________________ महोपनिषद् | अध्यात्मदर्शना त्वङ्मांसरक्तबाष्पाम्बु, पृथक्कृत्वा विलोचने / समालोकय रम्यं चेत्, किं मुधा परिमुह्यसि ? // 3-40 // यदि हि शुचितमत्वेनाभिमतेऽपि लोलेक्षणेक्षणे तत्सतत्त्वविवेचने सत्यशुचिमात्रपर्यवसिते स्याताम्, तदान्यानि तु योषिदङ्गानि सुतराममध्यतराणीति मुधैव तत्परिमोह इत्याशयः / एतदेव समर्थयति मेरुशृङ्गतटोल्लासि-गङ्गाचलस्योपमा / दृष्टा यस्मिन् मुने ! मुक्ता-हारस्योल्लासशालिता // 3-41 // श्मशानेषु दिगन्तेषु, स एव ललनास्तनः / श्वभिरास्वाद्यते काले, लघुपिण्ड इवान्धसः // 3-42 // त्याज्योऽतो विरसपर्यवसानानुरागः, तस्य तत्पर्यवसाननियमात् / एतदेवाह केशकज्जलधारिण्यो, दुःस्पर्शा लोचनप्रियाः / दुष्कृताग्निशिखा नार्यो, दहन्ति तृणवन्नरम् // 3-43 // FFFFFFFFFFooooo