, भवन्ति विशदाशयाः / नियतिं न विमुञ्चन्ति, महान्तो भास्करा इव // 4-20 // विशदाशयाः - तुमं सि णाम स च्चेव जं हंतव्वं ति मण्णसि (आचाराले) इत्यागमावगमतः स्पष्टाभिप्रायाः, अब्धिवद् धृतमर्यादा भवन्ति, मर्यादातिक्रमस्याशयावैशद्यहेतुकत्वात्, यो हि तत्तद्धिसादिकर्मत्वेनात्मानमेवाभिवीक्षते, स कथन्नाम तत्र प्रवर्तेत ? मन्दस्यापि प्रायस्तथाप्रवृत्त्यभावात् / अतो महान्तः - विश्वविश्वसत्त्वसमूहप्रतियोगिकाभेदाश्रयभूतात्मदर्शितयाऽक्षुद्रान्त:करणाः, भास्करा इव नियतिं न मुञ्चन्ति, उदयास्तोभयावस्थयोर्नियतस्वस्वरूपावस्थितेरपरिहारात् / सर्वाऽपीयं समाधिसाम्यसिद्धावस्था तत्त्वाधिगमप्रसूता, सोऽपि तज्जिज्ञासायोनिरिति तदर्थमेवोत्साहयति 60060000oCCEEEEEEEEE 12 Page #45 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना कोऽहं कथमिदं चेति, संसारमलमाततम् / प्रविचार्य प्रयत्नेन, प्राज्ञेन सह साधुना // 4-21 // असाधुसहितस्य तत्त्वचिन्ताया अप्यतत्त्वपर्यवसानात् / एतत्प्रविचारानन्तरमपि यत् कर्त्तव्यं तदाह नाकर्मसु नियोक्तव्यं, नानार्येण सहावसेत् / द्रष्टव्यः सर्वसंहर्ता, न मृत्युरवहेलया // 4-22 // नाकर्मसु नियोक्तव्यम्, तन्नियोगस्य सर्वापत्संयोगानतिरेकात्, एतदर्थमपि नानार्येण सहावसेत्, संसर्गजत्वाद् गुणदोषाणाम्, जीवस्य भावुकद्रव्यत्वात्, उक्तञ्च - भावुगदव्वं जीवो संसग्गीए गुणं च दोसं च पावइ - इति (पुष्पमालायाम् ) / सर्वसंहर्ता - चराचराखिलविश्वसंहारकर्ता, मृत्युरवहेलया न दृष्टव्यः, तदवज्ञायास्तदानन्त्यहेतुत्वात्, अत एवोच्यते - गृहीत इव केशेन मृत्युना धर्ममाचरेत् - इति / ननु च शूर एवावगणयति मृत्युम्, तृणं शूरस्य जीवितम् (चाणक्यनीतौ)- इत्युक्तेः, कातर एव बिभेत्यतः, तत्कि योगिना कातरेण भवितव्यमिति चेत् ? ओमित्युच्यते, तद्भयस्यैव तात्त्विकस्य तद्विमुक्तिनिदानत्वात्, तथा चागमः - माराभिसंकी मरणा पमुच्चइ - इति (आचाराड़े)। नन्वेवं मरणान्तोपसर्गागणना योगिनो नोपपद्यतेति चेत् ? न, | Page #46 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना 魯魯灣漫漫漫萬萬萬萬萬萬萬萬萬萬萬萬 अभिप्रायापरिज्ञानात्, तदगणनाया अप्यनन्तमरणभीतिप्रसूतत्वात्, उपसर्गशतसन्निपातेऽप्यविचलितप्रकृतिभावस्य तद्भीतिसुलभत्वात्, अत एवागमे मुमुक्षुलक्षणम् - भीया जम्मणमरणाणं - इति / नास्तिकस्तु प्रत्यक्षमीक्ष्यमाणमपि मृत्युमवगणयन् तत्तत्कर्मसु प्रवर्तते, यैः पुनः पुनर्मरणगोचरतामुपयाति, अतस्तदवगणना प्रतिषिद्धा / कर्त्तव्यान्तरमाह शरीरमस्थि मांसं च, त्यक्त्वा रक्ताद्यशोभनम् / भूतमुक्तावलितन्तुं, चिन्मात्रमवलोकयेत् // 4-23 // सर्वसत्त्वानुप्रोतचैतन्यसूत्रावलोकनेन हि निष्ठामेति शत्रुमित्रकथा, ततोऽपि प्रतिष्ठामेति परमसमतेति तदुपदेशः / तस्या एवोपायान्तरमाह उपादेयानुपतनं, हेयैकान्तविसर्जनम् / यदेतन्मनसो रूपं, तद्बाह्यं विद्धि नेतरत् // 4-24 // न ह्यान्तरमनसि हेयोपादेयाध्यवसायो भवति, भावमनस आत्मपरिणामरूपत्वात्, तच्छुद्धस्वरूपस्य माध्यस्थ्यैकविग्रहत्वात् / एवञ्च यद् बाह्यम्, तन्न स्वरूपम्, घटादिवत् / अतः स्वरूपमात्रानुसन्धानप्राप्यपरमसौख्यलिप्सुना सर्वपरद्रव्याद् व्यावृत्त्य माध्यस्थ्यमास्थेयम् / एतदपि स्वरूपचिन्तनेन शक्यमित्याह 44 Page #47 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना गुरुशास्त्रोक्तमार्गेण, स्वानुभूत्या च चिद्धने / ब्रह्मैवाहमिति ज्ञात्वा, वीतशोको भवेन्मुनिः // 4-25 // स्वरूपसञ्ज्ञानतो हि गतस्य परत्वावगमात्, स्वस्य चासम्भवदपनयनत्ववेदनाच्चानुत्थानपराहतिरेव शोकस्य / न हि भावनामात्रतो देहपार्थक्यसंवेदनेन स्वरूपसञ्ज्ञानम्, अपि तु विवेकभावनासचिवातः सर्वज्ञोक्तप्रकारेण तितिक्षात इत्याह यत्र निशितासिशतपातनमुत्पलताडनवत्सोढव्यम् / अग्निना दाहो हिमसेचनमिव / अङ्गारावर्तनं चन्दनचर्चेव / निरवधिनाराचविकिरपातो निदाघविनोदनधारागृहशीकरवर्षणमिव / स्वशिरश्छेदः सुखनिद्रेव / मूकीकरणमाननमुद्रेव / ___बाधिर्यं महानुपचय इव / इदं नावहेलनया भवितव्यमेवं दृढवैराग्याद्वा भवति / द्विविधा ह्यवहेलना भवति - प्रद्वेषप्रसूता, माध्यस्थ्योद्भूता च / आद्या भवहेतुतया त्याज्या, आर्तध्यानरूपत्वात्, FFFFFFFFFFFFFFFFFFFE प Page #48 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना रौद्रध्याननिदानत्वाच्च / तदितरा तु तितिक्षाभूततया शिवयोनित्वेनाऽऽदृतव्या / एवञ्चोक्तरीत्याऽग्न्यादिषु हिमभावादिदर्शनमग्न्यादितत्तत्पर्यायावज्ञैवेति निपुणमालोचनीयम्, तत्त्वेन तद्गणनायां तितिक्षानुपपत्तेः / / सत्तितिक्षाभ्यासतो हि सम्यग् देहादिभिन्नस्वस्वरूपसंवेदनम् / ततोऽपि सर्वसङ्क्लेशसक्षोभापगमात् स्तिमितोदधिवच्चित्तस्य प्रशान्तिः / ततोऽपि यद् भवति तदाह यानि दुःखानि या तृष्णा, दुःसहा ये दुराधयः / शान्तचेतःसु तत्सर्वं, तमोऽर्केष्विव नश्यति // 4-29 // परमार्थतश्चित्तानुपशमस्यैव दुःखादिरूपत्वात् / अतः प्रशमलाभायैव प्रेरयति मातरीव परं यान्ति, विषमाणि मृदूनि च / विश्वासमिह भूतानि, सर्वाणि शमशालिनि // 4-30 // अतः शमसन्धारणेनान्दनीयाः सत्त्वाः, अपरथा आनन्दावाप्त्ययोगात्, तथा च नीतिः - नादत्तं लभ्यते क्वचित् - इति / अपि च स्वतोऽप्यानन्दस्रोतः प्रशम इत्याह - Page #49 -------------------------------------------------------------------------- ________________ महोपनिषद् || अध्यात्मदर्शना न रसायनपानेन, न लक्ष्यालिङ्गितेन च / न तथा सुखमाप्नोति, शमेनान्तर्यथा जनः // 4-31 // प्रशमस्यैव परमार्थतो रसायनादिरूपत्वात्, अशान्तस्य रसायनादेरपि दु:खहेतुत्वान्यथाऽनुपपत्तेः / कथं तर्हि प्रशमाधिगमः ? किं वा प्रशान्तलक्षणमित्यत्राह श्रुत्वा स्पृष्ट्वा च भुक्त्वा च, दृष्ट्वा ज्ञात्वा शुभाशुभम् / न हृष्यति ग्लायति यः, स शान्त इति कथ्यते // 4-32 // न चैवं निःसञत्वप्रसक्तिरिति वाच्यम्, कथञ्चिदिष्टत्वात्, तत्प्रायत्वात् शान्तस्य, यदाह - उन्मनीकरणं तद्यद् मुनेः शमरसे लयः - इति (योगसारे) / अत एव तुषारकरबिम्बाच्छं, मनो यस्य निराकुलम् / मरणोत्सवयुद्धेषु, स शान्त इति कथ्यते // 4-33 // मरणे निराकुलत्वम्, आत्मप्रदेशमात्रस्यापि हानेरनुपलम्भात् / उत्सवेऽपि तत्, तद्वद्ध्यदर्शनात् / द्वन्द्वेऽपि, स्वद्वन्द्वाभावविनिश्चयात् / पर्यवसिता शान्तिः / अपि च Page #50 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना तपस्विषु बहुज्ञेषु, याजकेषु नृपेषु च / बलवत्सु गुणाढ्येषु, शमवानेव राजते // 4-34 // शमविकलतप:प्रभृतेः प्रत्युत चपास्पदतया शोभासवितृत्वायोगात् / किञ्च सन्तोषामृतपानेन, ये शान्तास्तृप्तिमागताः / आत्मारामा महात्मानस्ते महापदमागताः // 4-35 // सन्तोषोऽमृतम्, इहैव सिद्धिसुखार्पणात्, तद्वितरिता तृप्तिर्हि पारमार्थिका, तृष्णाऽत्यन्तोच्छेदकत्वात् / एवञ्चेहैव महापदमिति न किञ्चिदनुपपन्नम्, उक्तञ्च - सुहाइं संतोससाराई - इति / सन्तोष एव तर्हि कथ्यतामित्यत्राह अप्राप्तं हि परित्यज्य, सम्प्राप्ते समतां गतः / / अदृष्टखेदाखेदो यः, सन्तुष्ट इति कथ्यते // 4-36 // न चाप्राप्तस्य परिहार इति व्याहतमिति वाच्यम्, तन्मू परिहार एव तात्पर्यभावात, बाह्यस्य परमार्थप्राप्तेरेवासम्भवात्, उक्तञ्च - मज्झ परिग्गहो जदि, तोऽहमजीवत्तं तु गच्छेज्ज / णादेव अहं जम्हा, तम्हा ण परिग्गहो मज्झ - इति (समयसारे)। उत्तरं तर्हि व्याहन्यत इति चेत् ? न, नित्यसम्प्राप्तज्ञानादिगुणगणस्याधिकृतत्वात् / यद्वा लोक Page #51 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्म दर्शना व्यवहारमनुसृत्य यथालब्धाहारादौ रागादिवैषम्यपरिहारेण समवृत्तिरित्यर्थः / अत एव अदृष्टखेदाखेदः, सम्यगुक्ततत्त्वादर्शिन एव तद्दर्शनयोगात्, प्राप्तव्याभावपश्यको ह्यसौ, कथन्नामास्य खेदः? तद्भावदर्शनस्य तन्मूलत्वात् / प्राप्तव्यदर्शनेन हि खिद्यत आत्मा तदवाप्त्यभियोगेन, तद्वैफल्येऽधिकतरं चानुभवति खेदमिति / नन्वेवमखेददर्शनमस्यानुपपन्नं स्यादिति चेत् ? न, अखेदस्य खेदपूर्वकत्वात्, अस्य च तदभावात् / यथा हि स्वर्गे रात्र्यभावाद्दिनाभावो भवति, नित्यप्रकाशत्वात्, एवं नित्यानन्दमुदितस्यास्य खेदाखेदविरह: प्रत्येयः / सेयं देवेन्द्रादीनामपि स्पृहणीयदशा सन्तोषपदाभिहितेत्याह - स सन्तुष्ट इति कथ्यते - इति / एतदेव प्रकारान्तरेणाह - नाभिनन्दत्यसम्प्राप्तं, प्राप्तं भक्ते यथेप्सितम / यः स सौम्यसमाचारः, सन्तुष्ट इति कथ्यते // 4-37 // प्राप्तव्यदर्शनप्रयुक्ततत्प्राप्त्यभियोगो हि चण्डताजीवनम्, तद्विरहे तदभावात्, अतस्तददर्शिनः सौम्यसमाचारतैव स्यात्, प्रतिबन्धकविगमादित्याशयः / इत्थञ्च Page #52 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना रमते धीर्यथाप्राप्ते, साध्वीवान्तःपुराजिरे / सा जीवन्मुक्ततोदेति, स्वरूपानन्ददायिनी // 4-38 // यथाप्राप्तं ह्यमृतसोदरम् / तत्तदभियोगयाचितं तु पानीयप्रतिमम् / आच्छिन्नं तु शोणितानतिशायि / अतो यथाप्राप्तैरेव निर्वाह: कार्यः, एवमेव रागादिनिग्रहक्रमेण वीतरागतोदयाज्जीवन्मुक्तिप्रादुर्भावादिति भावः / एतदुपलक्षणादन्यदपि यल्लक्षितव्यम्, यच्च तत्फलम्, तदाह यथाक्षणं यथाशास्त्रं, यथादेशं यथासुखम् / यथासम्भवसत्सङ्ग-मिमं मोक्षपथक्रमम् // तावद्विचारयेत् प्राज्ञो, यावद्विश्रान्तिमात्मनि // 4-39 // तुर्यविश्रान्तियुक्तस्य, निवृत्तस्य भवार्णवात् / जीवतोऽजीवतश्चैव, गृहस्थस्याथवा यतेः // 4-40 // नाकृतेन कृतेनार्थो, न श्रुतिस्मृतिविभ्रमैः / निर्मन्दरः इवाम्भोधिः, स तिष्ठति यथास्थितः // 4-41 // TECREEEEEEEEEEEE Page #53 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना सौचित्ययोगफला हि तुरीयपदाभिहिता परमोज्जागरदशा / यस्यां सर्वथा कृतकृत्यतापरिणते: स्वरूपावस्थितिरित्याशयः / एतत्प्रतिबन्धिका त्वनुचितप्रवृत्तिः, साऽपि तत्तत्परपरिणतियोगात्, सैव सर्वानर्थनिबन्धनं संसारपाश इत्याह दृष्टद्देश्यस्य सत्तान्तर्बन्ध इत्यभिधीयते / दृष्टा दृश्यवशाद् बद्धो, दृश्याभावे विमुच्यते // 4-47, 48 // दृश्यं हि तदैवान्तःसत्ता बिभर्ति, यदात्मनि तदुपलेपस्स्यात्, आदर्शोपमे साक्ष्यात्मनि प्रतिबिम्बभावं भजमानानामपगच्छतां च कः स्थायिभावः ? वस्तुतस्तदन्तस्तत्सत्ताया अप्यभावात्, प्रतिबिम्बमात्रत्वात् / इयं च सिद्धानतिशयिदशेति मुक्तिरेवेति सूक्तम् - दृश्याभावे विमुच्यते - इति / अपि च दृश्यसत्कान्तर्गतसत्तैव बहिर्गतदृश्ययोनिरिति सैव संसारपदवाच्या, तद्धेतोरेवेतिन्यायात् / एतदेव विधान्तरेण व्यनक्ति मनसैवेन्द्रजालश्री-जगति प्रवितन्यते / यावदेतत्सम्भवति, तावन्मोक्षो न विद्यते // 4-49 // Page #54 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना ब्रह्मणा तन्यते विश्वं, मनसैव स्वयम्भुवा / मनोमयमतो विश्वं, यन्नाम परिदृश्यते // 4-50 // यदि हि ब्रह्मैव विश्वस्रष्टा, तदा स मनोरूप एव साङ्गत्यमुपैति, लक्षणसमन्वयात् / अतो मुमुक्षुणा तदभावे यतितव्यम्, निदानाभावस्य फलाभावानतिरेकात् / तदभावापादनमेवावगमयति सङ्कल्पनं मनो विद्धि, सङ्कल्पस्तत्र विद्यते / यत्र सङ्कल्पनं तत्र, मनोऽस्तीत्यवगम्यताम् // 4-52 // सङ्कल्पमनसी भिन्ने, न कदाचन केनचित् / / सङ्कल्पजाते गलिते, स्वरूपमवशिष्यते // 4-53 // यद्भावे स्वरूपकालुष्यम्, तद्विगमे विशुद्धतदवशिष्टताया आवश्यकत्वात् / एवञ्च अहं त्वं जगदित्यादौ, प्रशान्ते दृश्यसम्भ्रमे / स्यात्तादृशी केवलता, दृश्येऽसत्तामुपागते // 4-54 // Page #55 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना न हि द्वितीयनिबन्धनं द्वैतं तद्विगमेऽवतिष्ठतीत्युक्तकैवल्यमुपपन्नमेव / ननु चाहङ्कारस्यापि सम्भ्रमानुप्रवेशे तत्प्रतीतेमिथ्यारूपत्वसिद्धौ सर्वशून्यताऽऽपत्तिः, दृष्टरप्यभावप्रसङ्गात्, अतस्त्वं-जगच्चेत्येतावानेव सम्भ्रमोऽपनेयोऽस्त्विति चेत् ? न, तात्पर्यानवगमात्, अहमित्युल्लेखो ह्यापेक्षिकः, पित्राद्युल्लेखवत्, न हि पुत्राभावे पिता भवतीति / एवं त्वमित्यस्याभावेऽहमुल्लेखविरहोऽपि विज्ञेयः, आपेक्षिकत्वात्, कैवल्यसामग्ये तथाविधान्त ल्पलक्षणद्वितीयस्यायोगात् / अभावस्त्वहम्पदवाच्यस्य न भवति, तस्यैव कैवल्यगोचरत्वात्, स्वसंवेदनसिद्धत्वाच्च / इतश्चैतत्कैवल्यमित्याह चित्ताकाशं चिदाकाश-माकाशं च तृतीयकम् / द्वाभ्यां शून्यतरं विद्धि, चिदाकाशं महामुने ! // 4-58 // आकाशस्यावगाहगुणतया तत्र जीवपुद्गलादेरवगाढतयाऽशून्यता / चित्ताकाशस्य च तत्तत्सार्थनिरर्थकविकल्पविसरनिलयतयाऽशून्यता / अतः परमार्थशून्यता कैवल्यगोचरीभूतस्य चिदाकाशस्यैव, परिशुद्धतत्पर्याये विजातीयलेशस्याप्यसम्भवेन तद्राहित्यलक्षणशून्यतासामग्र्यादित्याशयः / अथाऽस्तु तत्, किन्तेनेत्यत्राह तस्मिन् निरस्तनिःशेषसङ्कल्पस्थितिमेषि चेत् / सर्वात्मकं पदं शान्तं, तदा प्राप्नोष्यसंशयः // 4-60 // Page #56 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना A0000000000 तदधिगतेः परमगतेरनन्तरत्वात् / सर्वात्मकमिदं पदम्, त्रैलोक्यैकसारभूततया तद्व्यपदेशार्हत्वात् / अस्यैवावस्थान्तरस्य स्वरूपसौन्दर्यमाह उदितौदार्यसौन्दर्य-वैराग्यरसगर्भिणी / आनन्दस्यन्दिनी यैषा, समाधिरभिधीयते // 4-61 // उदितमौदार्यसौन्दर्यं यस्मिन् तद् - उदितौदार्यसौन्दर्यम्, कार्पण्यात्मकवैरूप्यापगमात्, एवंविधं यद् वैराग्यम् - स्वरूपस्नेहप्रयुक्तसमस्तसंसारगोचरनिःस्नेहभावः, तदेव रसः, परमपदप्रदतया सुवर्णसिद्ध्यादिरसवदद्भुतानुभावत्वात्, स गर्भे यस्याः सा - उदितौदार्यसौन्दर्यवैराग्यरसगर्भिणी, अत एवाऽऽनन्दस्यन्दिनी, अपगतकार्पण्यकष्टत्वान्निवृत्तपरप्रवृत्तिकत्वात् प्रवृत्तस्वरूपानुसन्धानत्वाच्च / यैषाऽवस्था, सा समाधिरभिधीयते, सम्यक्-सर्वविभावव्यावृत्ततया स्वभावमात्र उपयोगाधानलक्षणतल्लक्षणसमन्वयात् / तत्त्वमत्रत्यं विवेचितमस्माभिः समाधिसुधावृत्तौ सुधोपनिषदीति नात्र प्रतन्यते / नन्वनादिकालतः परद्रव्यप्रेमपाशबद्धस्य तद्वासनाविमोक्ष एव दुष्कर इति कथन्नामासौ तत्परिहारप्राप्यं समाधि प्राप्नुयादिति चेत् ? तत्स्वरूपपरिभावनसुलभेन तत्परिहारेणेति गृहाण / तदपि कथमिति चेत् ? अत्राह 333333333333333333 Page #57 -------------------------------------------------------------------------- ________________ महोपनिषद् || अध्यात्मदर्शना मत्त ऐरावतो बद्धः, सर्षपीकोणकोटरे / मशकेन कृतं युद्धं, सिंहोघेरणुकोटरे // 4-64 // पद्माक्षे स्थापितो मेरु-निर्गीणो भृङ्गसूनुना / निदाघ ! विद्धि तादृक्त्वं, जगदेतद् भ्रमात्मकम् // 4-65 // विचार्यमाणस्य जगतस्तन्मात्रपर्यवसानात्, अश्रद्धेयत्वाविशेषात्, उक्तवत् / एतदेव खलादेरश्रद्धेयत्वम्, यत्तद्दर्शितार्थविसंवादः, स चेज्जगत्यपि समः, तदा कथन्न तस्याप्यश्रद्धेयत्वमिति / विसंवदत्येव जगत्, प्रतिक्षणमपरापरपर्याययोगात्, अत एवार्षम् - विवरीओ य सहावो इमीए अणवट्ठियसहावो, इत्थ खलु सुही वि असुही, संतमसंतं, सुविणु व्व सव्वमालमालं ति - इति ( पञ्चसूत्रे), अन्यत्रापि - इन्द्रजालमिदं सर्वं यथा मरुमरीचिका - इति (अवधूतगीतायाम् ) / यथा हि सर्षपीकोणकोटरे मत्तस्तम्बेरमबन्धनवार्ता वाङ्मात्रमेव, यथावचस्तदर्थाभावात्, एवं जगद्गोचरं यत्किञ्चिदपि शुभाशुभमुच्यमानं वाङ्मात्रमेव, तदभिधानाभिधेयत्वेन विवक्षितस्यातीततयाऽभावात्, क्षणिकस्य क्षणोत्तरमनवस्थानात् / एवं वाङ्मात्रत्वस्योभयत्राविशेषाद् भ्रम एव तदुभयमपीति हृदयम् / इतश्च जगद् भ्रमः, उत्तरकालमभावात्, स्वप्नेन्द्रजालादिवत् / एतदेव स्वप्नादेस्तत्त्वम्, यदुत्तरकाले तदभवनम्, Page #58 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना तच्छश्वत्त्वे तत्पारमार्थिकत्वप्रसक्तेः / तच्च जगत्यपि चेत्समानम्, तदा कस्तस्य स्वप्नादेविशेषः ?, स्वप्नस्याप्यन्यथाऽस्वप्नत्वप्रसङ्गान्न कोऽपि विशेष इत्याशयः, अभिहितञ्च-आयुर्वायुतरत्तरङ्गतरलं लग्नापदः सम्पदः, सर्वेऽपीन्द्रियगोचराश्च चटुलाः सन्ध्याभ्ररागादिवत् / मित्रस्त्रीस्वजनादिसङ्गमसुखं स्वप्नेन्द्रजालोपमं तत् किं वस्तु भवे भवेदिह मुदामालम्बनं यत् सताम् - इति (शान्तसुधारसे)। अथ सदसद्वाऽप्यस्तु जगत्, कस्तदास्थाकरणे दोष इति चेत् ? को नेति पृच्छ्यताम्, सर्वदोषनिलयसंसारहेतुत्वात्तस्य, रागादिनिदानत्वात्, कथञ्चित्तदात्मकत्वात्संसारस्येत्याह चित्तमेव हि संसारो, रागादिक्लेशदूषितम् / तदेव तैर्विनिर्मुक्तं, भवान्त इति कथ्यते // 4-66 // तत्प्रतिपक्षस्य मोक्षभावाभावे तस्यापि संसारत्वाभावप्रसङ्गात् / स चानिष्टः, तद्धेतुत्वेन रागादेस्तव्यपदेशभाक्त्वात्, तत्तद्धेतुत्वे चाविगानात्, यदाहुः- रागादयस्तु पाप्मानो भवभ्रमणकारणम् / न विवादोऽत्र कोऽप्यस्ति सर्वथा सर्वसम्मते - इति / अत एव पारमर्षम् - रागस्स दोसस्स य संखएण एगंतसोक्खं समुवेइ मोक्खं - इति (उत्तराध्ययने)। एतत्त्वत्रावधेयम् - यदि ह्यालयविज्ञानसन्तत्येकान्तवादाश्रयेण प्रकृततत्त्वमुरीक्रियते, तदान्वयिनमाधारभूतमात्मानं Page #59 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना विनैषा मुक्तिः कदर्थना, संसारस्यावास्तवताप्रसक्तः, सन्तानस्यावास्तवतया बद्धस्य कस्यचिदेकस्याभावात्, एवं च मोक्षस्याप्यभावप्रसङ्गः, बन्धपूर्वकत्वात्तस्य, मुचि बन्धविश्लेष इत्युक्तेः / अथ वास्तव एव सन्तानोऽभ्युपेयत इति चेत् ? न, विकल्पानुपपत्तेः, सन्तानिभ्यः स भिन्नोऽभिन्नो वेत्युच्यताम्, यदि भिन्नः, न स तत्सन्तानः, तद्भिन्नत्वादेव / अथ चाभिन्नः, तदा तस्यापि तद्वत् क्षणिकत्वप्रसक्तेरपास्तमेव सन्तानत्वम्, अथाक्षणिकोऽसौ, तदाभिन्नत्वं प्लवते, दत्तश्च जलाञ्जलिः क्षणिकवादाय / एवं सर्वथाप्यनुपपन्न एव सन्तानः, अभिहितञ्च-संताणिणो न भिण्णो जइ संताणो, न नाम संताणो / अह भिण्णो ण क्खणिओ खणिओ वा जइ ण संताणो - इति (विशेषावश्यकभाष्ये)। ननु चानुपप्लवा चित्तसन्ततिरेव मुक्तिरित्यभ्युपेयत इति चेत् ? न, सन्ततेरवस्तुत्वेनासाध्यत्वात् / न च सन्ततिपतितक्षणानामेव पूर्वोत्तरभावेन हेतु-हेतुमद्भावात् तत्साध्यत्वम्, संसारानुच्छेदप्रसङ्गात्, सर्वज्ञज्ञानचरमक्षणस्यापि मुक्तज्ञानप्रथमक्षणत्वेन तत्सन्ततिपातित्वात् / अत्र बहु व्यक्तव्यम्, तत्तु नोच्यते, ग्रन्थविस्तरभयात् / रागादिदोषास्त्याज्या इति त्वत्र तात्पर्यम् / तत्रापि देहराग एवातिदुस्त्यजः, तत्राहङ्कारप्रवृत्तेरित्याह मनसा भाव्यमानो हि, देहतां याति देहकः / देहवासनया मुक्तो, देहधर्मैन लिप्यते // 4-67 // 57 Page #60 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना 萬萬萬萬萬萬萬萬萬萬覆萬萬萬萬萬萬萬萬萬德 आत्मत्वेन देहसम्भावनैव देहान्तरपरिग्रहजननी, तन्मुक्तेश्च देहादिगोचराहङ्काराद्यपास्ते रागादिक्षयान्मुक्तिरिति भावः, उक्तञ्च - देहान्तरगतेर्बीजं देहेऽस्मिन्नात्मभावना | बीजं विदेहनिष्पत्तेरात्मन्येवात्मभावना - इति (समाधितन्त्रे)। किञ्च द्वे पदे बन्धमोक्षाय, निर्ममेति ममेति च / ममेति बध्यते जन्तु-निर्ममेति विमुच्यते // 4-72 // ममकारेण संसारः, दुःखानुबन्धित्वात् / समतया तु मोक्षः, सौख्यमूलत्वात्, अतो निःसङ्गतायामेव यतितव्यमिति भावः, उक्तञ्च - निःसङ्गतामेहि सदा तदात्मन् ! अर्थेष्वशेषेष्वपि साम्यभावात् / अवेहि विद्वन् ! ममतैव मूलं, शुचां सुखानां समतैव चेति // - इति (अध्यात्मकल्पद्रुमे ) / सुखमूलत्वमपि समताया व्यवहारतः, वस्तुतस्तु साम्यसिद्धिरेव सिद्धिरित्याशयेनाह अविशेषेण सर्वं तु, यः पश्यति चिदन्वयात् / स एव साक्षाद्विज्ञानी, स शिवः स हरिविधिः // 4-76 // ननु च कथन्नाम श्रोत्रियश्वपाकयोरविशेषदर्शनं सम्भवति, कथञ्च तत्साङ्गत्यमिति चेत् ? साम्यसमनुभावाच्चिदन्वयाच्चेति गृहाण, अत एवाभिहितम् - विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि / शुनि चैव श्वपाके च पण्डिताः Page #61 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्म दर्शना समदर्शिनः - इति (भगवद्गीतायाम् ) / युक्तञ्चैतत् परमार्थतस्तथादर्शनस्यैव प्राज्ञलक्षणत्वात्, यदाह - विषमेऽपि समेक्षी यः स ज्ञानी स च पण्डितः - इति (अध्यात्मसारे) / एतदेव समर्थयति - स एव साक्षाद्विज्ञानी, तदितरेषां शुकपाठमात्रपरायणानां तत्त्वतस्तदनतिशयित्वात्, साम्यात्मकतत्फलविरहात् / किञ्च सः - परमसाम्यपीयूषपानपरितृप्तः, शिवः, तद्भावसामग्र्ययोगित्वात्, वैषम्योपशमस्यैव सर्वाशिवात्यन्तिकोपशमरूपत्वात् / अपि च स एव हरिः, हरति स्वदर्शनदानमात्रेणापि पापानीतितन्निरुक्तिसमन्वितत्वात् / तथा स एव विधिः, विशुद्धब्रह्मरूपस्य तत्रैव घटमानत्वात् / ननु च विषयतृष्णादिकलुषितस्य विषमगोचरसमदर्शनमेव दुर्घटम्, अतस्तदर्थं कि कर्त्तव्यमिति चेत् ? सद्गुरुसमुपासनमिति गृहाण, तदनुग्रहस्य सर्वार्थसिद्धिनिबन्धनत्वात्, तद्वाहुः - गुरुदेवयाहिं जायइ अणुग्गहो अहिगयस्स तो सिद्धी - इति (योगशतके) / एतदेव साक्षादाचष्टे दुर्लभो विषयत्यागो, दुर्लभं तत्त्वदर्शनम् / दुर्लभा सहजावस्था, सद्गुरोः करुणां विना // 4-77 // सद्गुरोः - गुरुगुणगरिमोपेतस्य धर्मचार्यस्य, करुणां विना - तदुपासनाभिव्यङ्ग्यतद्गोचरबहुमानप्रकर्षरूपां तत्कृपामन्तरेण, विषयत्यागः - बाह्याभ्यन्तरगोचरपरिहारः, दुर्लभः - कष्टप्राप्यः, तात्त्विकस्य तत्त्यागस्य सज्ञान Page #62 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना फलत्वात्, तस्य च गुरुपारतन्त्र्यात्मकतदुपासनप्रकर्षजीवनतद्बहुमानात्मकतत्कृपामात्रलभ्यत्वात्, अत एवाभिहितम् - गुरुपारतंतं नाणं - इति ( पञ्चाशके) / एवमेव तत्त्वदर्शनम् - यथार्थवस्तुस्वरूपालोकनम्, तदपि गुरुकृपामन्तरेण दुर्लभम्, तद्विकलस्य सम्यग्दर्शनविकलतया मिथ्यानिध्यानैककर्थितत्वात्, तत्कदर्थितस्य च वस्तुमात्रे भ्रमानिवर्तनात्, सदसदविवेचनादि-दोषदुष्टत्वात्तदवगमस्य, तथा चार्षम् - सयसयविसेसणाओ भवहेऊ जहिच्छिओवलंभाओ / नाणफलाभावाओ मिच्छद्दिट्ठिस्स अन्नाणं - इति (विशेषावश्यकभाष्ये)। अथ गुरुकृपावैकल्यमेव सम्यग्दर्शनाभावेऽप्रयोजकमस्त्विति चेत् ? न, जलाभावस्यापि सागराभावेऽप्रयोजकत्वप्रसङ्गात्, तदेकसर्वस्वत्वात् सदृष्टेः, अत एवाविरतसम्यग्दृशोऽपि गुरुवैयावृत्यनियमोऽभिहितः, गुरुबहुमानोल्लासस्य तत्पर्यवसाननियमात्, तदुक्तम् - सुस्सूस धम्मराओ गुरुदेवाण जहसमाहीए / वेयावच्चे णियमो सम्मद्दिट्ठिस्स लिंगाइं - इति - (योगशतके) / अत एव गुरुकृपां विना सहजावस्था - सर्वोपाधिशून्यविशुद्धात्मदशाऽपि दुर्लभा, तत्त्वदर्शनविरहस्य तत्प्रतिबन्धकत्वात् / / ननु सर्वोपाधिशून्यत्वस्य सिद्धावस्थायामेव सम्भवाद् भवस्थस्य सर्वस्यापि तदसम्भवाद् भवस्यैव तत्प्रतिबन्धकत्वं वक्तुमुचितम्, न तु गुरुकृपाऽभावस्येति चेत् ? न, व्यवहारतस्तस्य मोक्ष एव सम्भवेऽपि निश्चयत इहापि तदसम्भवा Page #63 -------------------------------------------------------------------------- ________________ का महोपनिषद् अध्यात्मदर्शना भावात्, दृष्टतत्त्वानां सतामप्युपाधीनामसत्कल्पत्वात्, फलाभावात् / यदा हि देहाद्युपाधेरौपाधिकानां ममकारादिविभावानां प्रसूतिरेव न, तदा विफलतयाऽसनेव स स उपाधिः, अर्थक्रियाकारित्वलक्षणतल्लक्षणातिक्रमादिति भावनीयम् / वस्तुतस्तु प्रसादितगुरोस्तत्त्वदर्शनसम्प्राप्तसाक्षिस्वभावस्येहापि मुक्तत्वालङ्कृततया सिद्धावस्थैवेति न किञ्चिदनुपपन्नम्, यथोक्तम् - आत्मशुद्धोपयोगेन साक्षीभूतो मनस्यपि / अक्रियः सर्वकर्ताऽपि मुक्तः स बन्धनेष्वपि - इति (अध्यात्मगीतायाम्) / एवञ्च सर्वार्थसिद्धिः गुर्वनुग्रहादिति सिद्धम्, तदुक्तम् - गुरुप्रसादात् सर्वं तु प्राप्नोति न संशयः - इति (स्कन्दपुराणे ) / तस्मात् सद्गुरुकृपापात्रस्य उत्पन्नशक्तिबोधस्य, त्यक्तनिःशेषकर्मणः / योगिनः सहजावस्था, स्वयमेवोपजायते // 4-78 // उत्पन्नशक्तिबोधस्य - अद्याप्यनाविर्भूतशुद्धात्मस्वरूपात्मकान्तर्गतलब्धिगोचरोद्भूतावगमस्य, अत एव त्यक्तनिःशेषकर्मणः - तदाविर्भावप्रतिबन्धककृत्स्नमनोवाक्कायप्रवृत्तिपरित्यागवतः, स्वयमेव - अभियोगान्तरमन्तरेणैव, योगिनः - प्रतिबन्धकाभावयोगविधौ विहिताभियोगस्य, सहजावस्था - स्वरूपसंलयसौख्याद्वैतरसैकरसीभूताऽऽत्मदशा, उपजायते - प्रकटीभवत्येव, आवरणापगमस्याऽऽवृताविर्भावानर्थान्तरत्वात् / ततोऽपि Page #64 -------------------------------------------------------------------------- ________________ महोपनिषद् | अध्यात्मदर्शना सर्वगं सच्चिदानन्दं, ज्ञानचक्षुर्निरीक्षते / अज्ञानचक्षुर्नेक्षेत, भास्वन्तं भानुमन्धवत् // 4-80 // ज्ञानचक्षुः- साम्यसुधाञ्जनवितिमिरविमलबोधैकविलोचनः, सर्वगम् - अनवगम्याभावात्कृत्स्नयायिनम्, सच्चिदानन्दम् - सज्ञानप्रमोदात्मकमात्मस्वरूपम्, निरीक्षते - निपुणं निभालयति / ननु मुख्यवृत्त्या सर्वगाम्येवाऽऽत्मा, विभुत्वेन तस्य विश्वव्याप्तत्वात्, अतोऽवगममधिकृत्य तत्सङ्गमनमयुक्तमिति चेत् ? न, उपनिषत्कृताऽपि सच्चिदानन्दस्य विशेषणत्वेनैव सर्वगत्वस्योक्तत्वात् / तत्र केवलज्ञानस्यागम्यत्वविरहात्सञ्ज्ञानस्य सर्वगामिता, सर्वद्रव्यपर्यायविषयीकरणात्, सर्वद्रव्यपर्यायेषु केवलस्य - इति वचनात् / एवमानन्दस्यापि सर्वगत्वम्, ज्ञानचक्षुषो यत्किञ्चिदालम्बनस्यापि तत्त्वेन परिणमनात्, सुखस्य विरागमूलत्वात्, तत्त्वदर्शनस्य च तत्फलत्वात्, तथा च पारमर्षम् - दिटेहिं णिव्वेयं गच्छेज्जा - इति / युक्तञ्चैतत्, परमार्थतो जगति तद्वस्तुन एवाभावात्, यत् पीडालम्बनत्वेन गृहीतुं योग्यं स्यान्महात्मनामिति, उक्तञ्च - दुःखं दुष्कृतसङ्क्षयाय महतां, क्षान्त्यै पदं वैरिणः, कायस्याशुचिता विरागपदवी संवेगहेतुर्जरा / सर्वत्यागमहोत्सवाय मरणं जातिः सुहृत्प्रीतये, सम्पद्भिः परिपूरितं जगदिदं स्थानं विपत्तेः कुतः ? इति / Page #65 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना अवश्यमेतदेवमेष्टव्यम्, आत्मविभुत्ववादेऽसंसारत्वादिबहुदोषानुषङ्गात्, सर्वगतस्य परलोकगमनरूपमुख्यसंसारपदार्थानुपपत्तेः, कल्पितता तु तस्य स्यात्, सा चानुभवादिविरुद्धतयाऽनिष्टा / अपि चैवं सर्वोऽपि मोक्षोपदेशो वितथस्स्यात्, संसारस्यावास्तवतया तस्य हेयोपादेयकोट्यतीतत्वात् / तदिदमभिहितम् - विभुत्वेन च संसार: कल्पितः स्यादसंशयम् - इति (अध्यात्मसारे)। उक्तप्रतिपक्षमाह - अज्ञानेत्यादि / न ह्यन्धेनानीक्षणाद् भानोरभावः, एवं नाज्ञानोपहतान्तश्चक्षुषाऽनवलोकनात्सर्वगतसच्चिदानन्दस्य विरहः, परमार्थतस्तदात्मन्यपि तदभावाभावादिति भावनीयम् / चक्षुरेवैतत् संस्तुवन्नाह प्रज्ञानमेव तद् ब्रह्म, सत्यप्रज्ञानलक्षणम् / एवं ब्रह्मपरिज्ञाना-देव मर्योऽमृतो भवेत् // 4-81 // तत् - चक्षुरुपमयाऽनन्तरमुद्गीतमाहात्म्यम्, प्रज्ञानमेव - अशेषकालुष्यपरिहारेण प्रकर्षकाष्ठागतं ज्ञानमेव, ब्रह्म - आत्मस्वरूपम्, भूतवैधोपलब्धेः, तदुक्तम् - वैधयं यत्र तद् भिन्नं, पृथिव्या गगनं यथा / ज्ञस्वभावोऽज्ञकात्तस्माद् भिन्नोऽस्मि पुद्गलादहम् - इति (शमोपनिषदि)। एतदेवावधारयति हेतुगर्भविशेषणात् - सत्यप्रज्ञानलक्षणम् - इति, Page #66 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना 90041000000000001 पारमार्थिकज्ञानस्वरूपत्वाद् ब्रह्मण इत्याशयः / एवम् - उक्तरीत्या, ब्रह्मपरिज्ञानादेव-स्वस्वरूपावगमादेव, उपायान्तराणामपि वस्तुत एतदुपायत्वेन पारिशेषन्यायादस्यैवोपायत्वसिद्धेः, मर्त्यः - मनुष्यः, भूयो भूयो मृत्युगोचरतां गच्छन् सर्वो वाऽपि संसारी जीवः, अमृतो भवेत्, ब्रह्मपरिज्ञानपीयूषपरिणतेस्तत्पर्यवसानत्वात् / युक्तं चैतत्, यदज्ञानेन यत्प्रसूतिस्तज्ज्ञानस्य तन्निवर्तकत्वस्य नैसर्गिकत्वात्, तथा चोक्तम् - यदज्ञानाज्जगज्जातं यद्विज्ञानाद्विलीयते - इति (अध्यात्मप्रदीपिकायाम्) / ननु च कथन्नामाऽऽत्मज्ञानमात्रेण भवान्त इति चेत् ? अत्राह भिद्यते हृदयग्रन्थि-श्छिद्यन्ते सर्वसंशयाः / क्षीयन्ते चास्य कर्माणि, तस्मिन् दृष्टे परावरे // 4-82 // हृदयग्रन्थिः - हृद्गतघनरागादिपरिणामः, भिद्यते - निशातपरशुनिहतफलकवद् भेदमापद्यते, तथा सर्वसंशया: - कृत्स्नतत्त्वाऽऽरेकाः, छिद्यन्ते - असिप्रहततन्तुवच्छेदगोचरीभवन्ति, फलशेषमाह अस्य - शुद्धात्मस्वरूपसाक्षात्कर्तुः, कर्माणि च क्षीयन्ते, निरिन्धनानलवत्तदेकगतिकत्वात्तेषाम्, कदा नु भवत्येतदत्यद्भुतमित्याह - तस्मिन् परावरे दृष्टे सति, तथा च तत् परात्परं तत्त्वं यदा दृश्यते तदा तद् घटाकोटिमाटीकते, उक्तञ्च - तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय - इति ( यजुर्वेद)। सर्वोऽपीतरपदार्थसार्थगोचरो रागः परमतत्त्वादर्शनहेतुकः, अतस्तद्दर्शने सति FREEEEEEEEEEEEEEE Page #67 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्म दर्शना तदत्यन्तक्षययोगाद्धदयग्रन्थिभेदः, ततोऽपि सर्वज्ञतोदयात्सर्वसंशयछेदः, स वीयरागो कयसव्वकिच्चो खवेइ नाणावरणं खणेण - (उत्तराध्ययने) इत्युक्तेः, ततश्च सर्वकर्मसङ्क्षयोऽपीति न किञ्चिदनुपपन्नम् / नन्वनादिभवभावनास्वभ्यस्तो हि विषयादिरसः, कथमसौ सकृत् तत्त्वदर्शनमात्रेण निवर्तेतेति चेत् ? नैसर्गिकत्वात्प्रेक्षितपीयूषविषनिवर्तनस्येति गृहाण, स्वरूपदर्शनोदितानन्दाद्वैतैकनिमग्नस्य तदसम्भवाभावात्, यदुक्तम् - ब्रह्मानन्दे निमग्नस्य विषयाशा न तद् भवेत् / विषं दृष्ट्वाऽमृतं दृष्ट्वा विषं त्यजति बुद्धिमान् - इति (जाबालदर्शनोपनिषदि)। अन्यत्रापि - रसवर्णं रसोऽप्यस्य परं दृष्ट्वा निवर्तते - इति (भगवद्गीतायाम् ) / तस्मात् अनात्मतां परित्यज्य, निर्विकारो जगत्स्थितौ / एकनिष्ठतयान्तःस्थः, संविन्मात्रपरो भवः // 4-83 // अनात्मताम् - देहादिपुद्गलेष्वात्मभावनाम्, परित्यज्य - विवेकलोचनेन वस्तुस्वरूपमुपलभ्य मनसाऽपि परिहत्य, जगत्स्थितौ - उत्पादव्ययध्रौव्यात्मकविश्वविश्वपदार्थसार्थमद्रायाम, निर्विकारः - हर्षशोकादिविकारकलङ्कविनिर्मुक्तः, परमार्थतः प्रतिक्षणमपि वस्तुमात्रस्य त्रयात्मकतयोत्पादाद्यन्यतरमेवाभिसन्धाय हर्षादिकरणस्य मौटुंपिशुनत्वात् / Page #68 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्म दर्शना अथ स्वाभिप्रेतपर्यायस्योत्पन्नतया हर्षः, तद्विनाशे च शोक उपपन्न एव सचेतसोऽपीति चेत् ? प्रथमतस्तु क: स्व इत्येवोच्यताम्, मन इति चेत् ? न, सचेतस्ताक्षतेः, तस्य पुद्गलात्मकत्वेन स्वत्वायोगात् / भावमनआत्मक आत्मपरिणाम इति चेत् ? न, तस्याप्यौपाधिकत्वेन परत्वानतिक्रमात्, सिद्धानां तद्विरहात् / आत्मैव तीस्तु विशुद्धः स्व इति चेत् ? शोभनम्, किन्तु नास्य किञ्चिदभिप्रेतमेव भवति, उक्तनीत्याऽभिप्रायस्यैव परत्वात् / एवञ्च सर्वोऽपि हर्षादिविकारो वन्ध्यापुत्रजन्मोत्सववर्तिनृत्यप्रमोदं स्पर्द्धते, स्वाभिप्रेतस्य वास्तवस्याभावे तद्गोचरोत्पादादिहेतुकहर्षादेस्तदनतिरेकात् / एवं च जगन् मूढतया तत्त्वतः पराभिप्राय एव स्वाभिप्रायमारोप्य तत्तत्खेदादिविडम्बनाभाजनं भवति। ननु चैवमुपशमाद्यात्मगुणानामपि स्वाभिप्रेतत्वेनासिद्धिः स्यादिति चेत् ? को वा किमाह ? परमार्थचिन्तायां तदिच्छाया अपि परत्वानतिक्रमात्, अत एवोच्यते - न शान्ति लभते मूढो यतः शमितुमिच्छति / धीरस्तत्त्वं विनिश्चित्य सर्वदा शान्तमानसः // मूढो नाप्नोति तद् ब्रह्म यतो भवितुमिच्छति / अनिच्छन्नपि धीरो हि परब्रह्मस्वरूपभाक् - इति (अष्टावक्रगीतायाम् ) / नन्वेवं स्वभावलाभेच्छाऽपि हेया स्यादिति चेत् ? दशाविशेषमधिकृत्यैवमेव, मोक्षे भवे च सर्वत्र नि:स्पृहो मुनिसत्तमः - इत्युक्तेः, तदेतत्सत्तमाधस्तनदशावत्तिनां तु सेच्छोपादेया, विश्वस्यापि विश्वस्य स्याद्वादमुद्रानति Page #69 -------------------------------------------------------------------------- ________________ पाट महोपनिषद अध्यात्मदर्शना क्रमवत्तित्वादिति ध्येयम् / एवञ्च एकनिष्ठतया - आत्मातिरिक्ताखिलजगद्विनिवृत्तप्रेक्षतया स्वरूपैकसंलीनतयेति यावत्, अत एवान्तःस्थः - प्रबुद्धतया बहिावृत्तकौतुकः, यदाह - बहिस्तुष्यति मूढात्मा पिहितज्योतिरन्तरे / तुष्यत्यन्तः प्रबुद्धात्मा बहिर्व्यावृत्तकौतुकः - इति (समाधितन्त्रे ) / यो हि यत्र तुष्यति, कथन्नाम स तत्स्थितिपरिहारं विदध्यादिति / एवञ्च संविन्मात्रपरो भव - चिन्मात्रचिन्तामण्याराधनैकपरायणः स्याः, तत एव सर्वकल्याणप्रसूतेः / / नन्वेवमपि दृढप्रतिबन्धविषयतया दुस्त्यजैव जगदास्थेति चेत् ? न, विचारवतस्तस्या अपि स्वरूपास्थात्वेन परिणते: सुकरपरिहारत्वात्, एतदेवाह मरुभूमौ जलं सर्वं, मरुभूमात्रमेव तत् / जगत्त्रयमिदं सर्वं, चिन्मानं स्वविचारतः // 4-84 // यथा प्रतिभासमानमपि मृगतृष्णापानीयं वस्तुतो मरुभूमिरेव भवति, तत्र वास्तवजलाभावात्, एवं सर्वमपीदं विश्वं चिन्मात्रम्, विचार्यमाणस्य तस्य तद्धेतुत्वसिद्धेः, क्षित्यम्बुप्रभृतितत्तत्पुद्गलपरिणतेरपि चिद्विकारनिदानत्वात् / एवञ्च विश्वस्यापि विश्वस्य कथञ्चित् स्वमात्रत्वसिद्धौ प्राप्याप्राप्यविरहात्स्वरूपस्थितिरेव कर्तव्यतयाऽवशिष्यते, सैव च मुक्तिपर्याय इत्याशयेनाऽऽह EEEEEEEEEEEEEEEEEEEE Page #70 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना लक्ष्यालक्ष्यमतिं त्यक्त्वा, यस्तिष्ठेत् केवलात्मना / शिव एव स्वयं साक्षादयं ब्रह्मविदुत्तमः // 4-85 // सदाशिवस्वस्वरूपसंवित्तेरेव वस्तुतः शिवपदसम्प्राप्तिरूपत्वात्, वदन्ति स्म - त्यजैव ध्यानं सर्वत्र मा किञ्चिद्धदि धारय / आत्मा त्वं मुक्त एवासि किं विमृश्य करिष्यसि ? - इति (अष्टावक्रगीतायाम् ) / अतस्त्याज्योक्तमतिः, तस्या मनोव्याधिरूपत्वात् / तच्चिकित्सैव तर्युच्यतामित्यत्राह - मनोव्याधेश्चिकित्सार्थ-मुपायं कथयामि ते / यद्यत्स्वाभिमतं वस्तु, तत्त्यजन् मोक्षमश्नुते // 4-88 // तत्त्यागस्येच्छानिरोधजननद्वारेणेच्छामुक्तिजनकत्वात्, तस्याश्च निश्चयतो मुक्त्यनतिरिक्तत्वात्, अत एव पारमर्षम् - पच्चक्खाणेण इच्छाणिरोहं जणयइ - इति (उत्तराध्ययने)। तथा - तृष्णामात्रात्मको बन्धस्तन्नाशो मोक्ष उच्यते - इति (अष्टावक्रगीतायाम्)। नन्वास्तामभिमतत्यागस्तद्विचारोऽपि दुष्कर इति चेत् ? अत्राह Page #71 -------------------------------------------------------------------------- ________________ महोपनिषद् | अध्यात्मदर्शना FFFFFFFFFFFFFFFFFFFER स्वायत्तमेकान्तहितं, स्वेप्सितत्यागवेदनम् / यस्य दुष्करतां यातं, धिक् तं पुरुषकीटकम् // 4-89 // पुरुषरूपेण कीट एव स, वशितालक्षणपौरुषविरहात् / स्ववशी हि पुरुषः, न त्विच्छावनितादास इति / तस्मात् स्वपौरुषैकसाध्येन, स्वेप्सितत्यागरूपिणा / मन:प्रशममात्रेण, विना नास्ति शुभा गतिः // 4-90 // तदनुपशमस्यैव सर्वाशुभसवितृत्वात् / अतः असङ्कल्पनशस्त्रेण, छिन्नं चित्तमिदं यदा / सर्वं सर्वगतं शान्तं, ब्रह्म सम्पद्यते तदा // 4-91 // सङ्कल्पलक्षणं हि मनः, यदा हि तस्यैवाभावः, तदा स्वरूपविहीनं कुत्र तिष्ठतु मनः ? स्वरूपाभावस्यैवाभावरूपत्वात् / एष एव हि शशशृङ्गादेरभावः, यत्तत्स्वरूपाभाव इति भावनीयम् / ब्रह्मसर्वगता तु प्रागुक्तनीत्याऽभिसन्धेया, तदज्ञेयाभावात् / एवञ्च Page #72 -------------------------------------------------------------------------- ________________ महोपनिषद् | अध्यात्मदर्शना भवभावनया मुक्तो, युक्तः परमया धिया / धारयात्मानमव्यग्रो, ग्रस्तचित्तं चितः पदम् // 4-92 // चिदास्पदात्मक आत्मैव गिलति चित्तम्, परमप्रेक्षापरिपूतस्यास्य समस्तसंसारवासनाविमुक्तस्य सङ्कल्पशून्यताप्रयोजकतया चित्तोपसंहारकत्वात्, अत एकाग्रतया तत्सन्धारणं कार्यमिति भावः / एतदेव स्पष्टतरमुपदेष्टि परं पौरुषमाश्रित्य, नीत्वा चित्तमचित्तताम् / ध्यानतो हृदयाकाशे, चिति चिच्चक्रधारया // 4-93 // मनो मारय निःशडूं, त्वां प्रबध्नन्ति नारयः // 4-94 // मृतानां बन्धादिप्रयोजकत्वाभावात्, मनसि मृते च सर्वेषामप्यन्तररातिगणानां मृत्युगमनात्, कासारशोषे मीनमृतिगमनवत् / अथाशक्यमेव मनोमरणम्, असङ्कल्पनस्यैवासम्भवादिति चेत् ? अत्राह अयं सोऽहमिदं तन्म एतावन्मात्रकं मनः / तदभावनमात्रेण, दात्रेणेव विलीयते // 8-95 // तथा चैतदाद्यधिकृत्यैव तत्तदुद्देशेन प्रवर्त्तते मनः, यदा तु तदभावना, तदा निराश्रयतया मनसो विलय एव, क्षितिविरहे Page #73 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना तरोरिव / विलूयत इति त्वत्र पाठान्तरम्, सङ्गततरं च तत् / एतदादिवासनाविलये यथा सम्पद्यते मनोविनाशस्तदुपमयोपदर्शयति छिन्नाभ्रमण्डलं व्योम्नि, यथा शरदि धूयते / वातेन कल्पकेनैव, तथान्तधूयते मनः // 8-96 // भावनाऽभावलक्षणेन समीरेणेति गम्यते / उक्तञ्च - आलम्ब्यैकपदार्थं यदा न किञ्चिद्विचिन्तयेदन्यत् / अनुपनतेन्धनवह्निवदुपशान्तं स्यात्तदा चेतः - इति (अध्यात्मसारे) / अथ को नाम मनोविधूनने गुणविशेषः ? येनैतावता प्रबन्धेन तदुपाया उच्यन्त इत्यत्राह कल्पान्तपवना वान्तु, यान्तु चैकत्वमर्णवाः / तपन्तु द्वादशादित्या, नास्ति निर्मनसः क्षतिः // 4-97 // न हि कल्पान्तपवनादीनां क्षतिहेतुत्वम्, तथात्वे वीतरागाणामपि तत्प्रसक्तेः, अपि तु मनःसङ्क्षोभस्य, स च नास्त्येव निर्मनस्कानाम्, अतस्तेषां क्षतिविरहः, तत्तद्विप्लवादिगोचरसङ्कल्पस्यैवाभावात्, तदाह - कार्योदये मुदं नैति कार्यनाशे न खिद्यते, आमूलान्मनसि क्षीणे सङ्कल्पस्य कथा च का?- इति (संन्यासगीतायाम् ) / किञ्च Page #74 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना असङ्कल्पनमात्रैकसाध्ये सकलसिद्धिदे / असङ्कल्पातिसाम्राज्ये, तिष्ठावष्टब्धतत्पदः // 4-98 // न हि मनोविलयस्य क्षत्यभावमात्रफलत्वम्, किन्तु सर्वार्थसिद्धिप्रदत्वमपि, आत्मगुणसाम्राज्यस्य सकललौकिकराज्यातिशयिनः सम्प्राप्तेस्तदेकाधीनत्वात्, अतो मनोविलय एव यतनीयम्, एवमेव प्रभुताप्राप्तेरिति हृदयम्, उक्तञ्च - यत्र तर्का न गच्छन्ति यत्र नैव मनोगतिः / रागद्वेषलयो यत्र, तत्रात्मा जायते प्रभुः - इति (अध्यात्मगीतायाम् ) / अपि च न हि चञ्चलताहीनं, मनः क्वचन दृश्यते / चञ्चलत्वं मनोधर्मो, वह्वेर्धर्मो यथोष्णता // 4-99 // एषा हि चञ्चलास्पन्द-शक्तिश्चित्तत्त्वसंस्थिता / तां विद्धि मानसीं शक्ति, जगदाडम्बरात्मिकाम् // 4-100 // यत्तु चञ्चलताहीनं, तन्मनोऽमृतमुच्यते / तदेव च तपः शास्त्र-सिद्धान्ते मोक्ष उच्यते // 4-101 // चाञ्चल्यविरहस्य मनोविलयरूपत्वात्, औष्ण्यविरहस्य वह्निविलयत्ववत्, एवञ्च विलीनमनसोऽशेषसङ्कल्प Page #75 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना विकल्पनिरोधतः प्रशमसामग्र्ययोगत इहैव मुक्तिदशानुभूतिरिति न किञ्चिदनुपपन्नम्, तथा चोक्तम् - सर्वजातीयसङ्कल्पविकल्पस्य निरोधतः / आत्मशान्तिः भवेत्पूर्णा नान्यथा कोटियत्नतः - इति ( अध्यात्मगीतायाम् ) / ननु तपोरूपतोक्तिस्तु चाञ्चल्यविकलस्य मनसो न सङ्गतिमङ्गति, अनशनादिरूपत्वात्तस्येति चेत् ? अनशनाद्यपि कथं तप इत्युच्यताम्, निर्जराप्रयोजकत्वादिति चेत् ? तुल्यमेतदन्यत्र, निगृहीतमनसस्तदितरापेक्षयाऽसङ्ख्यगुणनिर्जरायोगित्वात्, तस्याञ्च तन्मनोनिग्रह एव हेतुरिति भावनीयम् / अपि चेच्छानिरोधस्तप इत्यागमविदः, स च परमार्थतो मनोनिरोध एव, तदतिरिक्तच्छाया अभावात्, अतस्तपोरूपताऽस्य प्रत्येया। अथ मनोनिरोधोऽपि केन करणेन कर्त्तव्य इत्यत्राह मन एव समर्थं हि, मनसो दृढनिग्रहे। अराजः कः समर्थस्स्याद्राज्ञो निग्रहकर्मणि ? // 4-105 // द्विविधं ह्यत्र मनः, प्रशस्तमप्रशस्तं च / तयोः प्रशस्तं जिनवचनपरिशीलनतोऽहिंसाद्यनुगुणं मनः / इतरस्तु हिंसाद्यनुपाति / प्रशस्तमनसाऽप्रशस्ततन्निरोधः कर्त्तव्यः, कण्टकन्यायात् / ततोऽपि यथाऽपनीतकण्टकतया कृतकार्यत्वेन गृहीतकण्टकपरिहारः, एवं प्रशस्तमन:परिहारोऽपि स्वयमेव भवति / एवञ्च मन एवावारपारः, निमज्जननिबन्धनत्वात्, मन एव तरी, सन्तरणसाधनत्वात्, दुर्लभा तु साऽनिगृहीतमनसामित्याह 73 Page #76 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना 多變變變變變變變變變變變變變變變變變變變變 तृष्णाग्राहगृहीतानां, संसारार्णवपातिनाम् / आवत्त॑रुह्यमानानां, दूरं स्वमन एव नौः // 4-106 // स्वावलम्बितशाखोच्छेदनवत्तैरुक्तपोतविनाशनात् / यदि हि प्रशस्तमनसाऽप्रशस्ततन्निग्रहो न क्रियते, तदाऽप्रशस्तं तन्निग्रहं कृत्वाऽऽत्माऽनर्थं विधत्ते, अर्धराज्यहरं मित्रं यो न हन्यात् स हन्यते - इति न्यायात्, तस्मात् मनसैव मनश्छित्त्वा, पाशं परमबन्धनम् / भवादुत्तारयाऽऽत्मानं, नासावन्येन तार्यते // 4-107 // पोतान्तरविरहात्, अत एवाभिहितम् - मन एव मनुष्याणां कारणं बन्धमोक्षयोः / बन्धाय विषयासक्तं मुक्त्यै निविषयं स्मृतम् - इति ( मैत्रायण्युपनिषदि) / ननु निविषयतैव मनसः कथं साध्येत्यत्राह भोगैकवासनां त्यक्त्वा, त्यज त्वं भेदवासनाम् / भावाभावौ ततस्त्यक्त्वा, निर्विकल्पः सुखी भव // 4-109 // भोगैकवासनाम् - मदीया मत्सुखहेतवो वा भोगा इति सुदीर्घभवाभ्यस्ताविद्याम्, त्यक्त्वा - णीवारे व ण लीयेज्जा (सूत्रकृताले) इत्यागमावगमेन सर्वथाऽपि विहाय, त्वम् - यस्मिन् सर्वभूतान्यात्मैवाऽभूद् विजानतः / तत्र को मोहः कः शोक Page #77 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना 0000000000 एकत्वमनुपश्यतः (ईशावास्योपनिषदि) - इत्युपनिषदुपनिषण्णः प्रतिपाद्यः, भेदवासनाम् - कर्मकृतजीवपार्थक्यगोचरवास्तवमनीषाम्, त्यज - आत्मवत्सर्वभूतानि पश्यन् भिक्षुश्चरेन्महीम् - (नारदपरिव्राजकोपनिषदि) इत्युपदेशतात्पर्यपरिणते: परिहर, पुद्गलकृतमुच्चावचादिभेदं य आत्मानमधिकृत्य पश्यति, तस्यैवोत्तिष्ठति जीवभेदमतिः, यस्तु शरीरगोचरत्वेनैव तं पश्यति, कस्तस्य भेदबुद्ध्युदयः, शुद्धनिश्चयतः सर्वेषामप्यात्मनामनादिशुद्धतयाऽभिन्नत्वात्, न चैवं पुरुषाद्वैतवादप्रसङ्गः, तुल्यतायाऽभिन्नव्यपदेशनियामकत्वस्य लोकसिद्धत्वात्, तदिदमुदितम् - नृनारकादिपर्यायैरप्युत्पन्नविनश्वरैः / भिन्नै हाति नैकत्वमात्मद्रव्यं सदान्वयि / / कर्मणस्ते हि पर्याया नात्मनः शुद्धसाक्षिणः / कर्म क्रियास्वभावं यदात्मा तु ज्ञस्वभाववान् - इति (अध्यात्मसारे)। ततः - उक्तनीत्या सर्वकुवासनाविधूननं विधाय, भावाभावौ त्यक्त्वा, भावाभावगोचरभावनाभियोगलक्षणं हाठिकयोगं परित्यज्येत्यर्थः, तस्याप्याग्रहदुःखकलङ्किततया स्वरूपसंस्थितिसौख्यशत्रुत्वात्, अन्वाह - भावस्य भावकः कश्चिन्, न किञ्चिद्भावकोऽपरः / उभयाभावकः कश्चि-देवमेव निराकुलः - इति (अष्टावक्रगीतायाम् ) / पर्यवसितमाह - निर्विकल्पः, भावाभावमात्रगोचरसङ्कल्पस्याप्यभावेऽवशिष्टविकल्पानां स्वतः एव निर्गमनात्, सति हि धर्मिणि धर्माश्चिन्त्यन्त इतिन्यायात्, एवंविधस्त्वं सुखी भव / धर्मिधर्मगोचरस्वकीयत्वादिचिन्ताया एव सुखाऽऽवारकतया तद्विगमे तदाविष्कारस्यैवावशिष्टत्वात् / एनमेव चिन्ताविगमं स्फुटतरं लक्षयति eeeeeeeeeeeeeeeeeeeee 1994370 Page #78 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना एष एव मनोनाश-स्त्वविद्यानाश एव च / यत्तत्संवेद्यते किञ्चि-त्तत्रास्थापरिवर्जनम् // 4-110 // संवेदनमात्रं तु ज्ञानोपयोगादिरूपं सिद्धानामपि भवत्येव, तद्विरहेऽनात्मताप्रसङ्गात्, आस्था तु सौन्दर्यादिमतिरूपा स्वकीयत्वादिबुद्धिरूपा वा तेषां नोदेति, अविद्यात्मकतन्निबन्धनाभावात् / आस्थाऽऽविलानुभूतिरेव संसारः, विशुद्धा तु सा मोक्ष इत्यत्र निष्कर्षः / एतदेव साक्षादाचष्टे अनास्थैव हि निर्वाणं, दुःखमास्थापरिग्रहः // 4-111 // आस्थाविरहे सहजावस्थैवावतिष्ठते, सा च निर्वाणमेवेति सूक्तम् - अनास्थैव हि निर्वाणम् - इति / एतदेव व्यतिरेकतो व्यनक्ति - आस्थापरिग्रहो दुःखम्, अपेक्षाप्रसूतया दुःखहेतुत्वात्, उक्तञ्च - अविक्खा अणाणंदे - इति (पञ्चसूत्रे)। अविद्यैवाऽऽस्थाबीजमिति तामधिकृत्याह - अविद्या विद्यमानैव, नष्टप्रज्ञेषु दृश्यते / नाम्नैवाङ्गीकृताऽऽकारा, सम्यक्प्रज्ञस्य सा कुतः ? // 4-112 // आदित्यस्यान्धकारवन्नैव तस्य सेत्याशयः / किञ्च jaa000000Ranaaaaaaaaaaa 76 Page #79 -------------------------------------------------------------------------- ________________ महोपनिषद् दशना तावत्संसारभृगुषु, स्वात्मना सह देहिनम् / आन्दोलयति नीरन्ध्र, दुःखकण्टकशालिषु // 4-113 // अविद्या यावदस्यास्तु, नोत्पन्ना क्षयकारिणी / स्वयमात्मावलोकेच्छा, मोहसङ्ख्यकारिणी // 4-114 // अस्याः परं प्रपश्यन्त्याः, स्वात्मनाशः प्रजायते / दृष्टे सर्वगते बोधे, स्वयं ह्येषा विलीयते // 4-115 // वह्नेर्दाह्यनाशानुनाशगमनस्वभाववत्तथातत्स्वाभाव्यात्, उक्तञ्च - तत्तत्त्वं यद् दृष्ट्वा निवर्तते दर्शनाकाङ्क्षा - इति (षोडशके)। उक्तार्थनिष्कर्षमेवाभिदधन्नाह इच्छामात्रमविद्येयं, तन्नाशो मोक्ष उच्यते / स चासङ्कल्पमात्रेण, सिद्धो भवति वै मुने ! // 4-116 // अवश्यमतोऽत्र यतनीयं मुमुक्षुभिरित्याशयः / अथ कथमेतदस्माकं प्रतीयेत, यदस्मत्कृतो मोक्षयत्नः समीचीनो न वेति चेत् ? अत्राह 0000000000000000 ওও Page #80 -------------------------------------------------------------------------- ________________ महोपनिषद् | अध्यात्म दर्शना मनागपि मनोव्योम्नि, वासनारजनीक्षये / कालिमा तनुतामेति, चिदादित्यप्रकाशनात् // 4-117 // तथा च तत्प्रकाशप्रतीतिरेव अविद्यानाशयत्नसाधुत्वलिङ्गम् / यथैव प्रभाते स्फुटिते सति तेजस्तीव्रतरतैव सूर्यसामीप्यलिङ्गम्, यथा वा पुरं प्रति प्रस्थितस्य तद्गोपुरादिस्पष्टतरदर्शनमेव तत्सान्निध्ये प्रमाणम्, एवं चिदादित्यप्रकाशलेशानुभूतिरप्यविद्याकालुष्यतानवमभिदधन्ती मोक्षयात्रायाः सदाशाप्रस्थिततामाख्यातीत्याशयः / अथाभिहितमेव बन्धमुक्तिहेतुयुगं प्रकारान्तरेणाह नाहं ब्रह्मेति सङ्कल्पात्, सुदृढाद् बध्यते मनः / सर्वं ब्रह्मेति सङ्कल्पात्, सुदृढान् मुच्यते मनः // 4-124 // नाहमित्यादि, अनात्मात्मभावनातः संसार:, आत्मात्मभावनातो मोक्ष इत्याशयः, यथोक्तम् - देहान्तरगते/जं देहेऽस्मिन् आत्मभावना / बीजं विदेहनिष्पत्ते - रात्मन्येवात्मभावना - इति (समाधितन्त्रे)। ननु च सर्वं ब्रह्मेत्यभ्युपगमे ब्रह्माद्वैतप्रतिपत्त्यापत्तिरिति चेत् ? सेयमिष्टापत्तिरेव स्याद्वादसुधालिहाम्, यत्र यत्र चिदन्वयलक्षणं तिर्यक् सामान्यम्, तत्र तत्र ब्रह्मत्वस्येष्टत्वात्, प्रागुक्तनीत्या जीवानामैक्यस्यैव वास्तवब्रह्माद्वैतत्वात् / एकान्तवादेन गृहीतं तु तत् सर्वसंव्य Page #81 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यान दर्शना वहारविरोधि, तद्बाधितं चेति सूक्ष्ममीक्षणीयम्, तथात्वे भवतद्विगमभेदस्य मुख्यस्यानुपपत्तेः, उक्तञ्च - पुरुषाद्वैतं तु यदा भवति विशिष्टमथ बोधमात्रं वा / भवभवविगमविभेदस्तदा कथं युज्यते मुख्यः ? - इत्यादि (षोडशके)। अथानात्मात्मभावनाबन्धमेव स्फुटयति कृशोऽहं दुःखबद्धोऽहं, हस्तपादादिमानहम् / इति भावानुरूपेण, व्यवहारेण बध्यते // 4-125 // भवभावस्यैव वस्तुतो बन्धरूपत्वात्, देहात्मधियश्च तद्योनित्वात्, तथोक्तम् - मूलं संसारदुःखस्य देह एवात्मधीस्ततः - इति (समाधितन्त्रे)। तत्प्रतिपक्षोऽपि तत्प्रतिपक्षसाध्य इत्याह नाहं दुःखी न मे देहो, बन्धः कोऽस्यात्मनि स्थितः ? / इति भावानरूपेण, व्यवहारेण मच्यते // 4-126 // नाहं दुःखी - नित्यानन्दमयं ब्रह्म (तेजोबिन्दूपनिषदि) - इति मत्स्वरूपावगमात्, दृश्यमानस्य दुःखस्यान्याश्रयत्वाच्च / ननु देहाश्रितानि दुःखान्यपि तत्त्वतस्तवैव, त्वदीयत्वाद् देहस्य, सोऽयं दासेन मे खरः क्रीतो दासो मम खरोऽपि मे - इतिन्यायापात इति चेत् ? अत्राह - न मे देहः, भिन्नत्वादेव, परमार्थतस्तस्यैव परकीयतापिशुनत्वात्, Page #82 -------------------------------------------------------------------------- ________________ महोपनिषद् |ER अध्यात्यदर्शना उक्तञ्च - मदीयं यन्न तद् भिन्नं, भिन्नं तन्न मदीयकम् - इति (आत्मदर्शनगीतायाम् ) / अपि च को बन्धोऽस्यात्मनि स्थितः ?, तत्त्वानुभूतेस्तद्विरहदशिनस्तदभावादेव नास्त्यसाविति भावः, उक्तञ्च - श्रुत्वा मत्वा मुहुः स्मृत्वा साक्षादनुभवन्ति ये / तत्त्वं न बन्धधीस्तेषा-मात्माऽबद्धः प्रकाशते - इति (अध्यात्मसारे) / इति भावानुरूपेण व्यवहारेण - विमुक्तदेहाभिमानतया परमतितिक्षासचिवेन परीषहोपसर्गविषहनेन, मुच्यते - यद्देहस्यापकाराय तज्जीवस्योपकारकम् - (इष्टोपदेशे) इतिनीत्या परमकल्याणभाग् भवति / अतोऽपनेयो देहाभिमानः, यतः नाहं मांसं न चास्थीनि, देहादन्यः परोऽस्म्यहम् / इति निश्चयवानन्तः, क्षीणाविद्यो विमुच्यते // 4-127 // देहात्मबुद्धिलक्षणाऽविद्यैव भवः, अतस्तत्क्षये तद्विरह उपपन्न एवेति / न च निश्चयमात्रस्य मोक्षहेतुत्वे समस्तचरणानुष्ठानकदम्बकस्य वैयापत्तिरिति वाच्यम्, तात्त्विकस्य तन्निश्चयस्य तत्प्रवर्तकत्वनियमात्, कथञ्चित्तदनतिरिक्तत्वाच्च, अत एवागमः - जं सम्मं ति पासहा तं मोणं ति पासहा - इति (आचाराने) / एवञ्चोक्तनिश्चयस्यापि तत्प्रवर्त्तनद्वारेणैव मुक्तिहेतुत्वमिति सर्वमवदातम् / एतेन चरणालसानां देहाभिमानमुक्तत्वाभिमानो दम्भमात्रमित्यावेदितम् / अतः Page #83 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना मा भवाज्ञो भव ज्ञस्त्वं, जहि संसारभावनाम् / अनात्मन्यात्मभावेन, किमज्ञ इव रोदिषि ? // 4-130 // एषैवाज्ञस्याज्ञता यत् परव्यतिकरे निजत्वारोपणेनात्मनो विह्वलीकरणम्, अतस्त्याज्यं तत्, रुदनालम्बनानां देहाश्रितत्वात्, देहस्य च कथञ्चित्स्वसंयोगित्वेऽपि पृथक्त्वात्, वस्त्रवत्, यथोक्तम् - घने वस्त्रे यथाऽऽत्मानं न घनं मन्यते तथा / घने स्वदेहेऽप्यात्मानं न घनं मन्यते बुधः / रक्ते वस्त्रे यथाऽऽत्मानं न रक्तं मन्यते तथा / रक्ते स्वेदेहेऽप्यात्मानं न रक्तं मन्यते बुधः // नष्टे वस्त्रे यथात्मानं न नष्टं मन्यते तथा / नष्टे स्वदेहेऽप्यात्मानं न नष्टं मन्यते बुधः - इति (समाधितन्त्रे) / अपि च कस्तवायं जडो मूको, देहो मांसमयोऽशुचिः / यदर्थं सुखदुःखाभ्या-मवशः परिभूयसे // 4-131 // परमपावित्र्यपुनितस्य तव स्वप्नेऽप्येतत्सम्बन्धित्वमनुपपन्नम्, अतस्तदाश्रितसुखादिभिस्तव हर्षादिविडम्बना परमार्थत उन्माद एवेत्याशयः / तदेतद्विसंस्थुलतरजगत्स्थितिमवलोक्य विस्मयोद्गारान् मुञ्चत्युपनिषत्कार: Page #84 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना अहो नु चित्रं यत्सत्यं, ब्रह्म तद्विस्मृतं नृणाम् / तिष्ठतस्तव कार्येषु, माऽस्तु रागानुरञ्जना // 4-132 // अहो नु चित्रं पद्मोत्थैर्बद्धास्तन्तुभिरद्रयः / अविद्यमाना याऽविद्या, तया विश्वं खिलीकृतम् // 4-133 // इदं तद्वज्रतां यातं, तृणमात्रं जगत्त्रयम् // 4-134 // ननु चाविद्यमानाविद्याया अपि कार्यकृत्त्वे वन्ध्यापुत्रादेरपि तत्त्वापत्तिरिति चेत् ? सत्यम्, अत एवैष व्यपदेशस्तत्कुत्सितताद्यभिसन्धाय गुणगणविशिष्टतत्सत्तानिषेधपरो दृष्टव्यः / एवमेव-नास्ति माया च वस्तुतः - (पाशुपतब्रह्मोपनिषदि) इत्यादीन्यपि वचनानि समाधेयानि, अन्यथोक्तापत्तिध्रौव्यात्, तदुक्तम् - माया सती चेद् व्यतत्त्वसिद्धिरथासती हन्त कुतः प्रपञ्चः / मायैव चेदर्थसहा च तत् किं माता च वन्ध्या च भवत्परेषाम् - इति (अन्ययोगव्यवच्छेदद्वात्रिंशिकायाम् / तथा - नासतः, अदृष्टत्वात् - इति (ब्रह्मसूत्रे)। वस्तुतस्तु याऽऽत्मनोऽनन्तज्ञानदर्शनादिशक्तिः, यन्निरुपमानन्दसन्दोहशालित्वम्, यच्चास्य सर्वशब्दातीतं परमस्वरूपम्, तस्य पुरस्तादतीव क्षुद्रतयाऽसत्प्रायाऽविद्या-इत्याशयेन तस्या अविद्यमानत्वमुक्तं वेद्यम्, महात्मनामनृत Page #85 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना भाषित्वायोगात् / एवमेव पद्मतन्तुप्रयुक्ताद्रिबन्धनौपम्यमप्यत्र सङ्गतिमङ्गति, पर्वतापेक्षयाऽतितुच्छत्वात् पद्मतन्तूनाम्, न त्वतितुच्छानामपि तेषामत्यन्ताभावो भवतीति भावनीयम् / / पर्यवसितमाह - तदिदं तृणमात्रं जगत्त्रयं वज्रतां यातम्, अविद्याऽऽवृतानां सत्त्वानामशक्योच्छेदत्वात् संसारस्य, भवति ह्यन्धानां नखच्छेद्यमपि वज्रच्छेद्यमच्छेद्यं वेति निपुणं निभालनीयम् / ध्यान्ध्यमेवैतदपाकर्तुमाह अथापरं प्रवक्ष्यामि, शृणु तात यथायथम् / / अज्ञानभूः सप्तपदा, ज्ञभूः सप्तपदैव हि // 5-1 // यथातथमित्यत्र पाठान्तरम्, युक्ततरं च तत् / भू:- भूमिका, अविद्यातीव्रादिभावप्रसूतसत्त्वदशाविशेष इति भावः / सा चाज्ञानरूपा ज्ञानरूपा च सप्तविधेति यदुक्तम्, तत्स्थूलभेदापेक्षयेति स्पष्टयन्नाह पदान्तराण्यसङ्ख्यानि, प्रभवन्त्यन्यथैतयोः / स्वरूपावस्थितिर्मुक्ति-स्तभ्रंशोऽहन्त्ववेदनम् // 5-2 // पदेत्यादि, असङ्ख्यत्वात्सङ्क्लेशविशुद्धिस्थानानाम्। यत्तु चरमं विशुद्धिस्थानम्, तत्राविद्यात्यन्तक्षययोगेन स्वरूपमात्रसत्तेति तामधिकृत्याह - स्वरूपेत्यादि / तदतिरिक्तत्वे मुक्तेः स्वसम्बन्धित्वाभावप्रसङ्गान्मुख्यमुक्तेरेवानुपपत्तिरिति विचारणीयम् / Page #86 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मका दर्शना 000000000000033908 अपि च परपरिणतिरेव संसारः, अतस्तदपगमे मोक्ष एवावशिष्येतेति न किञ्चिदनुपपन्नम्। तभ्रंशः - स्वरूपावस्थानावधिक: प्रपात:, अहन्त्ववेदनम्, तद्धेतुत्वात्तदात्मकत्वाच्च तस्य, अहङ्कारोदये हि प्रभवन्ति सर्वेऽपि कषायाः, ततोऽपि परपरिणतिप्रकर्षः, तद्भावे च स्वभावसम्भ्रंश एवेति, अत एवोदितम् - यदा नाहं तदा मोक्षो, यदाऽहं बन्धनं तदा - इति (अष्टावक्रगीतायाम् ) / तस्मात् शुद्धसन्मात्रसंवित्तेः, स्वरूपान्न चलन्ति ये / रागद्वेषादयो भावा-स्तेषां नाज्ञत्वसम्भवः // 5-3 // स्वरूपविचलनमेव रागादि, अतस्तदभावे तदभाव उपपन्न एव / एवं चिच्चिन्तामण्यात्मकात्मस्वभावैकसम्प्रतिष्ठितस्याज्ञत्वासम्भवोऽपि गम्यत एव, सुधासर:सन्निमज्जितस्य धर्मजलासम्भववत् / अपि च स्वभावविच्युतिरेव तत्त्वतोऽज्ञानमित्यस्य तदभावः प्रत्येयः, एतदेव साक्षादाचष्टे यः स्वरूपपरिभ्रंशश्चेत्यार्थ चितिमज्जनम् / एतस्मादपरो मोहो, न भूतो न भविष्यति // 5-4 // यः स्वरूपपरिभ्रंशः - परमानन्दविच्युतिः, एतदेव स्पष्टतरमाह- चेत्यार्थे चितिमज्जनम् - विष्टोपमविषयसार्थे 10000000097795902040330000 Page #87 -------------------------------------------------------------------------- ________________ महोपनिषद् | अध्यालदर्शना 萬萬萬萬萬萬萬萬萬萬萬萬萬萬萬萬鲁鲁 मरालोपमात्मोपयोगानुगमः, एतस्मादपरो मोहः - मौर्यमज्ञानमिति यावत्, न भूतो न भविष्यति, त्रिकालेऽपि चैतस्यैव महामोहत्वात्, अमूढतमस्येदृगसमञ्जसायोगित्वादिति भावः / अथ नास्माकं स्वरूपपरिभ्रंश एव, तत्स्थितिपूर्वकत्वात्तस्य, तस्याश्च नः प्रति स्वप्नगतस्वप्नोपमत्वादिति चेत् ? अत्राह अर्थादर्थान्तरं चित्ते, याति मध्ये तु या स्थितिः / सा ध्वस्तमननाकारा, स्वरूपस्थितिरुच्यते // 5-5 // उक्तावकाशस्यैव स्वरूपस्थितिपर्यायत्वात्, चित्तनिष्क्रियताया एव मुक्तिसक्रियताऽनन्तरत्वात्, अन्वाह - तदा मुक्तिर्यदा चित्तं न वाञ्छति न शोचति / न मुञ्चति न गृह्णाति न हृष्यति न कुप्यति - इति (अष्टावक्रगीतायाम् ) / विचारोपरम एव विमुक्त्यारम्भ इति तात्पर्यम् / एतदेव व्यक्तमप्याह __संशान्तसर्वसङ्कल्पा, या शिलावदवस्थितिः / जाग्रन्निद्राविनिर्मुक्ता, सा स्वरूपस्थितिः परा // 5-6 // उवओग-लक्खणो जीवो - इत्युक्तेर्यद्गोचर उपयोगः, तत्स्थितत्वमात्मनः प्रत्येयम्, तथा च यदा शब्दादि Page #88 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना विषयानुगतो भवत्युपयोगः, तदा स्वरूपसम्भ्रंशः, यदा तु स्वानुगत एव सः, तदा स्वरूपस्थितिः, उपयोगानवस्थित्यभावे परिशेषनीत्या तन्मात्रसिद्धेः / तदत्रावस्थान्तरे जाग्रदादिदशाविरहो मुक्तत्वात्, अभिहितञ्च - न जागति न निद्राति नोन्मीलति न मीलति / अहो परदशा काऽपि वर्तते मुक्तचेतसः - इति (अष्टावक्रगीतायाम् ) / एवञ्च ___ अहन्तांशे क्षते शान्तेऽभेदनिष्पन्दचित्तता / अजडा या प्रचलति, तत्स्वरूपमितीरितम् // 5-7 // यदा ह्यहमित्येतन्मात्रोल्लेखविग्रहोऽपि सङ्कल्पो नोदेति चित्तभित्तौ, तदान्येषां तु रागादिविलसितानां कथैव केति चिदद्वैतैकनिश्चलमनस्कता वस्तुतो स्वभावप्रतिष्ठैवेति भावः / अथ यत्प्रागुक्तं सप्तविधाऽज्ञानभूरिति, तदेव निरूपयति बीजं जाग्रत्तथा जाग्रन्महाजाग्रत्तथैव च / जाग्रत्स्वप्जस्तथा स्वप्नः, स्वप्नजाग्रत्सुषुप्तिकम् // 5-8 // इति सप्तविधो मोहः, पुनरेष परस्परम् / श्लिष्टो भवत्यनेकाग्र्यं, शृणु लक्षणमस्य तु // 5-9 // Page #89 -------------------------------------------------------------------------- ________________ महोपनिषद् बीजजाग्रदादिनामा सप्तविधो मोहः, एष एव मिथो मिश्रभावमापन्नोऽनेकाग्र्यं विक्षेप इति यावत्, ... जाग्रदाद्यभिधानाभिहितस्य मोहस्यैव, लक्षणं शृणु प्रथमं चेतनं यत्स्या-दनाख्यं निर्मलं चितः / भविष्यच्चित्तबीजादि-नामशब्दार्थभाजनम् // 5-10 // नामादिविकल्पशून्यं भावितत्पात्रं त्वाद्यम्, एतदसत्कल्पनया शिष्यबोधार्थमुदितं सम्भाव्यते, सर्वथा नामादिशून्यस्य तत्सम्भवे मुक्तस्यापि तदापत्तेः / अपि चानादिरेव जीवकर्मसंयोगः, अतस्तज्जविभावस्याप्यनादित्वमभ्युपेयम् / एवञ्च वस्तुसत्या एतद्भूमिकाया अभावः प्रत्येयः / उपसंहृत्यापरामाह बीजरूपस्थितं जाग्रद्, बीजजाग्रत्तदुच्यते / एषाऽज्ञप्तेर्नवावस्था, त्वं जाग्रत्संस्थितिं शृणु // 5-11 // नवप्रसूतस्य परा-दयं चाहमिदं मम / इति यः प्रत्ययः स्वस्थ-स्तज्जाग्रत्प्रागभावनात् // 5-12 // यदा ह्यज्ञानस्याभिनवा प्रसूतिः प्रागुक्तासत्कल्पनया भवति, तदा प्रवर्त्तन्ते चित्तविकाराः, तेषु चालम्बनानि-अयम्, occeeeeeeeeeeeeeee Page #90 -------------------------------------------------------------------------- ________________ महोपनिषद् म अध्यात्मदर्शना अहम्, इदम्, मम - इति / स प्रत्ययः जाग्रत्स्थितिः / अस्य प्राक्तनभूमिकायामभावः, अस्याञ्चोद्भवः / अयमेव पुष्टिमुपयातस्तृतीयभूमिकायामवतरतीत्याह अयं सोऽहमिदं तन्म इति जन्मान्तरोदितः / पीवरः प्रत्ययः प्रोक्तो, महाजाग्रदिति स्फुटम् // 5-13 // अयमित्याद्युल्लेखः स्वरूपव्यतिरिक्तवस्तुगोचरो विज्ञेयः, अन्यथाऽस्या अज्ञानक्षितित्वक्षतेः, समाध्यनुप्रवेशेन ज्ञानोर्वरात्वयोगात् / जन्मान्तरोदितत्वोक्ताविदं तात्पर्यम् - अनादिभवाभ्यासस्वभ्यस्तो ह्ययं परव्यतिकरविषयो विकल्पविसर इति / एतत्त्वत्र चिन्त्यम् - जातमात्रस्याद्यभूमिर्बालस्य, ततोऽप्युक्तप्रत्ययोदयतो द्वितीयभूमिकायोगः, तदनन्तरं च जन्मान्तरसंस्कारप्रबोधवशात्तत्पीवरत्वयोगतो तृतीयावतारः, इतिप्रक्रियायां गर्भस्थस्यापि शिशोस्तत्तच्छुभाशुभाध्यवसायतः स्वर्गनरकादिगमनमागमोदितं न सङ्गच्छेत्, न चाप्रमाणमेव तत्प्रतिपादक आगमः, अत इष्टैव नस्तदसङ्गतिरिति वाच्यम्, तादृशशिशोरध्यवसायशून्यत्वे भारताधुदिताया अभिमन्युचक्रव्यूहाधीत्या अप्यसङ्गतत्वापत्तेः / न च गर्भस्थस्याप्याद्यसमयमधिकृत्याद्यभूमिका सङ्गमनीयेति वाच्यम्, वस्तुतो भवद्वयान्तरालेऽप्यनादिसंसारवासनानुभावेन तद्विकारविमुक्तिविरहात्, तद्भावे च मुक्तप्रत्यागतिप्रसक्तिध्रौव्यमपि च प्रागुक्तमभिसन्धेयमिति दिक् / तुर्यामाह Page #91 -------------------------------------------------------------------------- ________________ महोपनिषद् अरूढमथवा रूढं, सर्वथा तन्मयात्मकम् / यज्जाग्रतो मनोराज्यं, यज्जाग्रत्स्वप्न उच्यते // 5-14 // तथा चायमादेरेवात्यन्तं पीवरः प्रत्ययस्तत्तत्परद्रव्यमाश्रित्य प्रवृत्तस्तुर्यभूमिका / राज्यत्वव्यपदेशोऽत्र प्रासादादिपृथ्वीपर्यन्तवस्तुव्यूहस्य तदुदरप्रविष्टत्वसाधर्म्यात्, अपरथा तु विनाश एवायं विज्ञेयः, तद्धेतुत्वात्, एवमेवाज्ञानभूत्वोपपत्तेश्च / अपि च कल्पिततयाऽप्येषाऽज्ञानभूमिका, मनोराज्यत्वादेवेत्याह द्विचन्द्रशुक्तिकारूप्यमृगतृष्णादिभेदतः / अभ्यासं प्राप्य जाग्रत्तत्स्वप्नो नानाविधो भवेत् // 5-15 // यथैव तथाभ्यासयोगतस्तिमिरोपहतदृशो द्विचन्द्रदर्शनम्, आदित्यकरस्पृष्टदूरवर्तिशुक्तौ रजतप्रतिभासः, मृगतृष्णाम्भसि चाम्भोविभ्रमो मृगशावस्य, एवं भूमिकायामस्यां सर्वस्यापि प्रत्ययस्य तथात्वमवगम्यम्, क्षाराम्भोमिश्रितं हि नालिकेराम्भोऽपि तद्भावमेवोपयातीति / ननु च यदि जाग्रत्, तदा कथं स्वप्नः, अथ च स्वप्नः, कथं जाग्रदिति व्याहतमिदमिति चेत् ? न, स्वप्नोपमत्वेन | तद्व्यपदेशोचितत्वात्, अर्थविसंवादस्य तदौपम्यबीजस्य च दर्शितत्वात् / अथ पञ्चमी Page #92 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना अल्पकालं मया दृष्टमेतन्नोदेति यत्र हि / परामर्शः प्रबुद्धस्य, स स्वप्न इति कथ्यते // 5-16 // निद्रायां हि मया स्तोककालं यावद् निभालितममुकं वस्तु - इति यत्र प्रबुद्धस्यापि परामर्शो नोदेति, स स्वप्न इत्युच्यते / एतदिह तात्पर्यम् - सचेतस्कस्य हि प्रतिबुद्धदशोदये-यन्मया दृष्टं तन्न तथा, अपि तु स्वप्नः, अत एव वितथम् - इत्युदेति बोधः / उक्ताज्ञानभूस्थस्य तु प्रतिबोधानन्तरमपि स्वप्नदशावत्तितैव, तद्वितथत्वाप्रतिभासनात् / यस्य हि गुरुवचःप्रभृतिना ज्ञापितभवनैर्गुण्यस्यापि तदास्था नापगच्छति, तस्यैतत्पृथ्वीवत्तितेति ज्ञायते / षष्ठी सप्तमी चाह - चिरं सन्दर्शनाभावादप्रफुल्लं बृहद्वचः / चिरकालानुवृत्तिस्तु, स्वप्नो जाग्रदिवोदितः // 5-17 // स्वप्नजाग्रदिति प्रोक्तं, जाग्रत्यपि परिस्फुरत् / षडवस्था परित्यागो, जडा जीवस्य या स्थितिः // 5-18 // भविष्यदुःखबोधाढ्या, सौषुप्तिः सोच्यते गतिः / जगत्तस्यामवस्थाया - मन्तस्तमसि लीयते // 5-19 // FFFFFFFFFFFFFFFFE Page #93 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना यदल्पकालानुभूतमप्यल्पवचसा वर्णयितुमशक्यम्, दृढवासनाधानयुक्ततया चिरकालानुवृत्तिश्च, एवं जाग्रदिवोदितः स्वप्नः स्वप्नजाग्रत् / परिकल्पयति हि चिरतरं कालं यावद् दृढपापवासनो भवाभिनन्दी जीवोऽल्पकालमप्यासेवितं वृजिनम्, स्तोककालमनुभूतोऽन्यतरविपर्यासो वा / एवञ्च परमार्थतोऽस्य तत्स्मृत्यनुगतः समस्तोऽपि कालो वृजिनकाल एव, विपर्यासकाल एव वा, एवञ्च नासौ प्रतिबुद्धः, अपि तु तत्स्वप्न एव जागर्त्यद्यापीति स्वप्नजाग्रत् / जागरदशायामेव / स्वप्नायत एवैतद्भूमिस्थित इति हृदयम् / यस्यां तूक्त-षडवस्थानामप्यभावः, निबिडाज्ञानावरणावृततयाऽजीवप्राया च स्थितिर्जीवस्य, भवति च यस्यामेष्यत्कष्टप्रतिभानं सा चरमा सुषुप्तिभूः / / अथ निबिडाज्ञानभावे भविष्यद्दुःखबोधलक्षणमतिशयि ज्ञानमेव न घटाकोटिमाटीकते, तद्भावे च निबिडाज्ञानम्, इति चेत् ? सत्यम्, अत एव नैतदवध्याद्यतिशयि ज्ञानम्, अपि तु मा भून्ममेषदपि कष्टमिति देहमू प्रसूतं दुःखकल्पनाकलुषितं साध्वससातत्यमेव, वस्तुतो भयस्याप्यज्ञानप्रकारत्वात्, ज्ञानिनस्तद्भावात्, उक्तञ्च - न गोप्यं क्वापि नारोप्यं, हेयं देयं च न क्वचित् / क्व भयेन मुनेः स्थेयं, ज्ञेयं ज्ञानेन पश्यतः - इति (ज्ञानसारे) / तस्यामवस्थायाम् - सुषुप्तिलक्षणायाम्, जगत् - अभिन्नग्रन्थिमिथ्यादृष्टिसत्त्वसमूहात्मकं विश्वम्, अन्तस्तमसि - भावान्धकारे निबिडतमाज्ञान इति यावत्, लीयते - तथादीर्घभवस्थिति-कर्मगौरवादिनिबन्धनेन निमज्जति, तथाविधनिबन्धनस्य तत्पर्यवसाननियमात् / उपसंहरति Page #94 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना सप्तावस्था इमाः प्रोक्ता, मयाऽज्ञानस्य वै द्विज ! / एकैका शतसङ्ख्याऽत्र, नानाविभवरूपिणी // 5-20 // विभवोऽज्ञानस्य, न त्वात्मनः, तथात्वे त्वासां ज्ञानभूत्वप्रसङ्गात्, तद्वित्तत्वादात्मनः / शतसङ्ख्या इत्यपि स्थूलभेदत एव, अन्यथा प्रागुक्तरीत्याऽसङ्ख्यप्रकारा आसामवगन्तव्याः / त एव तन्त्रान्तरेषु व्यपदेशान्तरेण निर्दिष्टाः, परमार्थतस्तु सर्वमपि तदेकमेव, सर्वस्यापि तस्याज्ञानरूपताऽनतिक्रमादिति ध्येयम् / सेयमवेद्यसंवेद्यपददशा सर्वानर्थजननी स्वप्नेऽपि परिहार्या मुमुक्षुभिः, उक्तञ्च - अवेद्यसंवेद्यपदं विपरीतमतो मतम् / भवाभिनन्दिविषयं समारोपसमाकुलम् / / एतद्वन्तोऽत एवेह विपर्यासपरा नराः / हिताहितविवेकान्धाः, खिद्यन्ते साम्प्रतक्षिणः / / जन्ममृत्युजराव्याधि - रोगशोकाद्युपद्रुतम् / वीक्षमाणा अपि भवं, नोद्विजन्तेऽतिमोहतः / कुकृत्यं कृत्यमाभाति, कृत्यं चाकृत्यवत्सदा / दुःखे सुखधियाकृष्टाः, कच्छूकण्डूयकादिवत् // यथा कण्डूयनेष्वेषां, धीर्न कच्छूनिवर्तने / भोगाङ्गेषु तथैतेषां न तदिच्छापरिक्षये / / आत्मानं पांसयन्त्येते सदाऽसच्चेष्टया भृशम् / पापधूल्या जडा: कार्यमविचार्यैव तत्त्वतः // धर्मबीजं परं प्राप्य मानुष्यं कर्मभूमिषु / न सत्कर्मकृषावस्य प्रयतन्तेऽल्पमेधसः / बडिशामिषवत्तुच्छे कुसुखे दारुणोदये / सक्तास्त्यजन्ति सच्चेष्टां धिगहो दारुणं तमः // अवेद्यसंवेद्यपद-मान्ध्यं दुर्गतिपातकृत् / सत्सङ्गागमयोगेन जेयमेतन्महात्मभिः - इति (योगदृष्टिसमुच्चये)। 00004080021 JAN INDIA Page #95 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्म दर्शना 000000000000000000 अन्यत्र तु तमःप्रभृत्यभिधानेनाभिहिताऽज्ञानभूमिका, यथा - तमो मोहो महामोहस्तामिस्रोऽन्ध एव च / विपर्ययो हि जीवानामतो भ्रान्तिर्भवार्णवे // श्रेयःप्रवृत्तिकामस्य तदन्यत्र प्रवर्त्तनम् / सिद्धान्तानादराद् ह्येतत् तम आहुर्मनीषिणः // देहादिष्वात्मबुद्धिर्या मुक्तिमार्गोपरोधिनी / तत्राभिष्वङ्गभावेन सा मोह इति कीर्त्यते // बाह्येषु तु ममत्वं यद् देहभावेऽप्यभाविषु / केवलं भावसंसिद्ध्यै महामोहस्तदाहितम् / / भाव्याभाव्येषु सर्वेषु नियमेन तथा तथा / भवन् स्वात्मापकाराय क्रोधस्तामिस्र उच्यते // संसारे मरणं जन्तोनियमेन व्यवस्थितम् / तत् प्रतीत्य भयं ह्यन्धतामिस्र: परिकीर्तितः / एवं विपर्ययादस्मादतत्त्वे तत्त्वबुद्धितः / कुकृत्येष्वपि मूढानां बहुमानः प्रवर्तते - इति (ब्रह्मप्रकरणे)। उक्ताऽज्ञानभूः, अथेतरामाह इमां सप्तपदां ज्ञानभूमिमाकर्णयानघ ! / नानया ज्ञातया भूयो, मोहपङ्के निमज्जति // 5-21 // भावनाज्ञानतया परिणतस्यैतद्वोधादित्यस्याशेषमोहपङ्कशोषकत्वात् / अपि च वदन्ति बहुभेदेन, वादिनो योगभूमिकाः / मम त्वभिमता नून-मिमा एव शुभप्रदाः // 5-22 // Page #96 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना सकलकल्याणनिबन्धनत्वेन वक्ष्यमाणा सप्त योगभूमय एव मम तत्त्वेनेष्टा इत्याशयः / किञ्च अवबोधं विदुर्ज्ञानं, तदिदं साप्तभूमिकम् / मुक्तिस्तु ज्ञेयमित्युक्ता, भूमिकासप्तकात्परम् // 5-23 // यथैव तैलधारा तैलरूपैव भवति, तदव्यतिरिक्तत्वात्तस्याः, एवमियमपि ज्ञानभूमिका ज्ञानरूपैव, तद्भिन्नतद्विरहात् / मुक्तिस्तु कथञ्चित् ज्ञेयरूपा, तत्स्वरूपस्यावगमनीयत्वात् / न हि ज्ञानमन्तरेण ज्ञेयावबोधः, अतस्तदनन्तरं तदुक्तिरित्यभिप्रायः / अथ प्रथमं सप्तज्ञानभूमिकानामभिधेयान्युपन्यस्यति ज्ञानभूमिः शुभेच्छाख्या, प्रथमा समुदाहृता / विचारणा द्वितीया तु, तृतीया तनुमानसी // 5-24 // सत्त्वापत्तिश्चतुर्थी स्यात्, ततोऽसंसक्तिनामिका / पदार्थाभावना षष्ठी, सप्तमी तुर्यगा स्मृता // 5-25 // आसामन्तःस्थिता मुक्ति-र्यस्यां भूयो न शोचति / एतासां भूमिकानां त्व-मिदं निर्वचनं शृणु // 5-26 // Page #97 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना 萬萬萬萬萬萬萬萬萬萬萬萬萬萬萬萬萬萬3 एतदन्तःस्थितत्वं मोक्षस्य तात्त्विकस्य ज्ञानस्यावश्यं दर्शनचारित्रसहितत्वात्, रत्नत्रयस्य च भावमोक्षरूपत्वात्, अन्वाह - द्रव्यमोक्षः क्षयः कर्मद्रव्याणां नात्मलक्षणम् / भावमोक्षस्तु तद्धेतु-रात्मा रत्नत्रयान्वयी // ज्ञानदर्शनचारित्रैरात्मैक्यं लभते यदा / कर्माणि कुपितानीव भवन्त्याशु तदा पृथक् / / अतो रत्नत्रयं मोक्षः- इति (अध्यात्मसारे)। निर्वचनप्रतिज्ञामेव निर्वाहयन्नाद्यलक्षणमाह स्थितः किं मूढ एवास्मि ? प्रेक्ष्येऽहं शास्त्रसज्जनैः / वैराग्यपूर्वमिच्छेति, शुभेच्छेत्युच्यते बुधैः // 5-27 // शुभेच्छा विरागगर्भोऽभिलाषः / स च विराग एवं निर्वेदपूर्णः सम्भवति-यथा कथन्नामैतावन्तं कालं यावन्मम मोहाधीनतयैवावस्थितिः ? न मम तथाकर्मलाघवाद्युपेतस्यावाप्तधर्मसामग्रीकस्याप्येतन्मौढ्यं गर्त्ताशूकरवद्भोगजम्बालैकनिमग्नताप्रयोजकं न्याय्यमिति / एवञ्चैषा ज्ञानभूमिः स्वौचित्यविचारालङ्कृता भवति, यथोक्तम् - को मम कालो किमेयस्य उचियं - इति (पञ्चसूत्रे ) / प्राप्तधर्मसामग्रीमेव परिभावयति - प्रेक्ष्य इत्यादि / सिद्धान्तोपनिषद्वित्सद्गुरुकृपाकटाक्षावलोकिततया धन्योऽहम्, सफलीकार्यं मया मद्धन्यत्वं मोहविदारणेनेति हृदयम् / द्वितीयामाह Page #98 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना शास्त्रसज्जनसम्पर्क-वैराग्याभ्यासपूर्वकम् / सदाचारप्रवृत्तिर्या, प्रोच्यते सा विचारणा // 5-28 // विचरत्यनयाऽऽत्मा श्रेयःसञ्चर इतिनिरुक्तियोगात् / ननु निरुक्तिसमन्वयेऽपि न ज्ञानरूपमिदम्, अपि तु al क्रियारूपम्, अतो ज्ञानभूमित्वेनास्योपन्यासोऽनुचित इति चेत् ? न, परमार्थतस्तयोरन्योऽन्यानुविद्धस्वरूपत्वात्, तात्त्विकक्रियाया ज्ञानसचिवत्वनियमात्, वास्तवज्ञानस्य च सक्रियत्वध्रौव्यात्, नैतत् स्वमनीषिकयैवोच्यते, उपनिबन्धनमप्यस्य पारमर्षम् - जं सम्मं ति पासहा तं मोणं ति पासहा - इति (आचाराले) / अन्वाह - अत एवागमज्ञस्य या क्रिया सा क्रियोच्यते / आगमज्ञोऽपि यस्तस्यां यथाशक्ति प्रवर्तते - इति (शास्त्रवार्तासमुच्चये)। इत्थञ्च क्रियारूपत्व एषा विशुद्धतरज्ञानभूमिकेति ज्ञेयम् / उक्तद्वयपरिणामरूपां तृतीयामाह विचारणाशुभेच्छाभ्या-मिन्द्रियार्थेषु रक्तता / यत्र सा तनुतामेति, प्रोच्यते तनुमानसी // 5-29 // भवति हि विरागगर्भचिन्तनपरस्य सद्गुरूपदिष्टाकुटिलमार्गेण योगमभ्यस्यतो विषयानुरागहासः, स च तत्त्वतस्तकलङ्कितमानसतानवमेवेति सान्वर्थेयं भूमिका / ज्ञानफलं हि विरागः, अतो फले हेतूपचारादस्या अपि ज्ञानभूमिका Page #99 -------------------------------------------------------------------------- ________________ महोपनिषद् | अध्यात्मदर्शना त्वमपराहतमेव, अभिहितञ्च - एसो से अत्थनाणम्मि - इति (उपदेशपदे)। उक्तत्रयाभ्यासफलरूपां तुर्यामाह भूमिकात्रितयाभ्यासा-च्चित्ते तु विरतेर्वशात् / सत्त्वात्मनि स्थिते शुद्धे, सत्त्वापत्तिरुदाहृता // 5-30 // तात्त्विको हि विरागोऽवश्यं भवति विरतिपर्यवसायी, अन्यथा तत्त्वायोगात्, अत एव पारमर्षम् - जया णिव्विदए भोए जे दिव्वे जे य माणुसे / तया चयइ संजोगं सब्भितरबाहिरं - इति ( दशवैकालिके)। सद्धि रत्नत्रितयमेव सज्ज्ञानादिलक्षणम्, तस्यात्मनि परिणतिः सत्त्वापत्तिरित्यस्याः सान्वर्थता / न च विरतिमात्रलाभे त्रितयलाभाभाव इति वाच्यम्, तदाक्षिप्तत्वात्पूर्वद्वयलाभस्य, तदाह वाचकमुख्यः - पूर्वद्वयलाभः पुनरुत्तरलाभे भवति सिद्धः - इति (प्रशमरतौ)। एतच्चतुष्काभ्यासपरिणामरूपां पञ्चमीमाह दशाचतुष्टयाभ्यासा-दसंसर्गकला तु या। रूढसत्त्वचमत्कारा, प्रोक्ताऽसंसक्तिनामिका // 5-31 // तथा चोपजायत एव स्वभ्यस्तरत्नत्रयाणां पद्मपत्रवन्निरुपलेपभावयोगादसञ्जनम्, तथा चागमः - पुक्खरपत्तं व णिरुवलेवे - इति (कल्पसूत्रे) / सेयं रत्नत्रयाभ्यासप्रकर्षप्रसूता स्फूतिरेवात्र रूढसत्त्वचमत्कारेतिपदेनाभिहितेति CCCCCCCCCCCoeeeeeeeee Page #100 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना 000000000000 भावनीयम् / उक्तपञ्चकपरिशीलनफलात्मिकां षष्ठीमाह भूमिकापञ्चकाभ्यासात्, स्वात्मारामतया दृढम् / आभ्यन्तराणां बाह्यानां, पदार्थानामभावनात् // 5-32 // परप्रयुक्तेन चिरं, प्रयत्नेनावबोधनम् / पदार्थाभावना नाम, षष्ठी भवति भमिका // 5-33 // निःसङ्गता ह्यात्मरामणीयकरमणतादायिनीत्येतद्भूमिकावतारः / अत्र हि समुपेक्षासमनुभावाद्विषयध्यानविरहः, | ततश्चासम्भव एव सङ्ग-काम-क्रोधाद्यनर्थानाम्, तन्मूलत्वात्तेषाम्, अभिहितञ्च-ध्यायतो विषयान् पुंसः, सङ्गस्तेषूपजायते / सङ्गात्सञ्जायते कामः, कामात्क्रोधोऽभिजायते / / क्रोधाद् भवति सम्मोहः, सम्मोहात् स्मृतिविभ्रमः / स्मृतिनाशाद् | बुद्धिनाशो बुद्धिनाशात्प्रणश्यति - इति (भगवद्गीतायाम् ) / अथोपस्थितानां पदार्थानामप्यभावनेत्येव दुःश्रद्धेयमिति चेत् ? सत्यम्, तथापि सम्भवतीदमपि प्रोक्तभूमिकापञ्चकस्वभ्यासशालिनां धीरधियां तद्भावानुभावादेव, वस्तुत आत्मरमणावाप्यमानपरमानन्दापेक्षया विषयप्रवृत्तेस्तेषामतितुच्छतयाऽसत्प्रायत्वेन प्रतिभासनाच्च, अत एवोक्तम् - स्वभावादेव जानाति दृश्यमेतन्न किञ्चन / इदं ग्राह्यमिदं त्याज्यं स किं पश्यति धीरधीः ? - इति (अष्टावक्रगीतायाम्) / अपि च Page #101 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना 40000000000000000 त्याज्यत्वादिगोचरा भावनाऽपि तदैवोदेति, यदा पदार्थसत्तामात्रभावनाऽस्य मनसि स्यात्, सा च नास्त्येव स्वरूपानुसन्धानमात्राक्षणिकचित्तस्य, यदुक्तम् - ब्रुवन्नपि हि न ब्रुते, गच्छन्नपि न गच्छति / स्थिरीकृतात्मतत्त्वस्तु पश्यन्नपि न पश्यति - इति (इष्टोपदेशे) / अतोऽस्य तद्भावनाभावोऽवगम्यः / एतत्षटकाभ्यासफललक्षणां सप्तमीमाह - भूमिषट्कचिराभ्यासाद्, भेदस्यानुपलम्भनात् / यत्स्वभावैकनिष्ठत्वं, सा ज्ञेया तुर्यगा गतिः // 5-34 // चिराभ्यासात्, प्रभूतभवान्तराणि यावत्तत्तत्प्रवृत्तिपरिशीलनेनात्मभावनात्, तात्त्विकस्याभ्यासस्य प्रायः स्तोककालासाध्यत्वात्, तदाहुः - अभ्यासोऽपि प्रायः प्रभूतजन्मानुगो भवति शुद्धः - इति (षोडशके ) / ततः किमित्याह - भेदस्य - सुखनिमित्तानां दुःखनिमित्तानां च विशेषस्य, अनुपलम्भात् - एगो मे सासओ अप्पा नाणदंसणसंजुओ। सेसा मे बाहिरा भावा सव्वे संजोगलक्खणा - (आतुरप्रत्याख्याने) इत्यागमावगमेनावेदनात्, द्वयेऽपि बाह्यत्वसाधाद् भेदाभावात्, यत् स्वभावैकनिष्ठत्वम् - परमतत्त्वात्मकात्मतत्त्वैकप्रतिष्ठितता, सा तुर्यगा गतिर्जेया, निद्रा-तन्द्राजागरलक्षणत्रितयातीतलक्षणत्वात्तस्याः / Page #102 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना एषा हि जीवन्मुक्तेषु, तुर्यावस्थेति विद्यते / विदेहमुक्तिविषयं, तुर्यातीतमतः परम् // 5-35 // जीवन्मुक्तिस्तुर्यावस्था / मुक्तिस्तदतीता / पर्यवसितमाहसङ्कल्पसङ्क्षयवशाद् गलिते तु चित्ते, संसारमोहमिहिका गलिता भवन्ति / स्वच्छं विभाति शरदीव खमागतायां, चिन्मात्रमेकमजमाद्यमनन्तमन्तः // 5-53 // (वसन्ततिलका) सत्यां तु मिहिकायां क्षितिरपि न प्रतिभासते सम्यक्, तदाऽऽकाशस्य तु कथैव केति तद्विगलने यथाऽऽकाशनैर्मल्यमनुकूल योगतः, तथा चरमावर्तादिसामग्री प्राप्य शरदृत्वाधुपमां चिदाकाशविमलतेति भावः / सोऽयं सङ्कल्पसङ्क्षयलभ्य आत्माभ्युदय न मनोजयादन्तरेण शक्य इत्याह हस्तं हस्तेन सम्पीड्य, दन्तैर्दन्तान् विचूर्ण्य च / अङ्गान्यङ्गैरिवाक्रम्य, जयेदादौ स्वकं मनः // 5-75 // मनसो विजयान्नान्या, गतिरस्ति भवार्णवे परमयोगरूपत्वात्तस्य मोक्षयोजनावन्ध्यनिबन्धनत्वात्, उक्तञ्च - मनोजयान्नास्ति परोऽपि योगः - इति (हृदय 100 Page #103 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना प्रदीपे)। ततोऽपि प्रक्षीणचित्तदर्पस्य, निगृहीतेन्द्रियद्विषः / पद्मिन्य इव हेमन्ते, क्षीयन्ते भोगवासनाः // 5-77 // चित्तदर्प इन्द्रियानिग्रहश्च भोगवासनाजीवनम्, अतस्तद्विरहे तत्क्षय उपपन्न एव, जलविरहे मीनक्षयवत् / तस्मात् तावन्निशीव वेताला, वसन्ति हदि वासनाः / एकतत्त्वदृढाभ्यासा-द्यावन्न विजितं मनः // 5-72 // तावदेव हृदि वासनावेतालविलासः, यावन्ननोविजयविभाकरोदयेनाखिलान्तःसन्तमसतमिस्रान्त इति भावः / नन्वभिमतैवास्माकं तु वासना, तत्तत्संसारसुखहेतुत्वादिति चेत् ? अत्राह आस्थामात्रमनन्तानां, दुःखानामाकरं विदुः / अनास्थामात्रमभितः, सुखानामालयं विदुः // 5-85 // वासनातन्तुबद्धोऽयं, लोको विपरिवर्तते / सा प्रसिद्धाऽतिदुःखाय, सुखायोच्छेदमागता // 5-86 // CCCCCCCCCCCCCCCcccccee Page #104 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना तदुच्छेदस्यैव वस्तुतो मोक्षरूपत्वात्, उक्तञ्च -वासनाप्रक्षयो मोक्षः- इति (विवेकचूडामणौ)। एतदेव व्यक्तमप्याह भोगेच्छामात्रको बन्ध-स्तत्त्यागो मोक्ष उच्यते / मनसोऽभ्युदयो नाशो, मनोनाशो महोदयः // 5-97 // तद्धेतुभावात् / मनसोऽभ्युदयो हि सार्थेतरतत्तत्सङ्कल्पविकल्पप्राज्यसाम्राज्यम्, तच्च स्वरूपस्थितिप्रच्यावकतयाऽऽत्मविनाश एव, कथञ्चित्तद्विच्युतेरेवात्ममृत्यूपमत्वात्, अत एव वदन्ति-जीवो जीवति न प्राणै-विना तैरेव जीवति / इदं चित्रं चरित्रं के, हन्त ! पर्यनुयुञ्जताम् - इति (अध्यात्मसारे)। तथा चेन्द्रियादिद्रव्यप्राणवियुता ज्ञानादिभावप्राणमात्रकृतानुसन्धानैवात्मदशा परमार्थतस्तज्जीवनम्, अविशुद्धतद्गोचरतद्व्यपदेशानौचित्यात्, असंव्यवहार्यत्वात् / अयम्भावः - यथा हि पङ्काद्यत्यन्तमलिनं पानीयं तद्व्यपदेशानहम्, पानस्नानादिव्यवहारानुपयोगितया वस्तुतस्तत्पानीयत्वस्यैवाभावात्, एवं सङ्कल्पविकल्पादिकलुषिततया स्वरूपभ्रंशविडम्बनाविकृतमात्मस्वरूपमपि निश्चयतोऽनात्मरूपम्, भावप्राणविकलत्वात्, उक्तञ्च - अजीवा जन्मिनः शुद्ध - भावप्राणव्यपेक्षया / सिद्धाश्च निर्मलज्ञाना द्रव्यप्राणव्यपेक्षया - इति (अध्यात्मसारे)। एवञ्च सङ्कल्पविनाश एव स्वरूपसाम्राज्यस्फातिरिति सूक्तम् - मनसोऽभ्युदयो नाशो मनोनाशो महोदयः - इति / सङ्कल्पयुतस्तु नैवात्मपदाभिधेय इत्यवधारयति ccccceeeeeEEEEEEEEEEE Page #105 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना सर्वसङ्कल्परहिता, सर्वसञ्ज्ञाविवर्जिता / सैषा चिदविनाशात्मा, स्वात्मेत्यादिकृताभिधा // 5-100 // सङ्कल्पादयो हि विचार्यमाणाः पुद्गलपरिणामाः, मनस एव तद्रूपत्वात् / अतस्तत्परिणतस्यात्मनोऽपि कथञ्चिज्जडत्वोपगमादनात्मता, अतस्तद्विवर्जिततत्स्वरूपस्यैवात्मतेति तात्पर्यम् / अत्रोक्तो निश्चयनयाभिप्रायो ब्रह्माद्वैतादिविचारश्चात्यन्तपक्वबोधायैव शिष्याय वाच्यः, अनीदृशस्यातोऽनर्थप्रसूतेरित्याह आदौ शमदमप्रायै-र्गुणैः शिष्यं विशोधयेत् / पश्चात्सर्वमिदं ब्रह्म, शुद्धस्त्वमिति बोधयेत् // 5-104 // अज्ञस्यार्धप्रबुद्धस्य, सर्वं ब्रह्मेति यो वदेत् / महानरकजालेषु, स तेन विनियोजितः // 5-105 // सम्यक् तत्तात्पर्यपरिणतियोग्यताविरहेण व्यवहारनिश्चयो भयभ्रष्टस्य तस्य तादृशगतेरेवावशेषात् / अत एव सिद्धान्तरहस्यविडम्बनाऽपि बोध्या, तथा च पारमर्षम् - आमे घडे णिहित्तं जह जलं तं घडं विणासेइ / इअ सिद्धंतरहस्सं अप्पाहारं विणासेइ - इति / अन्यत्रापि - आमपात्रे यथा न्यस्तं क्षीरं दधि घृतं मधु / विनश्येत् पात्रदौर्बल्यात् तच्च पात्रं 103 Page #106 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना रसाश्च ते - इति (वशिष्ठस्मृतौ)। तदत्र गुरुदोषो गुरोरेव पात्रापात्रेऽविवेचयतः, अतो हि स्वपरमहानर्थ इति त्याज्यस्सः, यदाह - उवएसोऽविसयम्मि विसए वि अणीइसो अणुवएसो / बंधणिमित्तं णियमा जहोइओ पुण भवे जोगो // गुरुणो अजोगिजोगो अच्चंतविवागदारुणो णेओ / जोगिगुणहीलणा णट्ठणासणा धम्मलाघवओ - इति (योगशतके)। न च पश्चादपि तदेव देयमित्यादावेव तद् दीयताम्, एवमेव शीघ्रं साध्यसिद्धेरिति वाच्यम्, निर्बलचक्रिभोजननीत्या प्रत्यपायावहत्वात्, न हि कासारतरणाशक्तः केनचित्सागरे क्षिप्यते कृपालुना, तद्भावक्षतिप्रसङ्गात्, एवं व्यवहारानभिज्ञस्य निश्चयोपदेशः पापमेवेति ध्येयम्, तथा चोक्तम् - गुह्याद् गुह्यतरं तत्त्व-मेतत्सूक्ष्मनयाश्रितम् / न देयं स्वल्पबुद्धीनां ते ह्येतस्य विडम्बकाः // जनानामल्पबुद्धीनां नैतत्तत्वं हितावहम् / निर्बलानां क्षुधा नां भोजनं चक्रिणो यथा / ज्ञानांशदुर्विदग्धस्य तत्त्वमेतदनर्थकृत् / अशुद्धमन्त्रपाठस्य फणिरत्नग्रहो यथा / / व्यवहाराविनिष्णातो यो जीप्सति विनिश्चयम् / कासारतरणाशक्तः सागरं स तितीर्षति - इति / यत एवम्, अतः - व्यवहारं विनिश्चित्य, ततः शुद्धनयाश्रितः / आत्मज्ञानरतो भूत्वा परमं साम्यमाश्रयेत् - इति (अध्यात्मसारे) / तस्मात् प्रबुद्धबुद्धेः प्रक्षीण-भोगेच्छस्य निराशिषः / नास्त्यविद्यामलमिति, प्राज्ञस्तूपदिशेद् गुरुः // 5-106 // 104 Page #107 -------------------------------------------------------------------------- ________________ महोपनिषद अध्यात्मदर्शना तदितरस्यैतत्कथने प्रत्युताविद्यावृद्ध्यापत्तेः / एषैव गुरोः प्राज्ञता यत्स्थानदेशकत्वम्, दारुणविपाकत्वादितरस्य, तदाह - यद् भाषितं मुनीन्द्रैः पापं खलु देशना परस्थाने / उन्मार्गनयनमेवं भवग्रहणे दारुणविपाकम् / / हितमपि वायोरौषधमहितं तच्छ्लेष्मणो यथात्यन्तम् / सद्धर्मदेशनौषधमेवं बालाद्यपेक्षमिति // - इति (षोडशके)। सर्वोऽप्ययं योगमार्गो विरागैकमलोऽतस्तमेवोत्पादयन्नाह न जायते न म्रियते, क्वचित्किञ्चित्कदाचन / परमार्थेन विप्रेन्द्र !, मिथ्या सर्वं तु दृश्यते // 5-165 // लक्ष्यमाणानां जन्मादीनां परमार्थत आविर्भावादिमात्रत्वात्तन्मिथ्यात्वं प्रत्येयम् / तथा च तत्तत्पर्यायप्रादुर्भावतिरोभावावेव सञ्जायेते, असदुत्पादेतरविनाशासम्भवात्, यदुक्तम् - णासओ विज्जए भावो, णाभावो विज्जए सओ - इति / अत आविर्भावतिरोभावमात्रपर्यवसितयोर्जन्ममरणयोहर्षाद्यनुभवनं मौढ्यम् / न हि कश्चिदबालो रत्नतिरोभावमात्रेण शोचते, तत्प्रादुर्भावमात्रेण वा प्रमोदमुपयाति, तत्सत्ताविशेषविरहात् / एवं मनुष्यादितत्तत्पर्यायप्रादुर्भावादावप्यात्मसत्ताऽविशेष एवेति तत्र हर्षादिकरणमयुक्तम् / समानैव घटनाऽऽविर्भावत्वादिना गृहीता सती, जन्मत्वादिनोपलब्धा तु मिथ्येत्यत्र निष्कर्षः / तस्मात् 105 Page #108 -------------------------------------------------------------------------- ________________ महोपनिषद् | अध्यात्मदर्शना कोशमाशाभुजङ्गानां, संसाराडम्बरं त्यज / असदेतदिति ज्ञात्वा, मातभावं निवेशय // 5-166 // जन्माद्येवेदमिति मिथ्यामतिकर्थितो हि जीवस्तत्तत्तृष्णोरगीदंशव्यथामतिषहते / तत्त्वेन गृहीतः सर्वोऽप्ययं भवोपप्लवोऽसत्, उपकल्पिततत्स्वरूपस्य वस्तुतोऽभावाद्वन्ध्यासुतोपमत्वात् / एवमवगम्य मातृभावम् - सर्वभवोपप्लवोपसंहारप्रयोजकतया मुक्तस्वभावप्रादुर्भावैकप्रसूपमं माध्यस्थ्यभावम्, निवेशय - आत्मनि परिणमय, तत एव दृश्यमानोत्पादादिषु परमौदासीन्याधिगमेन जीवन्मुक्तिसिद्धेः / अपि च गन्धर्वनगरस्यार्थे, भूषितेऽभूषिते तथा / अविद्यांशे सुतादौ वा, कः क्रमः सुखदुःखयोः ? // 5-167 // न हि नगरगन्धर्वनगरयोः सुतवन्ध्यासुतयोश्च कश्चिद्विशेषः विपश्चितः / प्रागुक्तनीत्या तदसत्त्वस्योभयत्र समानत्वात् / एवञ्च यथा गगनडम्बरमात्रविग्रहस्य गन्धर्वनगरस्य विभूषादिविषये सुखादि न भवति सचेतसः, परमार्थतत्स्वरूपसंवेदनात् / तथा नगरस्य भूषादावपि, उक्तहेतोः / यथा च वन्ध्यापुत्रमाश्रित्य जन्मादिविकल्पोऽपि न भवति, तथा स्वपुत्रं प्रतीत्यापि, स्वसम्बध्यङ्गस्यैवाभावेऽङ्गजानुत्थानात् / एवं सति पर्यायावेव नगरं गन्धर्वनगरमिति / स्वपुत्रो वन्ध्यापुत्र इति CECEGreeeeeeeeeeeeeee 106 Page #109 -------------------------------------------------------------------------- ________________ महोपनिषद अध्यात्मदर्शना च / तन्नास्था भवति विदुषोऽन्यतरेऽपि, उक्तञ्च - गन्धर्वनगरादीनामम्बरे डम्बरो यथा / तथा संयोगजः सर्वो विलासो वितथाकृतिः - इति (अध्यात्मसारे) / ततश्च धनदारेषु वृद्धेषु, दुःखयुक्तं न तुष्टता / वृद्धायां मोहमायायां, कः समाश्वासवानिह ? // 5-168 // व्यवहारतः कथञ्चित् सदपि धनादि वृद्ध सदात्ममौढ्यवृद्ध्यर्थमेव भवतीति विदानस्य विदस्तदृद्धावपि का तुष्टिः ? आत्महानिमेवोत्पश्यतो नास्य तुष्टिरुदेतीत्याशयः, तदाह - यथा शोफस्य पुष्टत्वं यथा वा वध्यमण्डनम् / तथा जानन् भवोन्माद-मात्मतृप्तो भवेन्मुनिः - इति (ज्ञानसारे) / इत्थञ्च / यैरेव जायते रागो, मूर्खस्याधिकतां गतैः / तैरेव भागैः प्राज्ञस्य, विराग उपजायते // 5-169 // तेषु शोफादिसादृश्यदर्शित्वात्तस्येत्याशयः / एवमानुषङ्गिकमभिधाय पुनरपि प्रक्रान्ताय सङ्कल्पविलयायैवोपदेष्टि भावनाभावमात्रेण, सङ्कल्पः क्षीयते स्वयम् / सङ्कल्पेनैव सङ्कल्पं, मनसैव मनो मुने ! // 5-183 // FEFFFFFFFFFFFFFFFFER 107 Page #110 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना छित्त्वा स्वात्मनि तिष्ठ त्वं, किमेतावति दुष्करम् / यथैवेदं नभः शून्यं, जगच्छून्यं तथैव हि // 5-184 // स्वरूपानुसन्धानमात्रसाध्यस्य तवात्यन्तमनुपयोगितया फल्गुत्वेनासत्प्रायत्वात् / एतदेव नभसः शून्यत्वं यद्घटादिवज्जलसन्धारणादिप्रयोजनेष्वनुपयोगित्वम्, तच्चेदात्मप्रयोजनमाश्रित्य घटादिपदार्थसार्थात्मके जगत्यपि समानम्, तदा तुल्यन्यायात्तस्यापि शून्यत्वं दुरपह्नवमेव / स एष ऋजुसूत्रनयाभिप्रेतः पन्थाः, यत्र परकीयमात्रस्यासत्त्वम्, अनुपयोगित्वादेव / इतोऽपि जगतः शून्यत्वम्, स्वप्नाद्युपमत्वेनास्य प्रागुपपादितत्वात्, तच्छून्यत्वे चाऽविगानात् / तदेतत्तत्त्वसंवेदनसम्पन्नस्य यदा विश्वाम्बरयोरविशेष एव, तदा परमौदासीन्यमेवावशिष्यते, रागादिनिबन्धनविरहात् / सेयं भवजलधिनौः प्रशान्तवाहिता परमानन्दस्यन्दिनी जीवन्मुक्त्यनुभूतिपदवी, यस्यै स्पृह्यन्ति देवेन्द्रा अपि, यां प्राप्य च कृतकृत्यो भवति योगी, अभिहितञ्च - यत्पदं प्रेप्सवो दीनाः, शक्राद्याः सर्वदेवताः / अहो तत्र स्थितो योगी न हर्षमुपगच्छति - इति (अष्टावक्रगीतायाम् ) / अथैवं तत्त्वसंवेदनमात्रेणाभिमतसिद्धिसम्भवे विफलमेव सर्वमपि क्रियानुष्ठानम्, परिणामियं पमाणं (ओघनिर्युक्तौ) - इत्याद्यागमसंवादोपलम्भाच्च, किञ्च परैरपि-ज्ञानान्मुक्तिः (साङ्ख्यसूत्रे) - इति प्रतिपन्नम्, अतः क्रियाक्लेशमपहाय 108 Page #111 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना तत्त्वज्ञान एव यतितव्यमिति / मैवम्, ज्ञानस्यापि क्रियाजननद्वारेण मुक्तिहेतुत्वोपगमात्, वस्तुत उभयसमुच्चयस्यैव सिद्धिसाधकत्वात्, रथन्यायादन्धपङ्गनिदर्शनाच्च, यदागमः - हयं नाणं कियाहीणं हया अन्नाणओ किया। पासंतो पंगुलो दड्डो धावमाणो अ अंधओ // संजोगसिद्धीइं फलं वयंति न हु एगचक्केण रहो पयाइ / अंधो य पंगू य वणे समिच्चा ते संपउत्ता नगरं पविट्ठा - इति ( आवश्यकनियुक्तौ ) / न चैवं-ज्ञानेनैव हि संसारविनाशो नैव कर्मणा - (रुद्रहृदयोपनिषदि) - इत्यादिवचसां का गतिरिति वाच्यम्, तात्पर्यावगमात्सद्गतेरेव सद्भावात् / तथा च 'नैव कर्मणे'त्यत्र ज्ञानशून्यान्धक्रियातुल्यानुष्ठानेन संसारविनाशो नैव सम्भवति, तत्सम्भव एवमेव सर्वेषामपि यत्किञ्चिदनुष्ठानयोगेन सिद्धिप्रसङ्गादित्याशयः / कारुणिका हि शास्त्रकारा यथाशिष्यमुपनिषदमुपदिशन्ति / अतो यो ह्यन्धक्रिययैव तोषमुपगच्छन्नात्मानं मुक्तिसाधकं मन्यते, तम्प्रत्येष उपदेशः, यन्न ज्ञानेन विना तव कल्याणम्, कन्यां विना विवाहासम्भववत्, तदुक्तम् - उपासनां विना ज्ञानात् केवलाच्चेद् विमुक्तता / कन्यां विना विवाहस्स्यात् केवलेन वरेण हि - इति (रामगीतायाम् ) / अतः क्रियाया अपि मुक्तिसाधकत्वमभ्युपेयम् / एतदाशयेनैवाह तण्डुलस्य यथा चर्म, यथा ताम्रस्य कालिमा / नश्यति क्रियया विप्र, पुरुषस्य तथा मलम् // 5-185 // 109 Page #112 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना जीवस्य तण्डुलस्येव, मलं सहजमप्यलम् / नश्यत्येव न सन्देह-स्तस्मादुद्योगवान् भवेत् // 5-186 // ज्ञानक्रियासमुच्चये सर्वज्ञनिर्दिष्टे यतितव्यं मुमुक्षुणेत्यत्रोपदेशसर्वस्वम्, तदार्षम् - नाणकिरियाहिं मोक्खो - इति (विशेषावश्यकभाष्ये), अन्यत्रापि - उभाभ्यामेव पक्षाभ्यां यथा खे पक्षिणां गतिः / तथैव ज्ञानकर्मभ्यां जायते परमं पदम् // केवलात् कर्मणो ज्ञानान् न हि मोक्षोऽभिजायते / किन्तूभाभ्यां भवेन्मोक्षः साधनं तूभयं विदुः- इति (योगवाशिष्ठे) / अस्यैव - ज्ञानक्रियासमुच्चयस्य सन्तताभ्यासेन स्वरूपसंवेदनविशुद्धेर्यत्पर्यवस्यति, तदाह सर्वत्राहमकर्तेति, दृढभावनयाऽनया / परमामृतनाम्नी सा, समतैवावशिष्यते // 6-2 // कर्तबुद्धिर्हि सर्वाहङ्कारममकारादिवैषम्यैकजननी, तदभावे च तदभावात् पारिशेषनीत्या समतामृतसिद्धिरिति न किञ्चिदनुपपन्नम् / तत्सिद्धौ च यद् भवति, तदाचष्टे समता सर्वभावेषु, याऽसौ सत्यपरा स्थितिः / तस्यामवस्थितं चित्तं, न भूयो जन्मभाग्भवेत् // 6-4 // 萬萬萬萬萬萬萬鲁習習習習習習当当 Page #113 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना 00000000 वैषम्यमात्रप्रभवत्वात्पुनर्भवस्य / अत एव साम्यशिखरिशिखरदशामेवोपदेष्टि अथवा सर्वकर्तृत्वमकर्तृत्वं च वै मुने ! / सर्वं त्यक्त्वा मनः पीत्वा, योऽसि सोऽसि स्थिरो भव // 6-5 // किलाकर्तृत्वभावनेऽप्येतद्विभावनकर्तृत्वेन स्वसंवेदने सति स एव कर्तृबुद्ध्यादिलक्षणप्रत्यपायप्रसक्तिः, अतोऽथवेत्यादिनाऽयं पक्षोऽपि प्रदर्शितः / अत एवाभिहितम्-नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन - इति ( अध्यात्मसारे) / तदिदमेव मन:पानं यत्तत्कायवाप्रवृत्त्याः सांसिद्धिकरूपेण भावेऽपि मनसो निरुपलेपता, आत्मपीतत्वेनासत्प्रायतां नीतत्वात् / योऽसीत्यादि, यत्किञ्चिद्भवनेच्छाया एव साध्यपरिपन्थितया त्याज्या सेति भावः, यदाह - मूढो नाप्नोति तद् ब्रह्म यतो भवितुमिच्छति / अनिच्छन्नपि धीरो हि परब्रह्मस्वरूपभाक् - इति (अष्टावक्रगीतायाम् ) / ततोऽपि शेषस्थिरसमाधानो, येन त्यजसि तत्त्यज / चिन्मनः कलनाकारं, प्रकाशतिमिरादिकम् // 6-6 // शेषस्थिरसमाधानः, कर्त्तव्यादिमतेरपासनान्निश्चलसमाधेरेवावशिष्टत्वात्, येन - कर्त्तव्यत्यागगोचरसूक्ष्ममनसा, त्यजसि - तत्तत्स्थूलमति परिहरसि, तत् प्रकाशतिमिरादिकं कलनाकारं चिन्मनः - चित्स्वरूपसम्प्राप्त्यनुगुणं 10000000 111 Page #114 -------------------------------------------------------------------------- ________________ महोपनिषद् मनोऽपि त्यज, तस्यापि त्वत्स्वरूपसाधने करणमात्रतया त्वत्स्वरूपत्वायोगात्, व्यतिरिक्तत्वात् / इत्थञ्च वासनां वासितारं च, प्राणस्पन्दनपूर्वकम् / समूलमखिलं त्यक्त्वा, व्योमसाम्यः प्रशान्तधीः // 6-7 // हृदयात्सम्परित्यज्य, सर्ववासनपङ्क्तयः / यस्तिष्ठति गतव्यग्रः, स मुक्तः परमेश्वरः // 6-8 // व्योमसाम्यः, वासनादितत्तदुपाधिविगमे गगनसादृश्यस्यैवावशिष्टत्वात्, सत्तामात्रत्वयोगात्, स चैवम्भूतो मुक्त | एव, एतदन्यत्तत्स्वरूपाभावात्, अत एवासौ परमेश्वरः, स्वातन्त्र्यावाप्ततत्पदत्वात्, यदुक्तम् - स्वातन्त्र्यात्सुखमाप्नोति 9 स्वातन्त्र्याल्लभते परम् / स्वातन्त्र्यान्निवृत्तिं गच्छेत् स्वातन्त्र्यात् परमं पदम् - इति (अष्टावक्रगीतायाम्) / तस्मात् यदस्तीह तदस्तीह, विज्वरो भव सर्वदा / यथाप्राप्तानुभवतः, सर्वत्रानभिवाञ्छनात् // 6-14 // यदस्तीह किञ्चिदपि शीतोष्णादिप्रयुक्तं सुखादि, तदस्तीह, सदसत्करणेऽप्रत्यलत्वात्तव, तस्मात् सर्वदा - मरणान्तोपसर्गोपनिपातादिकालेऽपि, विज्वरः - आत्माश्रितकर्तृत्वमतिलक्षणज्वरविनिर्मुक्तो भव, तत्त्वतस्तन्मात्रपर्यवसितत्वाद् 學得离强离魯魯魯魯萬萬萬萬萬萬萬萬萬萬萬 Page #115 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना भवरोगस्य। नैष ज्वरो विरागभावनाप्रकर्षमन्तरेणापनेतुं शक्य इति तमेवोत्पादयति उत्थितानुत्थितानेता-निन्द्रियारीन् पुनः पुनः / __हन्याद्विवेकदण्डेन, वज्रेणेव हरिगिरीन् // 6-21 // विवेकः - सर्वविषयव्यतिरिक्तस्वस्वरूपसंवेदनम्, स एव दण्डः - शब्दादिविषयप्रवृत्तिप्रतिबन्धकत्वेन हृषीकौघप्रहारप्रहरणकल्पः, तेन पुनः पुनः - बिभेषि यदि संसारान् मोक्षप्राप्ति च काङ्क्षसि / तदिन्द्रियजयं कर्तुं स्फोरय स्फारपौरुषम् - इति (ज्ञानसारे) शास्त्रोपदेशसंस्मरणेन भूयो भूयः, उत्थितानुत्थितान् - 'विषयसान्निध्यतत्स्मृत्यादिना तदभिमुखभावमापन्नान्, वीप्सा सकृदपि तदुपेक्षाप्रतिषेधार्थम्, तल्लेशस्यापि महत्प्रत्यपायप्रसूत्वात्, यदार्षम् - इंदिय-धुत्ताणमहो तिलतुसमित्तं पि देसु मा पसरं / जइ दिन्नो तो नीओ जत्थ खणो वरसकोडिसमो - इति (इन्द्रियपराजये), हन्यात् - निगृह्णीयात् / अत्रैव निदर्शनमाह वज्रेणेव हरिगिरीन इति / अपि च संसाररात्रिदुःस्वप्ने, शून्ये देहमये भ्रमे / सर्वमेवापवित्रं तद्, दृष्टं संसृतिविभ्रमम् // 6-22 // 鲁鲁兽兽兽兽兽兽兽兽兽兽兽兽兽兽萬萬萬萬萬萬 113 Page #116 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना संसार एव रात्रिः संसाररात्रिः, अज्ञानान्धकारश्यामिकादिसाधर्म्यात्, तस्यां दु:स्वप्नमिव दुःस्वप्नम्, सर्वानिष्टनिलयत्वात्, तस्मिन् शून्ये, स्वप्नरूपतयैव वस्तुतो रिक्ते, देहमये भ्रमे - सर्वभ्रान्त्येकमूलतया भ्रमत्वेन व्यपदिष्टे शरीरे, एतदेवाह संसृतेः- नारकादिसमस्तसंसारस्य विभ्रमो यस्मात् तत् - संसृतिविभ्रमम्, भ्रान्त्युत्थितस्य कथञ्चिदनुभूयमानत्वेऽपि परमार्थतो विभ्रमत्वानतिक्रमात्, तत् सर्वमेवापवित्रं दृष्टम्, भ्रमस्यैव वस्तुतोऽमेध्यतमत्वेन तद्विकारस्य सुतरां तादृशत्वात् / इतोऽप्यत्र पावित्र्याभावः, द्वादशनवबिलावधिसन्ततनिर्गच्छन्मलत्वात्, उक्तञ्च - द्वादशनवरन्ध्राणि | निकामं, गलदशुचीनि न यान्ति विरामम् / यत्र वपुषि तत् कलयसि पूतं मन्ये तव नूतनमाकूतम् - इति (शान्तसुधारसे)। किञ्च 1933333333333333333 अज्ञानोपहतो बाल्ये, यौवने वनिताहतः।। शेषे कलत्रचिन्तार्तः किं करोति नराधमः ? // 6-23 // आत्महितानुगुणाभियोगावकाशस्यैवाभावान्न किञ्चित्तत् करोति किम्पुरुष इत्याशयः / अपि च सतोऽसत्ता स्थिता मूलि, रम्याणां मूर्ध्यरम्यता / सुखानां मूनि दुःखानि, किमेकं संश्रयाम्यहम् ? // 6-24 // 114 Page #117 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना 萬萬萬萬萬萬葛葛葛葛魯魯灣萬萬萬萬萬 एकग्रहेऽप्यन्यग्रहस्याशक्यपरिहारतया सदादिनाऽप्यलं मम, आत्मतृप्तेरेव मदिष्टसाधकत्वादिति हृदयम् / किञ्च सर्वमपि दृश्यमानं सुखमवश्यं तु हातव्यमेव मरणकाले दुर्निवारं च तदित्यभिप्रायेणाह येषां निमेषणोन्मेषौ, जगतः प्रलयोदयौ / तादृशाः पुरुषा यान्ति, मादृशां गणनैव का ? // कीटकल्पत्वान्मादृशानां न काऽपि गणनैवेत्यर्थः, उक्तञ्च - ये षट्खण्डमहीमहीनतरसा निर्जित्य बभ्राजिरे, ये च स्वर्गभुजो भुजोर्जितमदा मेदुर्मुदा मेदुराः / तेऽपि क्रूरकृतान्तवक्त्ररदनैर्निर्दल्यमाना हठा-दत्राणा शरणाय हा दश दिश: प्रेक्षन्त दीनाननाः - इति (शान्तसुधारसे) / एवञ्च संसार एव दुःखानां, सीमान्त इति कथ्यते / तन्मध्ये पतिते देहे, सुखमासाद्यते कथम् ? // सागरपतितस्यानार्द्रभावासादनासम्भववदस्याप्यसम्भव एवेति तात्पर्यम्, यदाह - संसारवर्त्यपि समुद्विजते विपद्भ्यो, यो नाम मूढमनसां प्रथमः स नूनम् / अम्भोनिधौ निपतितेन शरीरभाजा, संसृज्यतां किमपरं सलिलं विहाय ? - इति / यत एवम्, अतः Page #118 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना मा खेदं भज हेयेषु, नोपादेयपरो भव / हेयादेयदृशौ त्यक्त्वा, शेषस्थः सुस्थिरो भव // 6-28 // हेयेषु खेदं मा भज, वस्तुतस्तव हेयस्यैवाभावात्, तदभावोऽपि गृहीतस्यैवाभावात्, त्यागस्य च ग्रहणपूर्वकत्वदर्शनात्, अत एव नोपादेयपरो भव, त्वदभिमतस्योपादानस्य तत्त्वदृष्ट्या भ्रान्तिमात्रपर्यवसितत्वात्, स्वसंवेद्यमात्रस्वरूपस्य तव त्वद्व्यतिरिक्तविश्वविश्ववस्तुविसरस्याग्राह्यत्वात्, गृहीतस्य च कल्पान्तेऽप्यशक्यमोक्षत्वात्, स्वरूपभूतत्वात्, अन्वाह - यदग्राह्यं न गृह्णाति गृहीतं नापि मुञ्चति / जानाति सर्वदा सर्वं तत् स्वसंवेद्यमस्म्यहम् - इति (नियमसारवृत्तौ)। तस्मात् हेयादेयदृशौ - एतत्त्यजामि, एतत्त्वाददामीति मिथ्याभिप्रायौ, त्यक्त्वा - सर्वसंसारसवितृरूप एत इत्यवगमेन परिहृत्य तदुक्तम् - हेयोपादेयता यावत् संसारविटपाङ्करः - इति (अष्टावक्रगीतायाम् ), शेषस्थः - मिथ्याभिप्रायप्रकरापगमावशिष्ट-स्वरूपमात्रसम्प्रतिष्ठितः, अत एव सुस्थिर: - वासनासमीरागम्यत्वेन सुतरां निश्चलो भव, एतद्भवनस्यैव भवाभाव-रूपत्वेन त्वत्साध्यरूपत्वात्, गुणसमुदयोदयरूपत्वात्तस्य / एतदेव व्यासतो व्याचष्टे Page #119 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना निराशता निर्भयता, नित्यता समता ज्ञता / निरीहता निष्क्रियता, सौम्यता निर्विकल्पता // 6-29 // धृतिमैत्री मनस्तुष्टि-घृदुता मृदुभाषिता / हेयोपादेयनिर्मुक्ते, जे तिष्ठन्त्यपवासनम् // 6-30 // हेयोपादेयदृशोरेव परमार्थत आशादिरूपत्वात् / तस्मात् दृश्यमाश्रयसीदं चेत्, तत्सच्चित्तोऽसि बन्धवान् / दृश्यं सन्त्यजसीदं चेत्, तदाऽचित्तोऽसि मोक्षवान् // 6-35 // चेत् - यदि, इदम् - पुरस्तादवस्थितम्, दृश्यम् - वीक्ष्यमाणं स्त्र्यादि वस्तु, आश्रयसि - हेयोपादेयमतिभ्यामवलम्बयसि, तत् - ततः, सच्चित्तोऽसि - अद्यापि जाग्रन्मनोविकारोऽसि, ततस्त्वं बन्धवान् असि, विचार्यमाणस्य बन्धलक्षणस्य हेयोपादेयमतिलक्षणचित्त एव पर्यवसानात् / मुमुक्षुणा तु स्वगोचरोल्लेखमात्रस्याप्यहङ्कारतया न कर्त्तव्यः संसर्गः, तदेतरवस्तुहेयोपादेयचिन्तायास्तु कथैव केत्याशयेनाह 117 Page #120 -------------------------------------------------------------------------- ________________ महोपनिषद् | अध्यात्मदर्शना नाहं नेदमिति ध्यायंस्तिष्ठ त्वमचलाचलः / आत्मनो जगतश्चान्तईष्टदृश्यदशान्तरे // 6-36 // नाहम् इत्यनेन देहादिगोचराहङ्कारप्रतिषेधः, नेदम् इत्यनेन विश्वविश्ववस्तुगोचरममकारप्रतिषेधः, एतौ च परमार्थतो मोहप्रतिषेधपरौ दृष्टव्यौ, तन्मन्त्रप्रतिपक्षरूपत्वात्तयोः, अन्वाह - अहं ममेति मन्त्रोऽयं मोहस्य जगदान्ध्यकृत् / अयमेव हि नपूर्वः प्रतिमन्त्रोऽपि मोहजित् - इति (ज्ञानसारे) अनादिकालस्वभ्यस्तो ह्युक्तो मोहमन्त्रः, अतो नाल्पसाधनसाध्यस्तत्प्रतिमन्त्रः, बलवद्विपक्षस्याल्पबलासाध्यत्वदर्शनात्, अत आह - इति - उक्तमोहमन्त्रम्, त्वमचलाचलः, पर्वतवन्निष्पन्दतयेत्यर्थः, ध्यायन् - सन्ततमेवैकाग्रतयानुस्मरन् तिष्ठ - तत्प्रतिकूलनिमित्तानि दूरतः परिहरन् तदनुगुणैकवृत्तिर्भूयाः, यत्र स्थानेनैतत् सम्भवति तदपि दर्शयन्नाह - आत्मन इत्यादि, तथा च किल दृष्टेहमित्यपि चक्षुष्करणकात्म्याध्यवसायतो मिथ्याऽहङ्कारः, किल दृश्यमहमित्यपि जडात्मभावनात्मकतया घोरतराऽहङ्कारः, मत्सम्बन्धि मदीयमेतद्देश्यमित्याकलनमपि ममकारात्मको मोहविकारः, अत उभयान्तरव्यवस्थिता दृङ्मात्रतैव श्रेयसी, एवमेव साक्षितासमायोगाज्जीवन्मुक्तिसञ्चरसम्प्राप्तेविदेहमुक्तिलाभात्, उक्तञ्च - दृष्टदृगात्मता मुक्तिदृश्यैकात्म्यं भवभ्रमः - इति / एतदेव स्फुटतरमाह - 118 Page #121 -------------------------------------------------------------------------- ________________ महोपनिषद् | अध्यात्मदर्शना दर्शनाख्यं स्वमात्मानं, सर्वदा भावयन् भव / स्वाद्यस्वादकसन्त्यक्तं, स्वाद्यस्वादकमध्यगम् // 6-37 // नात्मा दृष्टा, निष्क्रियस्येक्षणक्रियाकर्तृत्वानुपपत्तेः, नापि दृश्यम्, रूपिणः पुद्गला इत्युक्तेश्चर्मचक्षुषा दृश्यमानस्य | सर्वस्यापि पुद्गलतया जाड्यानतिक्रमात्, आत्मनश्च चेतनत्वात्, अतो दर्शनमात्रतैवात्मन उपपद्यते, इत्थमेव साक्षि स्वभावसिद्धेः / एतच्चात्मस्वरूपमपरिभावनेन तिरोभूयते, तद्भावनेन चाऽऽविर्भवतीति तद्भावनोपदेशः / उक्तञ्च - दृष्टदर्शन-दृश्यानि त्यक्त्वा वासनया सह / दर्शनप्रथमाभासमात्मानं केवलं भज - इति ( मैत्रेय्युपनिषदि)। एतदेव प्रकारान्तरेणाह - स्वाद्येत्यादि / भावयेति वर्तते / एवञ्च स्वदनं केवलं ध्यायन्, परमात्ममयो भव / अवलम्ब्य निरालम्ब, मध्ये मध्ये स्थिरो भव // 6-38 // साक्ष्येव परमात्मा, स चोक्तरीत्या दर्शनापराभिधानस्वदनानतिरिक्तः, साक्षितामात्रविग्रहत्वात्, सर्वोपाधिशून्यत्वात् / अयमेव च निरालम्बतत्त्वम्, परनिरपेक्षसत्ताकत्वात्, अत एतदेवाऽऽलम्ब्यम्, प्रतिपातिसमवलम्बनस्य प्रतिपातमात्रपर्यवसायित्वात्, सालम्बनानां प्रतिपातित्वानपायाच्च / मध्ये - देहाद्यशेषपरद्रव्यव्यतिरिक्तान्तर्गतपरमतत्त्वे, स्थिर: - Page #122 -------------------------------------------------------------------------- ________________ महोपनिषद् | अध्यात्मदर्शना 0000000 बाह्यनिमित्तशतैरपि चालयितुमत्यन्तमशक्यतया विनिश्चलो भव, एतत्स्थैर्यस्यैव समस्तसंसरणसमाप्तिस्वरूपतया त्वत्परमाभीष्टसिद्धिरूपत्वात् / वीप्साऽवधारणार्थम् / मध्य एव स्थिरो भव, समन्तात्सम्भ्रमणस्य भवबम्भ्रमणैकनिदानत्वेन स्वप्नेऽपि परिहार्यत्वात् / उक्तसम्भ्रमणादेवातो विरागमुत्पादयति तमेव भुक्तिविरसं, व्यापारौघं पुनः पुनः / दिवसे दिवसे कुर्वन्, प्राज्ञः कस्मान्न लज्जते ? // 6-76 // भुक्तिविरसम् - विडम्बनामात्रस्वरूपभोगक्रियारूपत्वेन तत्त्वतः सुखरसलेशविहीनम्, तमेव व्यापारौघम् - पशुक्रियाकदम्बकम्, एवकारेण नव्यत्वलवस्यापि व्यवच्छेदः, आजीवनमपि पुनरावर्तनैकगोचरत्वाद् भोगानां सुरैरपि तेष्वभिनवाऽनवाप्तेः, एतदेवाह - पुनः पुनर्दिवसे दिवसे कुर्वन् - मदनवीरेण प्रसह्य प्रेरिततया विदधन्, प्राज्ञः - अशुचिष्वङ्गनाऽङ्गेषु सङ्गताः पश्य रागिणः / वीक्षमाणा निरीक्ष्यन्ते लोलन्तः कृमयो यथा - इत्यादिवस्तुस्थित्यभिज्ञोऽपि, कस्मान्न लज्जते? शूकरकुक्कुरादिपशुयोग्यक्रियाप्रवृत्तस्यापि प्राज्ञस्य लज्जाऽननुभवो महच्चित्रम्, तत्क्रियादर्शनस्यापि प्राज्ञानां त्रपावहत्वादित्याशयः / यद्वा भुक्तिविरसमिति भुक्तौ सत्यां विरसम्, पर्यवसानोद्वेजकमित्यर्थः, यथोदितम् - निकषे विषया बीभत्स-करुण 000000000 Page #123 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना लज्जा-भयप्रायाः - इति (प्रशमरतौ) अथैवमपि प्राज्ञ इत्ययुक्तमुक्तमिह, तथाविधक्रियाप्रवृत्तानां पशुप्रायत्वोक्तावेवौचित्यात्, प्राज्ञस्य तन्निवृत्तिनियमात्, तत्त्वादेवेति चेत् ? सत्यम्, तथापि यस्यासादितज्ञानावरणक्षयोपशमतयाऽधीतबहुशास्त्रस्यापि मोहनीयोदयप्राबल्यात् तदनिवृत्तिः, तमधिकृत्योक्तव्यपदेश इति न कश्चिद्दोषः / नयान्तरविचारणायां तु तत्प्राज्ञत्वमेव न भवति, तत्फलशून्यतया वस्तुतो वराकत्वात्तस्य, तन्निवृत्तमुनीनामेव मुख्यप्राज्ञत्वोपपत्तेश्च, उक्तञ्च - कुथितकुणपगन्धं योषितां योनिरन्ध्र, कृमिकुलशतपूर्ण निर्झरत्क्षारवारि। त्यजति मुनिनिकायः क्षीणजन्मप्रबन्धः, भजति मदनवीरप्रेरितोऽङ्गी वराक: - इति / सोऽयं मोहविलासः, यतस्तज्ज्ञस्यापि तदनिवृत्तिरित्यत्र तात्पर्यम्, तदुक्तम् - अहो मोहो महामल्लो जेण अम्हारिसा वि हु। जाणता वि अणिच्चत्तं विरमंतो ण खणंपि हु - इति (इन्द्रियपराजये)। अतो दृढभावनाभ्यासाद्विरक्तव्यं सर्वविषयविसरात्, तन्मुक्तेरेव मुक्तिरूपत्वादित्याह चिच्चैत्यकलितो बन्धः, तन्मुक्तौ मुक्तिरुच्यते / चिदचैत्या किलात्मेति, सर्वसिद्धान्तसङ्ग्रहः // 6-77 // चैतन्यस्य साक्षितामात्रसमालम्बितया विषयसान्निध्येऽपि तदाकाराऽपरिणतत्वेन तन्मुक्तिर्मुक्तिः, चैतन्यविशुद्धिस्वरूपत्वात्तस्याः / अत एवोक्तपरिणतिर्बन्धः, मुक्तिविपर्यासलक्षणत्वात्तस्य / परिशुद्धमात्मस्वरूपं हि मोक्षः, Page #124 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना मा तच्चाचेत्या चिदेवेति तन्मोक्षरूपत्वे न किञ्चिदनुपपन्नम्, उक्तञ्च - यावद् यावद् मुनिश्रेष्ठ ! स्वयं सन्त्यज्यतेऽखिलम् / तावत् तावत् परालोकः परमात्मैव शिष्यते / / यावत् सर्वं न सन्त्यक्तं तावदात्मा न लभ्यते / सर्ववस्तुपरित्यागे शेष आत्मेति कथ्यते // आत्मावलोकनार्थं तु तस्मात् सर्वं परित्यजेत् / सर्वं सन्त्यज्य दूरेण यच्छिष्टं तन्मयो भव - इति (अन्नपूर्णोपनिषदि) / तस्मात् एतन्निश्चयमादाय, विलोकय धियेद्धया / स्वयमेवात्मनाऽऽत्मान -मानन्दं पदमाप्स्यसि // 6-78 // उक्तविलोकनमात्रेणैव परमानन्दनिजस्वरूपप्रादुर्भावध्रौव्यात् / कृतिरियं जैनाचार्यश्रीप्रेम-भुवनभानु-पद्म-हेमचन्द्रसूरीश्वरशिष्य-आचार्यकल्याणबोधेः कर्मारिशून्यनेत्रे (2068) वैक्रमेऽब्देऽश्विन्सितनवमीदिने श्रीपार्श्वनाथ-जैन-सङ्घ श्रीआदि-सीमन्धरजिनपुनितसान्निध्ये ___ समोपनगरे वडोदरानगरे सम्पन्नेति शम् / मिथ्याऽस्तु दुरुक्तं मम / शोधयन्तु कृतकृपा बहुश्रुताः / 122 Page #125 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्मदर्शना 萬萬萬萬萬萬萬萬萬葛葛魯魯魯灣讀過萬萬萬 अथ महायोगीश्रीआनन्दघनरचितकतिपयपद्यानां संस्कृतपद्यानुवादः // पद्यरत्नम्-३८ // विधत्ते तुलनां चित्तं, नागरेण नटेन मे / त्रोटिता तुलना तेन, सर्वेणाप्यपरेण तु // 1 // लोकलज्जां न वेत्त्येतत्, कुलमुद्रां च तत्यजे / हसति वञ्चयित्वाऽहो, नात्मानं विवृणोत्यपि // 2 // मुग्धां वार्ता करोत्यत्र, मातापित्रादिको जनः / सत्सङ्गं न त्यजत्येतद्रसास्वादैकलोलुपः // 3 / / उपालम्भस्तु कोऽन्यस्य ?, नैतच्चक्रे न चौरताम् / कक्षाबन्धस्तु नृत्येन, निर्वहेद् नापरेण यत् // 4 // (उपजाति) ज्ञानोदधि सम्परिमथ्य चाप्तं, प्रेमामृतं सम्पिबति मदात्मा / स चन्द्रमौलिः परिमोदते तं, समीक्षते दृष्टिसुचक्रवाकी / / 5 / / // पद्मरत्नम् - 39 // तृष्णैषा कर्मसेनेव, शस्त्री तीक्ष्णकटाक्षतः / यत्प्रहारस्य लेशोऽपि, स्यादात्मप्राणहारकः // 1 / / गणयति जरां नैषा, लोकलज्जां न पश्यति / वञ्चितोऽखिललोकोऽयं, वञ्चनापरयाऽनया // 2 / / 120 Page #126 -------------------------------------------------------------------------- ________________ महोपनिषद् | अध्यात्मदर्शना (उपजाति) वाञ्छा निजानन्दघनेऽस्ति चेत्ते, विनीयतां तत् सकलाऽपि तृष्णा / एषैव ते सम्पिबति हि सौख्य-मस्यां कथं रे तव सौख्यतृष्णा // 3 / / // पद्यरत्नम्-४० // मधुरः कान्त आभाति, ह्याभात्यम्लस्तथा जनः / कान्तहीना तु या गोष्ठी, सारण्यरुदनोपमा // 1 // कान्ते तु कार्मणं कम्र, लोके शोकस्य नावधिः / कथमेकत्र तद्वैतं ?, दुग्धाम्लाविव सम्भवेत् // 2 // कान्ताद्विना भवभ्रान्ति-सुधा तेन विना यशः / उद्ग्राहणं यथा व्यर्थं, धनं सत्यं तु ग्रन्थिगम् // 3 / / (उपजाति) कान्ताद्विना या मति मे विधुरा, सा स्तेनवृत्तेन तुलां करोति / नि:शेषतोऽस्माद्विरतोऽस्मि शेषा-देकं निजानन्दघनं श्रितोऽस्मि // 4 // ॥पद्यरत्नम्-४१ // प्रियं विना गता मूर्छा, दुःखप्रासादसंस्थिता / तद्गवाक्षावलम्बेन, प्रतीक्षकपराम्यहम् // 1 // 3900000000000000000 124 Page #127 -------------------------------------------------------------------------- ________________ महोपनिषद् | अध्यात्मदर्शना शोक्या हसन्ति मां तेन, मन:कायौ सुदुःस्थितौ / ब्रुव एकं रहस्यं तन्, मा कोऽपि स्निह्यतामिति // 2 // प्राणेश्वरं विना प्रिया-प्राणसन्धारणं कथम् ? / प्राणान् तु पिबति तस्या, यद् विरहदशोरगी // 3 // विरहाग्निरयं नाग्निः, शीतकं नात्र विद्यते / चन्दनं कुङ्कमं वापि, तापवृद्धिकरं भवेत् // 4 / / फाल्गुनपूर्णिमामात्रे, ज्वाल्यते ज्वलनो जनैः / मच्चित्ते शाश्वत: किन्तु, देहं दहति दाहकः / / 5 / / (वियोगिनी) समतावरहर्म्यसंस्थितं, वचनैकामृतशोभितं शुभम् / 'इदृशः परुषस्तु मैव भू'-रिति चानन्दघनं ब्रुवे प्रभुम् // 6 / / // पद्यरत्नम् 42 // अधुनाऽमरतां यातो, न मरिष्ये कदाप्यहम् / मिथ्यात्वं त्यक्तवान् यस्मात्तस्मान्मे न पुनर्जनुः / / 1 / / रागद्वेषौ जगद्वन्धौ, नाशयिष्याम्यहं ध्रुवम् / अनन्तशो हृतः प्राणी, कालेन तद्धरोऽस्म्यहम् / / 2 / / देहोऽयं नश्वरो नाहं, प्रपत्स्ये मद्गतिं ह्यतः / गत्वरं नश्वरं स्थिरो-ऽस्म्यहं साक्षिस्वभाववान् // 3 // मरणानामनन्तानामज्ञानमेव कारणम् / अवमन्य सुखं दुःखं, ज्ञानमेव श्रयाम्यतः ||4|| 125 Page #128 -------------------------------------------------------------------------- ________________ महोपनिषद् अध्यात्म दर्शना (ાત્રિન) मरणमिह स गन्ता विस्मरिष्यत्यदो यो, निकृतिरहितमुच्चं ह्यक्षरद्वैतमेव / निखिलमिदमतोऽहं विस्मरन्नेव विश्वं, सततमपनयेयं संस्मृति द्वन्द्वमेतत् / / 5 / / 上海鲁鲁萬萬萬萬萬萬萬萬萬萬萬萬萬萬萬 જીવનથી જ જીવન મળે છે. મૃત્યુ જ મૃત્યુનું કારણ બને છે. સ્વભાવસ્થિતિ એ જીવન છે. પરભાવગમન એ જ મૃત્યુ છે. અનંત મૃત્યુનું કારણ સાત અક્ષરનું આ જ નામ છે - પરભાવગમન. જીવવું હોય, તો એ ય આપણને સ્વાધીન છે. મરવું હોય, તો ય આપણે સ્વતંત્ર છીએ. પણ એટલું યાદ રહે, આ સ્વાધીનતા ને સ્વતંત્રતા અતિ અલ્પકાલીન છે. એનો અંત આવે, એની પહેલા યોગ્ય નિર્ણય કરી લેવા જેવો છે. ફીશીરીરીમીડીડીસી 126 Page #129 -------------------------------------------------------------------------- ________________ અધ્યાત્મ સ્તુતિ અધ્યાત્મ સ્તુતિ - પં. શ્રીવીરવિજયજી મહારાજા નારીજી મોટાને કંથજી છોટા, વળતાં લાવે પાણીના લોટા, પૂંજી વિના વેપાર જ મોટા, કરતાં આવે ઘરમાં ટોટા. 1 અર્થ:- ઉપમિતિ આદિ ગ્રંથોમાં ભવિતવ્યતાને આત્માની પત્ની કહી છે. સત્તા પત્ની પાસે છે. આત્માને એ જેમ નચાવે તેમ આત્મા નાચે છે, ભવિતવ્યતાએ અનંતભૂતકાળમાં આત્માની દુર્દશા કરી છે. પ્રત્યેક ભવના અંત સમયે = વળતા આત્મા પાણીના લોટા જ લાવ્યો છે. અર્થાત એણે કોઈ ખરી પૂંજી પામી નથી. વળી નવો ભવ એ મોટા વેપાર જેવો છે. સુખ, સલામતી વગેરે આત્માને તેનાથી મળતું નથી. કારણ કે તેની પાસે પુણ્ય-શુદ્ધિની મૂડી નથી. પછી એના ખાતામાં તોટા = પાપ રહે છે. મેરુ પર્વતે હાથી ચઢીયો, કીડીની ફુકે હેઠે પડીયો, કીડીના દરમાં હાથી પેઠો, રત્ન કહે મેં અચરિજ દીઠો. 2 મેરુ પર્વત એ અભિમાનનું પ્રતિક છે. આત્મા 14 રાજલોક પ્રદેશપ્રમાણ હોવાથી વિરાટ છે, માટે હાથી જેવો છે. એ જ્યારે અભિમાન કરે છે. ત્યારે જાણે મેરુપર્વત પર ચઢે છે. કર્મ સૂક્ષ્મ હોવાથી કર્મપરિણતિ કીડી જેવી 127 Page #130 -------------------------------------------------------------------------- ________________ અધ્યાત્મ છે. અભિમાની અવશ્ય પોતાના કર્મને અનુસારે પતન પામે છે. આ અનુસરણ = પૂંઠે આધીન થાય છે. એ કીડીના દરમાં હાથીએ પ્રવેશ કર્યો હોય તેના જેવું છે. એને જોઈને રત્ન = શ્રેષ્ઠ પુરુષો પણ એમ કહે છે કે મેં આશ્ચર્ય જોયું. સૂકા સરોવર હંસ જ મ્હાલે, પર્વત ઉડીને ગગને ચાલે, શિવસુંદરી કહે વેલ ધડૂકે, સાયર તરતાં ઝાઝા તે અટકે. 3 હંસ = મુનિ. ‘હૃક્ષો નારીયU યતિવિષે સિતzછે.' તે સૂકા સરોવરમાં હાલે છે. = ઋક્ષ ભોજનથી પણ સંતુષ્ટ રહે છે. હંસ =આત્મા. એ આત્મિક સુખને છોડીને મૃગતૃષ્ણા જેવા વૈષયિક સુખમાં રતિ કરે છે. પર્વત = અભિમાનથી અક્કડ વ્યક્તિ કર્મોદયથી એવી લઘુતા પામે છે કે એ સાવ હલકો હોવાથી આકાશમાં ઉડી જાય છે. આ પદ-પ્રતિષ્ઠા પામતો નથી (ક્ષેત્રયંબોવમો મો-પુષ્યમાતા). વેલ = ભવતૃષ્ણા (મવતી તથા પુત્તા ભીમ બનો - ઉત્તરાધ્યયન). જે એમાં અટવાય છે તે અનંત ભવસાગરનો નિસ્તાર પામતા રહી જાય છે. પંડિત એહના અર્થ જ કહેજો, નહીં તો બહુશ્રુત ચરણે રહેજો, શ્રીગુભવીરનું શાસન પામી, ખાધા-વીઘાની ન કરો ખામી. 4 પ્રશસ્ત એવું પ્રભુવીરનું શાસન પામ્યા પછી ખાધાની ખામી ન કરવી = આત્માને ગુણોથી પુષ્ટ બનાવવામાં કસર ન રાખવી, વીઘાની ખામી ન કરવી = આત્મસામ્રાજ્યની જમીન સ્વાધીન કરવા માટે પ્રચંડ પુરુષાર્થ કરવો, તેમાં પ્રમાદ ન કરવો. 第鲁鲁萬萬萬萬萬萬萬萬萬萬營萬萬萬為 128 Page #131 -------------------------------------------------------------------------- ________________ અધ્યાત્મ | સજઝાય 参餐餐餐餐餐餐餐餐婆婆變签變變變變變變 અધ્યાત્મની સઝાય - મહો. શ્રીયશોવિજયજી મહારાજા કહીએ પંડિત કોણ એ નારી, વીસ વરસની અવધિ વિચારી, દોય પિતાએ એહ નિપાઈ, સંઘ ચતુર્વિધ મનમેં ભાઈ. 1. અર્થ :- વિરતિ નારી બોધ + વર્ષોલ્લાસ દ્વારા જન્મે છે, એવું લાગે છે. 20 વર્ષના પર્યાયે સમસ્ત શ્રુતજ્ઞાતા ગીતાર્થ બનાય. એવો અધ્યયન ક્રમ છે. (પણ બહુ બેસતું નથી.) કીડીએ એક હાથી જાયો, હાથી સહામો સસલો ધાયો, વિણ દીવે અજવાનુ થાયે, કીડીના દરમાંહે કુંજર જાયે. 2 કીડી = કર્મપરિણતિ. તે સૂક્ષ્મ છે. છતાં વિરાટ આત્માનાં તે-તે પર્યાયોને જન્મ આપે છે. મોહરાજા વાસ્તવમાં દુર્બળ છે = સસલા જેવો છે. પણ આત્માના પ્રમાદથી તેની સામે તે આક્રમણ કરે છે. જ્ઞાન સૂર્ય જેવું છે. હિ જેનાથી દીવા વિના પણ લોકાલોક પ્રકાશિત થાય છે. આત્મા કર્મપરિણતિને અનુસરે છે. માટે એ કીડીના દરમાં હાથી જાય તેવું છે. 129 Page #132 -------------------------------------------------------------------------- ________________ અધ્યાત્મ વરસે અગ્નિ ને પાણી દીયે, કાયર સુભટ તણા મદ આપે, સજઝાય તે બેટીએ બાપ નિપાયો, તેણે તાસ જમાઈ જાયો. 3 ક્રોધનો ઉદય પૂર્વકોટિની ચારિત્ર સાધના પર પાણી ફેરવી દે છે. આમ અગ્નિવર્ષા પાણી દે છે. અનંત |ii આત્મશક્તિની સમક્ષ કષાયો તદન કાયર છે. છતાં ય આત્મા મૂઢ હોવાથી તેઓ શૂરવીરની જેમ અભિમાનથી જીવે છે. જ્ઞાનથી વિરતિ થાય છે. (ાનસ્થ હનં વિરતિ :- પ્રશમરતિ) આ રીતે જ્ઞાન એ પિતા, વિરતિ એ દીકરી છે. વિરતિના પાલનથી શ્રુતજ્ઞાનથી માંડીને કેવળજ્ઞાન સુધીના જ્ઞાનો મળે છે. આ રીતે દીકરી બાપને જન્મ આપે છે. વિરતિનો પતિ છે પરમાનંદ. એ વિશિષ્ટ શ્રુતજ્ઞાનાદિથી પ્રાપ્ત થાય છે. માટે વિરતિના પિતા જ તેના જમાઈને જન્મ આપે છે. મેહ વરસતાં બહુ રજ ઉડે, લોહ તરે ને તરણુ ડૂબે, તેલ ફિરે ને ઘાણી પીલાયે, ઘરંટી દાણે કરીને દલાય. 4 ધર્મ-મેઘ વરસે છે, ત્યારે કર્મજ ઉડે છે = નિર્જરા થાય છે. જે લોહ જેવો છે = વ્રતપાલનમાં દઢ છે, તે સંસારસાગરને તરે છે. ને જે તરણા જેવો = શિથિલ છે, તે ડૂબી જાય છે. જે વસ્તુ (સુખ) આત્મામાં જ છે, તેના 130 Page #133 -------------------------------------------------------------------------- ________________ અધ્યાત્મ સજઝાય $# $ $ $ $ E E RELETEL E SE ELETE TE TE TEEEE માટે જે બહારની ઉથલ-પાથલ કરે છે, તે જાણે સ્વયં તેલ જ ધાણીને પીલતું હોય તેના જેવો ઘાટ છે. કારણ કે આત્મા સ્વયં સુખસ્વરૂપ હોવા છતાં સુખ માટે મથામણ કરે છે. એ જ રીતે દાણા ઘંટી દળે એ પણ સમજવું. બીજ ફળે ને શાખા ઉગે, સરોવર આગે સમુદ્ર ન પૂરે, પંક ઝરે ને સરોવર જામે, ભમે માણસ તિહાં ઘણે વિસામે. 5 બીજ ફળે ને શાખા ઉગે, અંકુર નહીં. એ તીવ્ર વિકાસ દેખાડે છે. જ્યારે યોગબીજ (fષ શર્ત ચિત્ત તન્નમાર વ ર aa પ્રમારિ ર સંશુદ્ધ યોગા વીનમનુત્તમમ્ | યોગદષ્ટિ સમુચ્ચય) ફળે છે, ત્યારે મોક્ષમાર્ગમાં તીવ્ર વેગે વિકાસ થાય છે. આત્મા વિકાસના સોપાન સર કરે છે, ત્યારે અંતરમાં આનંદ સરોવર એવું છલકાય છે જેની તુલનામાં કોઈ દરિયો પણ ન આવી શકે. પંક = કાદવ = કર્મ એ ઝરે = આશ્રવ થાય, ત્યારે સરોવર = કર્મસંચય થાય છે. જેના આશ્રયથી = વિસામાથી જીવ 84 લાખ યોનિમાં ભ્રમણ કરે છે. પ્રવહણ ઉપરી સાગર ચાલે, હરિણ તણે બલ ડુંગર હાલે, એહનો અર્થ વિચારી કહીએ, નહીતર ગર્વ મ કોઈ કરીએ. 6 જિનાજ્ઞા એ પ્રવહણ = વહાણ છે. આખો સંસારસાગર = ભવમાર્ગ + મોક્ષમાર્ગ એના પર જ ચાલે છે. 131 Page #134 -------------------------------------------------------------------------- ________________ અધ્યાત્મ | સજઝાય કારણ કે જિનાજ્ઞા જ સંસાર + મોક્ષ બંનેનું કારણ છે. (માડડરદ્ધા વિરોદ્ધા 2 શિવાય ચ મવાય 2 - વીતરાગસ્તોત્ર) હરણ સૌમ્યતા + સરળતા. કર્મોના પહાડ પણ સરળતાથી શુદ્ધ પ્રાયશ્ચિત કરવાથી ચલિત થઈ જાય છે. (સોટ્ટી ૩ન્યૂ -ઉત્તરાધ્યયન) શ્રીનયવિજય વિબુધના શિષ્ય, કહી હરીયાલી મનહર જગાશે, એ હરીયાલી જે નર કહેશે, વાચકજશ જંપે તે સુખ લહેશે. 7. TEE EE CE RE DE E RE E RE E KE CE E fk t: tE fE E RE RE વચન નિરપેક્ષ વ્યવહાર જુઠો કહ્યો વચન સાપેક્ષ વ્યવહાર સાચો ! વચન નિરપેક્ષ વ્યવહાર સંસાર ફળ સાંભળી આદરી કાંઈ રાચો || - પ.પૂ. યોગીરાજ શ્રીઆનંદઘનજી મહારાજ કોઈ પણ પ્રશ્ન કે સમસ્યા ઉપસ્થિત થાય, ત્યારે સૂરિ પ્રેમના સહજ ઉગારો આ હતાં - “અક્ષર શું કહે છે?” આશય એ હતો, કે શાસ્ત્ર શું કહે છે? આ વિષયમાં મારા પ્રભુ શું કહે છે? #CE E KE TE RE E RE RE E CE E CE E KE KB E KE E CE Et 132 Page #135 -------------------------------------------------------------------------- ________________ अथ प्रशस्तिः (शार्दूलविक्रीडितम्) पादाङ्गुष्ठसुचालितामरगिरि-हस्तास्तदेवस्मयः, जिह्वाखण्डितशक्रसंशयचयो, वाङ्नष्टहालाहलः / सर्वाङ्गीणमहोपसर्गदकृपा-नेत्राम्बुदत्ताञ्जलिः, दाढादारितदिव्ययुत्समवतात्-श्रीवर्धमानो जिनः // 1 // (उपजाति) श्रीगौतमस्वामि-सुधर्मदेव-जम्बूप्रभु-श्रीप्रभवप्रमुख्याः / सुरीशपूजापदसूरिदेवा, भवन्तु ते श्रीगुरवः प्रसन्नाः // 2 // (वसन्ततिलका) एतन्महर्षिशुचिपट्टपरम्पराजान्-आनन्दसूरिकमलाभिधसूरिपादान् / संविग्नसन्ततिसदीशपदान् प्रणम्य, श्रीवीरदानचरणांश्च गुरून् स्तविष्ये // 3 // श्रीदानसूरिवरशिष्यमतल्लिका स, श्रीप्रेमसूरिभगवान् क्षमया क्षमाभः / सिद्धान्तवारिवरवारिनिधिः पुनातु, चारित्रचन्दनसुगन्धिशरीरशाली // 4 // (शार्दूलविक्रीडितम्) प्रत्यग्रत्रिशतर्षिसन्ततिसरित्-स्रष्टा क्षमाभृन्महान्, गीतार्थप्रवरो वरश्रुतयुतः सर्वागमानां गृहम् / तर्के तर्कविशुद्धबुद्धिविभवः सोऽभूत् स्वकीयेऽप्यहो, गच्छे संयमशुद्धितत्परमतिः प्रज्ञावतामग्रणी: // 5 // Page #136 -------------------------------------------------------------------------- ________________ तत्कालीनकरग्रहग्रहविधा-वब्दे ह्यभूद् वैक्रमे, तिथ्याराधनकारणेन करुणो भेदस्तपागच्छजः। कारुण्यैकरसेन तेन गुरुणा सत्पट्टकादात्मनो, बह्वशेन निवारितः खकरखौ-ष्ठे पिण्डवाडापुरे // 6 // (वसन्ततिलका) तत्पट्टभृद् भुवनभान्वभिधश्च सूरिः, श्रीवर्धमानसुतपोनिधिरुग्रशीलः / न्याये विशारद इतीह जगत्प्रसिद्धो, जातोऽतिवाक्पतिमति-मतिमच्छरण्यः // 7 // तस्याद्यशिष्यलघुबन्धुरथाब्जबन्धु-तेजास्तपः श्रुतसमर्पणतेजसा सः / पंन्यासपद्मविजयो गणिराट् श्रियेऽस्तु, क्षान्त्येकसायकविदीर्णमहोपसर्गः // 8 // सर्वाधिक श्रमणसार्थपतिर्मतीशः पाता च पञ्चशतसाधुगणस्य शस्यः / गच्छाधिनाथपदभृज्जयघोषसूरिः 'सिद्धान्तसूर्य'-यशसा जयतीह चोच्चैः // 9 // सद्बुद्धिनीरधिविबोधनबद्धकक्षः, वैराग्यदेशनविधौ परिपूर्णदक्षः / सीमन्धरप्रभुकृपापरपात्रमस्तु, श्रीहेमचन्द्रभगवान् सततं प्रसन्नः // 10 // कारुण्यकम्रालयानां महनीयमुख्यानां महोमालिनां लोकोपकारचतुराणां वैराग्यदेशनादक्षाचार्यदेव-श्रीमद्विजयहेमचन्द्रसूरीश्वराणां सदुपदेशेन श्रीजिनशासन-आराधना-ट्रस्ट-विहिते श्रुतसमुद्धारकार्यान्वये प्रकाशितमिदं ग्रन्थरत्नं श्रुतभक्तितः // aaaaa3萬萬萬萬萬萬萬萬萬萬萬萬萬萬遂 134 Page #137 -------------------------------------------------------------------------- ________________ सुकृत अनुमोदना जिनशासन सुकृत मुख्य आधारस्तंभ (1) श्री नयनबाळा बाबुभाई जरीवाला परिवार ह. लीनाबेन चंद्रकुमारभाई जरीवाला - मुंबई (2) श्री मूळीबेन अंबालाल शाह परिवार ह. रमाबेन पुंडरीकभाई शाह, खंभात - मुंबई (3) श्री नयनबाळा बाबुभाई जरीवाला परिवार ह. शोभनाबेन मनीशभाई जरीवाला - मुंबई (4) श्री सायरकंवर यादवसिंहजी कोठारी परिवार ह. मीनाबेन विनयचन्द कोठारी, जोधपुर - मुंबई (5) श्री हसमुखभाई केसरीचंद चूडगर - इन्टास, अहमदाबाद (6) शेठश्री कांतिलाल लल्लभाई झवेरी जिनशासन सुकृत आधारस्तंभ (1) श्री कमळाबेन कांतिलाल शाह परिवार ह. बीनाबेन कीर्तिभाई शाह (घाटकोपर-संघाणी) (2) श्री जागृतिबेन कौशिकभाई बावीसी, डालीनी जयकुमार महेता, म्हेंक (प्रेरक : प.पू.आ. श्रीमद्विजय हेमचंद्रसूरीश्वरजी महाराजा) Page #138 -------------------------------------------------------------------------- ________________ श्रुतोद्धार मुख्य आधारस्तंभ श्री माटुंगा श्वेताम्बर मूर्तिपूजक जैन संघ - मुंबई / (7) श्री मुलुन्ड श्वे. मू. जैन संघ, मुंबई श्री अठवालाईन्स श्वेताम्बर मूर्तिपूजक जैन संघ अने (प्रेरक : प.पू.आ. श्रीमद्विजय हेमचंद्रसूरीश्वरजी महाराजा) श्री फूलचंद कल्याणचंद झवेरी ट्रस्ट, सुरत (8) श्री शंखेश्वर पार्श्वनाथ श्वे. पू. तपा. जैन संघ, घाटकोपर (ई) मंबई श्री गोवालिया टेन्क जैन संघ - मुंबई (9) श्री सहसावन कल्याणक भूमि तीर्थोद्धार समिति, जूनागढ (प.पं. चंद्रशेखर वि. श्री नवजीवन श्वेताम्बर मूर्तिपूजक जैन संघ - मुंबई म.ना शिष्य पू.मुनिश्री धर्मरक्षित वि. तथा पू. मुनिश्री हेमवल्लभवि नी पंन्यास पदवी निमित्ते) श्री यशोविजय जैन संस्कृत पाठशाला तथा (10) श्री जवाहरनगर श्वे. मू. जैन संघ, गोरेगाव, मुंबई. (प्रेरक : प्रेमश्री जैन श्रेयस्कर मंडल, महेसाणा भुवनभानुसूरि समुदायना राजप्रभावक प.पू.आ.श्री रत्नसुंदरसूरीश्वरजी महाराजा) (6) श्री दादर जैन पौषधशाला ट्रस्ट संचालित ॐ श्री दादर आराधना भवन जैन श्वे.मू. तपा. संघ " श्रुतोद्धार आधारस्तंभ (1) श्री के. पी. संघवी चेरिटेबल ट्रस्ट - (4) श्री नडियाद श्वेताम्बर मूर्तिपूजक जैन संघ - नडियाद संचालित श्री पावापुरी तीर्थ जीवमैत्री धाम (प्रेरक : प.पू. आ.श्रीमद्विजय हेमचंद्रसूरीश्वरजी महाराजा) (प्रेरक : प.पू. आ.श्रीमद्विजय कल्याणबोधिसूरि म.सा.) (5) श्री बाबुभाई सी. जरीवाला चेरिटेबल ट्रस्ट ह. श्री आदिनाथ जैन संघ, (2) श्री हेमचंद्राचार्य जैन ज्ञान मंदिर, पाटण वडोदरा (प्रेरक : प.पू. आ.श्रीमद्विजय हेमचंद्रसूरीश्वरजी महाराजा) (3) श्री मनफरा श्वेताम्बर मूर्तिपूजक जैन संघ - मनफरा (6) श्री जैन श्वेताम्बर मूर्तिपूजक संघ, सायन (शिव) मुंबई (प्रेरक : प.पू. आ.श्रीमद्विजय कलाप्रभसूरीश्वरजी महाराजा) (7) श्री रिद्धि-सिद्धि वर्धमान हाईट्स श्वे.मू.जैन संघ, भायखला, मुंबई (प्रेरक : प.पू. मुनिश्री जिनप्रेमवि.म.सा.) 83. A33333333333339933. म 136 Page #139 -------------------------------------------------------------------------- ________________ (8) श्री आदिनाथ सोसायटी जैन टेम्पल ट्रस्ट, पूना (16) श्री कस्तुरधाम-पालीताणा (प्रेरक : प.पू.पं. श्री भद्रंकरविजयजी (प्रेरक : प.पू.पं. श्रीअपराजित वि. गणिवर्य) शिष्य आ. श्रीकुंदकुंदसूरिशिष्य-प.पू.पं. श्रीवज्रसेनविजयजी म.सा.) श्री मुलुन्ड श्वे.मू. तपागच्छ समाज, मुंबई (प्रेरक : प.पू.पं. (17) श्री साबरमती श्वे.मू.जैन संघ, रामनगर, अमदावाद श्रीहिरण्यबोधि वि.म.सा., प.पू.मुनिश्री हेमदर्शन वि.म.सा.) (प्रेरक : प.पू.आ. श्रीमद्विजय कल्याणबोधिसूरीश्वरजी म.सा.) (10) श्री विक्रोली संभवनाथ जैन श्वे.मू. संघ, विक्रोली (ई.), मुंबई (18) श्री गांधीनगर श्वे.मू.जैन संघ (प्रेरक : प.पू.मुनिराजश्री अभयरत्न (प्रेरक : प.पू.मुनिश्री यशकल्याण वि.म.सा., प.पू.मुनि तीर्थप्रेम वि.म.सा.) (11) श्री विश्वनंदीकर जैन संघ, भगवान नगरनो टेकरो, अमदावाद (वि.म., मुनिश्री रत्नबोधि वि.म., प.पू. मुनिश्री मुक्तिप्रेम वि.म.) (प्रेरक : प.पू.आ.श्रीमद्विजय जगच्चंद्रसूरीश्वरजी म.सा.) (19) श्री भवानीपुर श्वे.मू.संघ, कलकत्ता (12) श्री आदीश्वरजी महाराज मंदिर ट्रस्ट, श्री दशा ओसवाल सिरोहीया (20) श्री कल्याणजी सौभागचंदजी जैन पेढी, पीडवाडा साथ गोटीवाला धडा, पूना (प्रेरक : प.पू. मुनिश्री अभयरत्न वि.म.सा.) (प्रेरक : प.पू.आ.श्री हेमचंद्रसूरीश्वरजीम., प.पू.आ.श्री कल्याणबोधिसूरिम.) (13) श्री गोडी पार्श्वनाथजी टेम्पल ट्रस्ट, पूना (21) श्री महेसाणा उपनगर जैन संघ (प्रेरक : प.पू.आ.श्रीमद्विजय कल्याणबोधिसूरीश्वरजी म.सा.) (प्रेरक : प.पू.आ. श्री हेमचंद्रसूरीश्वरजी म.सा.) (14) श्री कस्तूरधाम, पालीताणा, प.पू.आ.श्री हेमप्रभसूरीश्वरजी म.सा.नी (22) श्री पार्श्वनाथ श्वे.मू.जैन संघ, संघाणी, घाटकोपर, मुंबई. आचार्यपदवी निमित्ते (प्रेरक : प.पू.पं. श्री वज्रसेन वि. गणिवर्य) (प्रेरक : प.पू.आ.श्री हेमचंद्रसूरीश्वरजीम.,प.पू.आ.श्री कल्याणबोधिसूरिम.) (15) श्री शाहीबाग गिरधरनगर जैन श्वेताम्बर मूर्तिपूजक संघ, अमदावाद. (23) श्री उमरा श्वे.मू. जैन संघ, सुरत (प्रेरक : प.पू. आ.श्रीमद्विजय कल्याणबोधिसूरि म.सा.) शासन सुकृत रजतस्तंभ (1) श्री वाडीलाल पोपटलाल वसा परिवार (धोराजीवाला) GEEEEEEEEEEEEEEEEEEE 137 Page #140 -------------------------------------------------------------------------- ________________ // वर्धमानतपोनिधि प.पू.आ.श्रीकल्याणबोधिसूरिभिलिखितम् / संशोधितम् / सम्पादितम् वाङ्मयम् // सिद्धान्तमहादधिः 19. सूनोपनिषद 39. इष्टोपनिषद् | 57. आगमनी आछी झलक | 75. बोरोपनिषद् भुवनभानवीयम् 20. कर्मोपनिषद 40. विमोहोपनिषद-१ 58. जैन जयति शासनम् 6. आचागेपनिषद् ममतामागरः 21. विशेषोपनिषद 41. विमाहोपनिषद्-२ 51. आइ आइरे अंजनशलाका 77. -100 आनंदघननी परमप्रतिष्ठा हिंसोपनिषद् श्रामण्योपनिषद् 60. पज्ञकोपनिषद् आत्मानुभूति पद 1-> 41 जीरावलीयम् 23.. अहिंसोपनिषद सफलता- सग्नामुं 61. अवधूतोपनिषद 101. स्टोरी स्टोरी प्रेममन्दिरम् 24. धर्मोपनिषद् 44. प्रसन्नतानी परब 62. दुःपमोपनिषद् 102, डायमंड डायरी छन्दोऽलङ्कारनिरूपणम् शमोपनिषद् सूत्रोपनिषद् 63. प्रथमोपनिषद् 103. लाइफ स्टायल तन्वोपनिषद् लोकोपनिषद प्रव्रज्योपनिषद् 64. अर्हन्नामसहस्त्रसमुच्चय 104. एन्जोय जैनीझम 1. वादोपनिषद आत्योपनिषद् 47. देशनोपनिषद उपासनोपनिषद् 105. नवपद संवेदना वेदोपनिषद् 28. साम्योपनिषद 48. जीरावला जुहारीए 66. सुखोपनिषद् 106. वेदनाना शिखरे शिक्षोपनिषद् 21. आगमोपनिषद् 41. अम्पर्शोपनिषद 67. दयोपनिषद 107. हितशिक्षा छत्रीशी म्नवोपनिषद 30. स्तोत्रोपनिषद् हितोपनिषद 68. शङ्केश्वरस्तोत्रम् 104. श्रुतश्रेणि 13. मत्वोपनिषद 31. दर्शनोपनिषद्-१ उपदेशोपनिषद 69. दानोपनिषद् 109. सज्ञोपनिषद् 14. देवधर्मोपनिषद् 32. दर्शनोपनिषद-२ प्रार्थनोपनिषद 70. ध्यानोपनिषद 110, मोहोपनिषद पग्मोपनिषद 33-5. गमायण सबोधोपनिषद 71. पज्ञसूत्रोपनिषद 111. आनन्दोपनिषद् 16. आर्षोपनिषद३६. जानोपनिषद अङ्गोपनिषद-१ 72. पूर्णोपनिषद् 112. बोधोपनिषद् 17. आर्थोपनिषद-२ 37. मम्बोधोपनिषद्-१ अङ्गोपनिषद-२ 73. प्रग्नोपनिषद् 113. विकारनिरोधः 18. वंगग्योपनिषद् 38. सम्बोधोपनिषद-२ 56. वर्गोपनिषद् 74. गौतमाष्टकम 114. समाध्युपनिषद् 12. Page #141 -------------------------------------------------------------------------- ________________ (c) No copyright Publisher . Reproduction welcome. 2013, First edition, Rs. 120/Shree Jinshasan Aaradhana Trust Available at Chandrakant Sanghavi, B-6, Ashoka complex, Near Janata Hospital, Patan-364285, North Gujarat, India (M.) 09909468572 Akshaybhai Shah, 506, Padma Apt., Sarvodaynagar, Mulund (W), Mumbai-400080, India (M.) 09594555505 Babubhal Bedawala, Sidhhachal Bunglows, Hira Jain Soc. Sabarmati, Ahemdabad-380005, Gujarat, India (M.) 09426585904 - farfa sifa, Heras, (H.) 85305 20629, 7405586230 fyrag BITRIE, fa tree, getur T5, TEHTATS, ( .) 9898034799 अक्षरांकन मुद्रक Page #142 -------------------------------------------------------------------------- _