________________ महोपनिषद् अध्यात्मदर्शना अध्यात्मरतिः, शब्दाद्यशेषविषयरतिव्युपरमे तद्रतेरेवावशेषात्, आसीनः, स्वभावातिरिक्तस्पृहाशून्यत्वात्, बलादृष्ट्याविर्भावात्, तथा च तदनुभावः - नास्यां सत्यामसत्तृष्णा प्रकृत्यैव प्रवर्तते / तदभावाच्च सर्वत्र स्थितमेव सुखासनम् - इति (योगदृष्टिसमुच्चये)। अत एव पूर्णः, स्वतत्सतत्त्वावगमात्, स्वरूप आनेयत्वापास्यत्वयोरभावाच्च, तथा चोपनिषत् - ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते / पूर्णस्य पूर्णमादाय पूर्वमेवावशिष्यते - इति (मन्त्रिकोपनिषदि) / अत एव पावनमानसः, न्यूनत्वभ्रमस्यैवाशेषमनःकालुष्यनिबन्धनत्वात्, अत एव प्राप्तानुत्तमविश्रान्तिः, आत्मविश्रमतोऽप्युत्तरविश्रमस्याभावात्, परमार्थतस्तन्मात्रत्वाद्विश्रमस्य, अपरस्य विचार्यमाणस्य खेदमात्रत्व- 2 पर्यवसानात् / अत एवासौ इह न किञ्चिद् वाञ्छति, प्राप्तव्याप्रेक्षणात्, तदाह - स्वभावलाभात्किमपि प्राप्तव्यं / नावशिष्यते / इत्यात्मैश्वर्यसम्पन्नो नि:स्पृहो जायते मुनिः - इति (ज्ञानसारे)। एवञ्च यो गतस्नेहो जीवति, स्वरूपभिन्नस्नेहक्रियाकर्मानुपलब्धेः केवलस्य कतुरेवावशिष्टत्वात्, स जीवन्मुक्त उच्यते, ईदृशस्यापि तत्त्वाभावेऽनीदृशस्य तु सुतरां तत्त्वविरहाद्वन्ध्यापुत्राभाववत्तदत्यन्ताभावप्रसक्तेः / एतदेव लक्ष्यं लक्षणान्तरेण लक्षयति संवेद्येन हृदाकाशे, मनागपि न लिप्यते / यस्यासावजडा संवित्, स जीवन्मुक्त उच्यते // 2-48 // 000000000000000000