________________ महोपनिषद् अध्यात्मदर्शना 萬萬萬萬萬萬萬萬萬萬萬萬萬萬身邊 तद्वन्धवधादिहेतुत्वात्, अत एवागमः - सूणा पुरिसाणं - इति (तन्दूलवैचारिके) / अतः - सर्वेषां दोषरत्नानां, सुसमुद्गिकयाऽनया / दुःखशृङ्खलया नित्य-मलमस्तु मम स्त्रिया // 3-47 // ननु च न दोषेषु रत्नोपमोचिता, प्रत्यपायावहत्वादिति चेत् ? तर्हि रत्नेष्वपि तव्यपदेशो मा भूत्, तत एव, तुल्यन्यायात् / अतः सञ्ज्ञानादिलक्षणं भावरत्नत्रयं विमुच्य बाह्यरत्नानां प्राशस्त्यविरहान्नोक्तानौचित्यप्रसक्तिः, अपि तु यथा सुसमुद्गके रत्नानि सुरक्षितानि भवन्ति, तथा स्त्रियामपि दोषा इत्यर्थतस्तद्विरागापादनात्मकाभिमतप्रयोजनसिद्धिरेव / युक्तश्चायमर्थः, स्वभावस्य त्यक्तुमशक्यप्रायत्वात्, यदुक्तम् - वञ्चकत्वं नृशंसत्वं चञ्चलत्वं कुशीलता / इति नैसर्गिका दोषा यासां तासु रमेत कः ? - इति / ननु सम्यगेतत्तत्त्वावगमेऽपि दुस्त्यज एवास्माकमङ्गनानुरागस्तत्कि कर्त्तव्यमिति चेत् ? अनुरागगोचरपरिहार इति गृहाण, तदपरिहारस्य तदनुरागजीवनत्वात्, तद्वृद्धिहेतुत्वाच्चेत्याह यस्य स्त्री तस्य भोगेच्छा, नि:स्त्रीकस्य क्व भो स्त्रियं त्यक्त्वा जगत् त्यक्तं, जगत् त्यक्त्वा सुखी भवेत् // 3-48 // अत एव स्त्रियो दर्शनादेरपि प्रतिषेधमभिदधन्ति विदः, अनादितदनुरागवासितान्तःकरणानां तदर्शनादेरपि 3 3