________________ महोपनिषद् | अध्यात्मदर्शना क्षणिकत्वस्यैव नश्वरत्वाक्षेपकत्वात्, वस्तुतस्तदनन्तरत्वाच्च / न हि नश्वरतामात्रं मू परिहार आलम्बनम्, अपि तु दारुणताऽपीति तामाह विषं विषयवैषम्यं, न विषं विषमुच्यते / जन्मान्तरघ्ना विषया, एकजन्महरं विषम् // 3-54, 55 // यद्गोचरेण पुनरपि जीवनमवाप्यते, न तद्विषम्, अपि तु यत्पानेनानन्तमरणगोचरता तद्विषम्, तच्च विचार्यमाणं विषयेष्वेवोपपद्यते, अतस्तद् विषम्, न वराकं विषत्वेनोच्यमानं पानकमिति हृदयम् / अतस्तत्परिहारे यतितव्यम्, विषयवैषम्यमोक्षस्यैव मोक्षरूपत्वात्, तस्यैव चोपादेयत्वात् / अथ प्रकारान्तरेण मोक्षोपादानोपायमभिधातुं तद्द्वारपालस्वरूपमाह मोक्षद्वारे द्वारपालाश्चत्वारः परिकीर्तिताः / शमो विचारः सन्तोषश्चतुर्थः साधुसङ्गमः // 4-2 // यथा हि द्वारपालानुग्रहेणान्त:प्रवेश: सुलभो भवति, तथैव मोक्षानुप्रवेशार्थमेतच्चतुष्टयानुग्रह आवश्यक इत्यभिप्रायः / एतस्याप्युपायमुपदर्शयति