SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् अध्यात्मदर्शना नासतो विद्यते भावो नाभावो विद्यते सतः - इति / अत एव सर्वमन्तः परित्यक्तमित्यत्र स्वरूपातिरिक्ताशेषपरित्याग एव तात्पर्य बोध्यम् / तथा च स्वरूपमात्रस्थितेर्मुक्तिः, उक्तन्यायात् / एतदेव प्रकारान्तरतः प्रस्तौति यावती दृश्यकलना, सकलेयं विलोक्यते / सा येन सुष्ठ सन्त्यक्ता, स जीवन्मुक्त उच्यते // 2-53 // दृष्टदृष्टिमात्रपर्यवसानस्यैव मोक्षपर्यायत्वात, एवमेव साक्षितासिद्धः, दृश्यतादात्म्यस्यैव भवबम्भ्रमणबीजत्वाच्च, तदाह - दृष्टदृङ्मात्रता मुक्तिः, दृश्यैकात्म्यं भवभ्रमः - इति / एतदेव निदर्शयति कट्वम्ललवणं तिक्तममृष्टं मृष्टमेव च। सममेव च यो भुङ्क्ते, स जीवन्मुक्त उच्यते // 2-54 // सममेव - मिथो भेदप्रतिभासलेशमप्यन्तरेण, विषमप्रतिभासस्यैव वस्तुतः संसारात्मकत्वात् / तस्मात् जन्मस्थितिविनाशेषु, सोदयास्तमयेषु च / / सममेव मनो यस्य, स जीवन्मुक्त उच्यते // 2-59 // परमसाम्यसमाधिनिदानं हि - उत्पादव्ययध्रौव्ययुक्तं सत् (तत्त्वार्थसूत्रे ) - इति सत्त्वलक्षणम्, तच्च सन्मात्रे
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy