________________ महोपनिषद् अध्यात्मदर्शना मुख्यतयोत्पश्यतोऽनाहतमेव स्यात् साम्यम्, अनाकलिततत्त्वस्यान्यतरमात्रगोचरे प्रेक्षाविश्रान्तेरेव वैषम्ययोनित्वात् / सति च साम्ये जीवन्मुक्तिः, तत्स्वरूपत्वात्तस्य / एवञ्च शान्तसंसारकलनः, कलावानपि निष्कलः / यः सच्चित्तोऽपि निश्चित्तः, स जीवन्मुक्त उच्यते // 2-61 // शान्तसंसारकलनः, आत्मीयत्वेन तदकलनात्, न चैवं मनुष्यादितत्तत्पर्यायपरिणत्यभावप्रसङ्ग इति वाच्यम्, आत्मसम्बन्धितदभावादेव, परमार्थतः कर्मपर्यायत्वात्तेषाम्, यदुक्तम् - नृनारकादिपर्यायै-रप्युत्पन्नविनश्वरैः / भिन्नै हाति नैकत्वमात्मद्रव्यं सदान्वयि / कर्मणस्ते हि पर्याया नात्मनः शुद्धसाक्षिणः / कर्मक्रियास्वभावं य-दात्मा तु ज्ञस्वभाववान् - इति (अध्यात्मसारे)। अत एव कलावानपि निष्कलः, तत्त्वतो बाह्यकलानां कर्माश्रितत्ववेदनात्, स्वकीयनिष्कलस्वरूपसंवेदनाच्च / किञ्च यः सच्चित्तोऽपि निश्चित्तः, असत्प्रायत्वगमनात्तन्मनसः, तदाह - मनोऽपि जायते नूनं सम्यग् भजितबीजवत् - इति (शम्भुगीतायाम् ) / एवमुद्देश्यमभिधाय विधेयमाह - स जीवन्मुक्त उच्यते, तद्धस्ततलशायिनीत्वान्मुक्तेः, यदुक्तम् - यस्य सङ्कल्पनाशस्स्यात्तस्य मुक्तिः करे स्थिता - इति (मण्डलब्राह्मणोपनिषदि)। संसारकलनादेरपि सङ्कल्पाधीनत्वात्तदभावे तस्याप्यभावतो जीवन्मुक्तिसिद्धिरिति भावनीयम् / एतदेवान्यविधया व्याचष्टे