________________ महोपनिषद् | अध्यात्म दर्शना HARYANA ज्वलतामतिदूरेऽपि, सरसा अपि नीरसा / स्त्रियो हि नरकाग्नीना-मिन्धनं चारु दारुणम् // 3-44 // तज्जीवनत्वान्नरकाणाम्, उक्तञ्च - दारा न कारा नरकस्य चित्ते, व्यचिन्ति नित्यं मयकाऽधमेन / / - इति (रत्नाकरपञ्चविंशतिकायाम् ) / ननु यद्येवं तहि चारुत्वं तासां न सङ्गतिमङ्गतीति चेत् ? को वा किमाह? उपनिषत्कदिति चेत् ? न, अभिप्रायापरिज्ञानात्, चार्विति न नारीविशेषणमपि त्विन्धनस्य, तच्च नरकाग्निसम्बन्धि, अतस्तच्चारुत्वोक्तिस्तज्जन्यजननसामर्थ्यप्राबल्यमेवावेदयन्ती तद्दारुणतरतामेव व्यनक्तीति भावनीयम् / अत एवोक्तम् - जानामि नरकं नारीम् - इति (अवधूतगीतायाम्) / अत्र हि - ज्वलना अतिदूरेऽपि - इति (याज्ञवल्क्योपनिषदि) उपनिषदन्तरे पाठ इति ध्येयम् / किञ्च कामनाम्ना किरातेन, विकीर्णा मुग्धचेतसः / नार्यो नरविहङ्गाना-मङ्गबन्धनवागुराः // 3-45 // जन्मपल्लवमत्स्यानां, चित्तकर्दमचारिणाम् / पुंसां दुर्वासनारज्जु-र्नारी बडिशपिण्डिका // 3-46 // 1000000000 3