SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् अध्यात्मदर्शना दुक्खरूवे दुक्खफले दुक्खाणुबंधे - इति (पञ्चसूत्रे ) / ननु चैवं यदि स्त्रीत्याग एव जगत्त्यागः, तदा स्त्र्येव जगदित्यापतितं स्यादिति चेत् ? सत्यम्, मू गोचरवस्तुनः कथञ्चित्तद्रूपत्वात्, परमार्थतो मूर्छाया एव जगत्त्वात्, व्यवहारतस्तु समस्तजगति कस्याप्याधिपत्यमपि नेति का तत्परिहारवार्ताऽपि ? वन्ध्यापुत्रोद्वाहवार्तावदसद्विषया सेति भावः / अतो मूर्छापरमनिमित्तरूपायां स्त्रियां जगद्व्यपदेश उपपन्न एवेति / अत एवोच्यते - मूर्छाछन्नधियां सर्वं जगदेव परिग्रहः / मूर्च्छया रहितानां तु जगदेवापरिग्रहः - इति (ज्ञानसारे)। इतश्च मूर्छा त्याज्येत्याह ब्रह्मा विष्णुश्च रुद्रश्च, सर्वा वा भूतजातयः / नाशमेवानुधावन्ति, सलिलानीव वाडवम् // 3-52 // एवञ्च यदि भगवत्त्वेनाभिमतानामपि विनाशपर्यवसानत्वमेव, तदा तदितरस्य तु जगतः का वार्ता ? विनाशपथैकपथिकमेव तत्, अतस्त्याज्यस्तत्प्रतिबन्धः, नश्वरानुरागस्या श्रुपरिणामत्वात्, एतदेवाभिधत्ते आपदः क्षणमायान्ति, क्षणमायान्ति सम्पदः / क्षणं जन्माथ मरणं, सर्वं नश्वरमेव तत् // 3-53 //
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy