________________ महोपनिषद् l अध्यात्मदर्शना तदुपेक्षणमेव जीवन्मुक्तिलिङ्गम्, उक्तञ्च - सानुरागां स्त्रियं दृष्टवा मृत्युं वा समुपस्थितम् / अविह्वलमनाः स्वस्थो मुक्त एव महाशयः - इति (अष्टावक्रगीतायाम्) / एवञ्च हर्षामर्षभयक्रोध-कामकार्पण्यदृष्टिभिः / न परमृश्यते योऽन्तः, स जीवन्मुक्त उच्यते // 2-44 // विभावा हि तमेव गोचरीकुर्वन्ति, यो विभावमात्रव्यवस्थितः, यस्तु स्वभावमात्रसम्प्रतिष्ठिततया सर्वविभावव्यतीतः, सोऽशक्यपरामर्शतया विभावानां मुक्तप्रतियोगिकभेदाभाववान्, निबन्धनविरहात्, अत उपपन्नैव तस्य जीवन्मुक्ततेति भावः / तथा अहङ्कारमयीं त्यक्त्वा, वासनां लीलयैव यः / तिष्ठति ध्येयसन्त्यागी, स जीवन्मुक्त उच्यते // 2-45 // न हि परिज्ञातरज:स्वरूपस्य तद्विधूनने दुष्करत्वं भवति किमपि, कष्टत्वं वा, अपि तु लीलामात्रम्, एवं रजोऽनतिशय्यहङ्कारवासनास्वरूपवेत्तुरपि तत्त्यागो लीलैव, अनुन्मत्तस्य रजःप्रतिबन्धविरहात् / किञ्चात एवासौ ध्येयसन्त्यागी / किलाहं कञ्चन ध्यानगोचरीकुर्याम् - इति हि ध्येयाभिसन्धिः, सा चाहङ्कारात्यन्तविलये न