SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् अध्यात्मदर्शना संवेद्येन - चक्षुरादिनानुभूयमानेन स्त्र्यादिविषयेण, हृदाकाशे - स्वास्वनितावकाशे, मनागपि न लिप्यते, शुष्कगोलकवच्छ्लेषाविषयत्वात्, यथोदितम् - अल्लो सुक्को य दो छूढा गोलया मट्टियामया / दोवि आवडिया कूडे जो भार अल्लो सो विलग्गइ // एवं लग्गंति दुम्मेहा जे नरा कामलालसा / विरत्ता उ न लग्गंति जहा सुक्के अ गोलए - इति / (इन्द्रियपराजये)। अत एव यस्यासावजडा संवित्, दृश्यैकात्म्यविरहेण तद्गतचैतन्यस्याव्याहतत्वात्, स जीवन्मुक्त उच्यते, निःशेषजाड्यापगममक्त्योरेकार्थत्वात् / एवञ्च मौनवान् निरहंभावो, निर्मानो मुक्तमत्सरः / यः करोति गतोद्वेगः, स जीवन्मुक्त उच्यते // 2-50 // मौनवान्, समस्तपुद्गलप्रवृत्तिनिवृत्तत्वात्, उक्तञ्च - पुद्गलेष्वप्रवृत्तिस्तु योगानां मौनमुत्तमम् - इति (ज्ञानसारे)। अत एव निरहंभावः, देहाद्यहङ्कारप्रयोजकतत्प्रवृत्त्यभावात्, परमबोधोदयाच्च, यदाह - अहम्भावोदयाभावो बोधस्य परमावधिः - इति / अत एव निर्मानः, विशिष्टसंवित्तिनान्तरीयकत्वान्मानस्य, अस्य च सत्तासामान्यमात्रसंवेदनपरत्वात् / अत एव मुक्तमत्सरः, सत्तासामान्यसंवेदनात् सर्वत्राप्रतिहतसमतासमाधेर्मत्सरानवकाशात् / अत एव गतोद्वेगः, मात्सर्यादिमूलत्वादशेषोद्वेगानां तदभावेऽनुत्थानपराहतत्वात्, मूलं नास्ति कुतः शाखेतिनीत्या, एवंविधः यः
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy