SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् | अध्यात्मदर्शना अदेहमुक्तेः परमनिष्पन्दावस्थारूपत्वात्, जीवन्मुक्तेस्तत्पर्यवसाननियमाच्च / तदेतददेहमुक्तिकारणं जीवन्मुक्तिः / तस्या अपि हेतुर्विरागः / अतस्तदर्थं यच्चिन्त्यं तदाह - विषयाशीविषासङ्ग-परिजर्जरचेतसाम् / अप्रौढात्मविवेकाना-मायुरायासकारणम् // 3-10 // भुजङ्गोपमा हि विषयाः, यदासङ्गतः परिजर्जरभावं भजन्ते चेतांसि, तथाविषयस्वाभाव्यात्, एवं तद्ग्रस्तचित्तानाम्, एतदपि कथमित्याह - अप्रौढाऽऽत्मविवेकानाम् - अपरिपक्वस्वावधिविषयपार्थक्यसंवेदनानाम्, आयु:- जीवनम्, आयासकारणम् - कायक्लेशमात्रहेतुः, तत आत्माभिमतफलनिष्पत्तिविरहात् / अपि च युज्यते वेष्टनं वायो-राकाशस्य च खण्डनम् / ग्रन्थनं च तरङ्गाणा-मास्था नायुषि युज्यते // 3-11 // तदवस्थितेरेभ्योऽप्यविश्वसनीयतरत्वादिति हृदयम् / अपि च तज्जीवनमेव न परमार्थतः, यदुक्तविधयाऽऽयासैकहेतुः, तल्लक्षणाव्याप्तेरिति तल्लक्षणमेवाऽऽह FFFFFFFFFFFFFFFFFFFFFFl
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy