________________ महोपनिषद् अध्यात्मदर्शना पोक्ष यः समस्तार्थजालेष, व्यवहार्यपि नि:स्पृहः / परार्थेष्विव पूर्णात्मा, स जीवन्मुक्त उच्यते // 2-62 // यः - मोक्षे भवे च सर्वत्र निःस्पृहोऽयं सदाशय इतिशुद्धात्मसाधकस्वरूपसंवेत्ता, समस्तार्थजालेषु - मो साधकत्वेन विहितसर्वानुष्ठानसमूहेषु, व्यवहार्यपि - असङ्गानुष्ठानपरिणत्या प्रवृत्तिमानपि, परार्थेष्विव - परप्रयोजनेषु प्रवृत्त इव, नि:स्पृहः - स्वर्गादिफलानभिलाषी, यो हि परप्रयोजनेषु प्रवृत्तो भवति, तस्य तत्फलेहा नोदेत्येव, स्वप्रवृत्तिस्वरूपावगमात्, एवमस्यापि तदौपम्यम्, नि:स्पृहतासाधर्म्यात्, साऽपि तस्य मोक्षेऽप्यनभिलाषात्, तदभिलाषस्यापि तद्बाधकत्वात्, यदाह - मोक्षेऽपि मोहादभिलाषदोषो, विशेषतो मोक्षनिषेधकारी - इति ( पद्मनन्दिपञ्चविंशतिकायाम् ) / एतच्च दशाविशेषमधिकृत्य दृष्टव्यम्, अपरथा तु तदनभिलाषस्यैव तद्बाधकत्वात् / एवञ्च नि:स्पृहतयैव यः पूर्णात्मा, परभावोपनतेरेवात्मन्यूनत्वप्रयोजकतया तद्विगमे पूर्णात्मस्वरूपप्राकट्यस्य नैसर्गिकत्वात्, स जीवन्मुक्त उच्यते, लक्षणसमन्वयात् / ततोऽप्यस्य यत् पर्यवस्यति तदाह - जीवन्मुक्तपदं त्यक्त्वा, स्वदेहे कालसात्कृते / विशत्यदेहमुक्तत्वं, पवनोऽस्पन्दतामिव // 2-63 //