SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् अध्यात्मदर्शना सङ्गतिमङ्गति, कत्रपेक्षत्वात्कर्मणः / एवञ्च ध्यानादिगोचरकर्तृभावस्याप्यभावादन्यूनकृतकृत्यतानुभूतेरविशेष एव मुक्तात्मन इति जीवन्मुक्तिः, कर्त्तव्यमतेरेव कथञ्चिद् बन्धात्मकत्वात् तद्विरहस्य तत्प्रतिपक्षत्वोपपत्तेः, अन्वाह - तदा बन्धा यदा चित्तं किञ्चिद्वाञ्छति शोचति / किञ्चिन्मुञ्चति गृह्णाति किञ्चिद्धृष्यति कुप्यति / / तदा मुक्तिर्यदा चित्तं न वाञ्छति न शोचति / न मुञ्चति न गृह्णाति न हृष्यति न कुप्यति - इति (अष्टावक्रगीतायाम् ) / एतदेव साक्षादाचष्टे ईप्सितानीप्सिते न स्तो, यस्यान्तर्वतिदृष्टिषु / सुषुप्तिवद्यश्चरति, स जीवन्मुक्त उच्यते // 2-46 // यदि हीहिताद्यभावेऽप्यमुक्तत्वम्, तदा मुक्तस्यापि तदस्तु, तुल्यन्यायात्, अथ च न तत्तत्त्वमिष्टम्, ततोऽस्यापि तन् मा भूत्, अत एवेति, उक्तञ्च - ईहितानीहितैर्मुक्तो मुक्त एव महाशयः - इति (अष्टावक्रगीतायाम्) / ननु कथं नाम भवस्थस्यापि वाञ्छाविरहो घटाकोटिमाटीकेतेति चेत् ? अत्राह अध्यात्मरतिरासीनः, पूर्णः पावनमानसः / प्राप्तानुत्तमविश्रान्तिर्न किञ्चिदिह वाञ्छति / यो जीवति गतस्नेहः, स जीवन्मुक्त उच्यते // 2-47 //
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy