________________ महोपनिषद् | अध्यात्म दर्शना मनागपि मनोव्योम्नि, वासनारजनीक्षये / कालिमा तनुतामेति, चिदादित्यप्रकाशनात् // 4-117 // तथा च तत्प्रकाशप्रतीतिरेव अविद्यानाशयत्नसाधुत्वलिङ्गम् / यथैव प्रभाते स्फुटिते सति तेजस्तीव्रतरतैव सूर्यसामीप्यलिङ्गम्, यथा वा पुरं प्रति प्रस्थितस्य तद्गोपुरादिस्पष्टतरदर्शनमेव तत्सान्निध्ये प्रमाणम्, एवं चिदादित्यप्रकाशलेशानुभूतिरप्यविद्याकालुष्यतानवमभिदधन्ती मोक्षयात्रायाः सदाशाप्रस्थिततामाख्यातीत्याशयः / अथाभिहितमेव बन्धमुक्तिहेतुयुगं प्रकारान्तरेणाह नाहं ब्रह्मेति सङ्कल्पात्, सुदृढाद् बध्यते मनः / सर्वं ब्रह्मेति सङ्कल्पात्, सुदृढान् मुच्यते मनः // 4-124 // नाहमित्यादि, अनात्मात्मभावनातः संसार:, आत्मात्मभावनातो मोक्ष इत्याशयः, यथोक्तम् - देहान्तरगते/जं देहेऽस्मिन् आत्मभावना / बीजं विदेहनिष्पत्ते - रात्मन्येवात्मभावना - इति (समाधितन्त्रे)। ननु च सर्वं ब्रह्मेत्यभ्युपगमे ब्रह्माद्वैतप्रतिपत्त्यापत्तिरिति चेत् ? सेयमिष्टापत्तिरेव स्याद्वादसुधालिहाम्, यत्र यत्र चिदन्वयलक्षणं तिर्यक् सामान्यम्, तत्र तत्र ब्रह्मत्वस्येष्टत्वात्, प्रागुक्तनीत्या जीवानामैक्यस्यैव वास्तवब्रह्माद्वैतत्वात् / एकान्तवादेन गृहीतं तु तत् सर्वसंव्य