SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् अध्यान दर्शना वहारविरोधि, तद्बाधितं चेति सूक्ष्ममीक्षणीयम्, तथात्वे भवतद्विगमभेदस्य मुख्यस्यानुपपत्तेः, उक्तञ्च - पुरुषाद्वैतं तु यदा भवति विशिष्टमथ बोधमात्रं वा / भवभवविगमविभेदस्तदा कथं युज्यते मुख्यः ? - इत्यादि (षोडशके)। अथानात्मात्मभावनाबन्धमेव स्फुटयति कृशोऽहं दुःखबद्धोऽहं, हस्तपादादिमानहम् / इति भावानुरूपेण, व्यवहारेण बध्यते // 4-125 // भवभावस्यैव वस्तुतो बन्धरूपत्वात्, देहात्मधियश्च तद्योनित्वात्, तथोक्तम् - मूलं संसारदुःखस्य देह एवात्मधीस्ततः - इति (समाधितन्त्रे)। तत्प्रतिपक्षोऽपि तत्प्रतिपक्षसाध्य इत्याह नाहं दुःखी न मे देहो, बन्धः कोऽस्यात्मनि स्थितः ? / इति भावानरूपेण, व्यवहारेण मच्यते // 4-126 // नाहं दुःखी - नित्यानन्दमयं ब्रह्म (तेजोबिन्दूपनिषदि) - इति मत्स्वरूपावगमात्, दृश्यमानस्य दुःखस्यान्याश्रयत्वाच्च / ननु देहाश्रितानि दुःखान्यपि तत्त्वतस्तवैव, त्वदीयत्वाद् देहस्य, सोऽयं दासेन मे खरः क्रीतो दासो मम खरोऽपि मे - इतिन्यायापात इति चेत् ? अत्राह - न मे देहः, भिन्नत्वादेव, परमार्थतस्तस्यैव परकीयतापिशुनत्वात्,
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy