SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् अध्यात्मदर्शना मा भवाज्ञो भव ज्ञस्त्वं, जहि संसारभावनाम् / अनात्मन्यात्मभावेन, किमज्ञ इव रोदिषि ? // 4-130 // एषैवाज्ञस्याज्ञता यत् परव्यतिकरे निजत्वारोपणेनात्मनो विह्वलीकरणम्, अतस्त्याज्यं तत्, रुदनालम्बनानां देहाश्रितत्वात्, देहस्य च कथञ्चित्स्वसंयोगित्वेऽपि पृथक्त्वात्, वस्त्रवत्, यथोक्तम् - घने वस्त्रे यथाऽऽत्मानं न घनं मन्यते तथा / घने स्वदेहेऽप्यात्मानं न घनं मन्यते बुधः / रक्ते वस्त्रे यथाऽऽत्मानं न रक्तं मन्यते तथा / रक्ते स्वेदेहेऽप्यात्मानं न रक्तं मन्यते बुधः // नष्टे वस्त्रे यथात्मानं न नष्टं मन्यते तथा / नष्टे स्वदेहेऽप्यात्मानं न नष्टं मन्यते बुधः - इति (समाधितन्त्रे) / अपि च कस्तवायं जडो मूको, देहो मांसमयोऽशुचिः / यदर्थं सुखदुःखाभ्या-मवशः परिभूयसे // 4-131 // परमपावित्र्यपुनितस्य तव स्वप्नेऽप्येतत्सम्बन्धित्वमनुपपन्नम्, अतस्तदाश्रितसुखादिभिस्तव हर्षादिविडम्बना परमार्थत उन्माद एवेत्याशयः / तदेतद्विसंस्थुलतरजगत्स्थितिमवलोक्य विस्मयोद्गारान् मुञ्चत्युपनिषत्कार:
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy