SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ होपनिषद् अध्यात्मदर्शना दौर्गत्यव्याधयस्तावदासताम् / मन्ये जन्मैव धीरस्य भूयो भूयस्त्रपाकरम् - इति (आचारवृत्तावुद्धरणम् ) / अथ शास्त्रज्ञतया तेषु न जरठगर्दभौपम्यापादनं न्याय्यमिति चेत् ? अत्राह भारोऽविवेकिनः शास्त्रं भारो ज्ञानं च रागिणः / अशान्तस्य मनो भारो, भारोऽनात्मविदो वपुः // 3-15 // अविवेकिनः - कृत्याकृत्यमविवेचयतः, शास्त्रम् - भागवतादिगोचरशुष्कपाण्डित्यम्, भारः, तद्धारणपरिश्रममात्रफलत्वेन तत्सधर्मत्वात् / शास्त्रं हि कर्त्तव्यविधानाकर्त्तव्यनिषेधपरवचोकदम्बकरूपम्, तदधिगत्य तदननुसरतस्तद्विफलमेव तत्त्वेन, यत्फलं तु तत्प्रयच्छत्यस्य तेन तस्य भारानतिशयितैव, उक्तन्यायादिति भावनीयम् / एवं रागिणो ज्ञानं च भारः, यतः - तज्ज्ञानमेव न भवति यस्मिन् सति विभाति रागादिगणः / तमसः कुतोऽस्ति शक्तिः दिनकरकिरणाग्रतः स्थातुम् ?- इति / अपि च रागादिविरतिरूपसामायिकलक्षणचरणप्रयोजकत्वेनैव ज्ञानमभीष्टम, ज्ञानस्य फलं विरतिः (प्रशमरतौ) - इत्युक्तेः, अतो यम्प्रति तत्तदप्रयोजकम्, तस्य भार एव तत्, तुल्यफलत्वात्, खरस्य चन्दनभरवदिति भावः, तदार्षम् - जहा खरो चंदणभारवाही, भारस्स भागी ण हु चंदणस्स / एवं खु नाणी चरणेण हीणो नाणस्स भागी ण हु सुग्गइए - इति ( उपदेशमालायाम् ) / एवञ्च अशान्तस्य मनो भारः, खेदावहत्वात्, तथा
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy