SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् अध्यात्मदर्शना प्राप्यं सम्प्राप्यते येन, भूयो येन न शोच्यते / पराया निवृतेः स्थानं, यत्तज्जीवितमुच्यते // 3-12 // येन आयुषा प्राप्यम् - उपलभ्यतया बुधाभिमतमात्महितम्, सम्प्राप्यते-विवेकसचिवतदुपयोगेन नियोगत उपलभ्यते, येन च भूयो न शोच्यते, उक्तहेतोः कृतकृत्यताऽनुभावात्, अत एव पराया निर्वृतेः स्थानम्, परमानन्दहेतुत्वेन तदाश्रयभूतत्वात्, एवंविधं यत् तज्जीवितमुच्यते परमार्थतः, सफलत्वात् / अन्यथा तु तरवोऽपि हि जीवन्ति, जीवन्ति मृगपक्षिणः / स जीवति मनो यस्य, मननेनोपजीवति // 3-13 // यथावस्थितवस्तुस्वरूपमननेन हेयोपादेययोर्हानोपादानाभ्यामात्मकल्याणसाधनं हि जीवनफलम्, अतस्तदभावे तस्याप्यभावः, यदेवार्थक्रियाकारि तदेव सत् इतिनिश्चयनयसमाश्रयणात् / तस्मात् जातास्त एव जगति, जन्तवः साधुजीविताः / ये पुनर्नेह जायन्ते, शेषा जरठगर्दभाः // 3-14 // तदविशेषात्, उदरभरणमात्रपर्यवसितजीवनत्वात्, भूयः पुनर्जन्मना तत्त्रपास्पदत्वापादनाच्च, उक्तञ्च - जरामरण
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy