________________ अध्यात्मदर्शना महोपनिषद् | महानर्थनिमन्त्रणरूपत्वात्, अगुप्तस्य ब्रह्मचर्यस्यादीर्घकालीनत्वात्, तत्त्वतोऽब्रह्मानतिरेकाच्च / तथा च पारमर्षम् - अदंसणं चेव अपत्थणं च, अचिंतणं चेव अकित्तणं च / इत्थीजणस्सारियझाणजुग्गं हियं सया बंभवए रयाणं - इति (उत्तराध्ययने) / ननु स्त्रीविकलास्तु रोरा अपि धारयेयुर्ब्रह्म, न चैवं कोऽप्यतिशयः, अतः स्त्र्यादिभोगसाधन समूहमध्यगतेनैव वैराग्याभ्यासः कार्य इति चेत् ? केनेति वक्तव्यम्, निष्पन्नयोगिना चेत् ? न तेन भोगसाधनसमूहेन तस्य भR प्रयोजनम्, तस्य वैराग्याभ्याससाधनत्वाभावेऽविगानात्, सिद्धवैराग्यप्रकर्षत्वाच्च / अथ योगारम्भकेनेति, दत्तस्तहि जलाञ्जलिर्वैराग्याभ्यासाय, तद्वधाभियोगस्य तद्भावनाहेतुत्वायोगात्, अत एव सर्वज्ञवचनम् - जहा बिरालावसहस्स मूले ण मूसगाणं वसही पसत्था / एमेव इत्थीणिलयस्स मज्झे ण बंभयारिस्स खमो णिवासो / कामं तु देवीहिं विभूसियाहिं ण चालिया खोभइउं तिगुत्ता / तहा वि एगंतहियं ति णच्चा विवित्तवासो इसीणं पसत्थो - इति (उत्तराध्ययने)। अत: सूक्तम् - यस्य स्त्री तस्य भोगेच्छा निःस्त्रीकस्य क्व भोगभूः ? - इति / स्त्रियं त्यक्त्वा - मनोवाक्कायैः परिहत्य, जगत् त्यक्तम् - समस्तसंसारवासना परित्यक्ता, तीर्णमहासागरस्य सरित्तरणस्याकृतस्यापि कृतप्रायत्वात्, यदार्षम् - एए उ संगे समइक्कमित्ता सुउत्तरा चेव हवंति सेसा / जहा महासागरमुत्तरित्ता णई भवे अवि गंगासमाणा - इति (उत्तराध्ययने) / अथ त्यक्तेनापि जगता को गुण इत्यत्राह - जगत्त्यक्त्वा सुखी भवेत्, दुःखरूपत्वाद् भवस्य, तत्फलत्वात्, तदनुबन्धत्वाच्च, तदुक्तम् - अणाई जीवस्स भवे,