SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् |ER अध्यात्यदर्शना उक्तञ्च - मदीयं यन्न तद् भिन्नं, भिन्नं तन्न मदीयकम् - इति (आत्मदर्शनगीतायाम् ) / अपि च को बन्धोऽस्यात्मनि स्थितः ?, तत्त्वानुभूतेस्तद्विरहदशिनस्तदभावादेव नास्त्यसाविति भावः, उक्तञ्च - श्रुत्वा मत्वा मुहुः स्मृत्वा साक्षादनुभवन्ति ये / तत्त्वं न बन्धधीस्तेषा-मात्माऽबद्धः प्रकाशते - इति (अध्यात्मसारे) / इति भावानुरूपेण व्यवहारेण - विमुक्तदेहाभिमानतया परमतितिक्षासचिवेन परीषहोपसर्गविषहनेन, मुच्यते - यद्देहस्यापकाराय तज्जीवस्योपकारकम् - (इष्टोपदेशे) इतिनीत्या परमकल्याणभाग् भवति / अतोऽपनेयो देहाभिमानः, यतः नाहं मांसं न चास्थीनि, देहादन्यः परोऽस्म्यहम् / इति निश्चयवानन्तः, क्षीणाविद्यो विमुच्यते // 4-127 // देहात्मबुद्धिलक्षणाऽविद्यैव भवः, अतस्तत्क्षये तद्विरह उपपन्न एवेति / न च निश्चयमात्रस्य मोक्षहेतुत्वे समस्तचरणानुष्ठानकदम्बकस्य वैयापत्तिरिति वाच्यम्, तात्त्विकस्य तन्निश्चयस्य तत्प्रवर्तकत्वनियमात्, कथञ्चित्तदनतिरिक्तत्वाच्च, अत एवागमः - जं सम्मं ति पासहा तं मोणं ति पासहा - इति (आचाराने) / एवञ्चोक्तनिश्चयस्यापि तत्प्रवर्त्तनद्वारेणैव मुक्तिहेतुत्वमिति सर्वमवदातम् / एतेन चरणालसानां देहाभिमानमुक्तत्वाभिमानो दम्भमात्रमित्यावेदितम् / अतः
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy