________________ महोपनिषद् अध्यात्मदर्शना सांसिद्धिकतया विहितक्रियां करोति, स जीवन्मुक्त उच्यते, उपाधिविगम औपाधिकापगमस्याप्यावश्यकतया स्वरूपमात्रावशेषात्, तदतिरिक्तमुक्तिविरहाच्च / तस्मात् सर्वत्र विगतस्नेहो, यः साक्षिवदवस्थितः / निरिच्छो वर्तते कार्ये, स जीवन्मुक्त उच्यते // 2-51 // निरिच्छत्वानुभावात्तत्त्वतस्तस्याकर्तृत्वात्, तदाह - फलतृष्णां विहाय स्यात् सदा तृप्तो विसाधनः / उद्युक्तोऽपि क्रियां कर्तुं किञ्चिन्नैव करोति सः - इति (गणेशगीतायाम् ) / इत्थञ्च येन धर्ममधर्मं च, मनोमननमीहितम् / सर्वमन्तः परित्यक्तं, स जीवन्मुक्त उच्यते // 2-52 // न च धर्मपरित्यागेऽधर्मित्वापत्तिरिति वाच्यम्, इष्टत्वात्, क्षायोपशमिकधर्मपरिहारेण मुक्त्यधिगतियोगात्, यदुक्तम् - धर्मसंन्यासस्तात्त्विकः क्षपकश्रेणियोगिनो द्वितीयापूर्वकरणे भवति / क्षायोपशमिकानां क्षान्त्यादिधर्माणां तदा निवृत्तेः, क्षायिकाणामेव विशुद्धानां प्रादुर्भावात् - इति (स्याद्वादकल्पलतायाम् ) / न च धर्मसामान्यपरित्यागोक्तेः क्षायिकाणामपि सोऽस्त्विति वाच्यम्, अशक्यत्वात्, स्वरूपभूतत्वात्, आत्मवत्, अन्यथाऽभावप्रसक्तः, तस्य चासम्भवात्, यदुक्तम् -