________________ महोपनिषद् दशना तावत्संसारभृगुषु, स्वात्मना सह देहिनम् / आन्दोलयति नीरन्ध्र, दुःखकण्टकशालिषु // 4-113 // अविद्या यावदस्यास्तु, नोत्पन्ना क्षयकारिणी / स्वयमात्मावलोकेच्छा, मोहसङ्ख्यकारिणी // 4-114 // अस्याः परं प्रपश्यन्त्याः, स्वात्मनाशः प्रजायते / दृष्टे सर्वगते बोधे, स्वयं ह्येषा विलीयते // 4-115 // वह्नेर्दाह्यनाशानुनाशगमनस्वभाववत्तथातत्स्वाभाव्यात्, उक्तञ्च - तत्तत्त्वं यद् दृष्ट्वा निवर्तते दर्शनाकाङ्क्षा - इति (षोडशके)। उक्तार्थनिष्कर्षमेवाभिदधन्नाह इच्छामात्रमविद्येयं, तन्नाशो मोक्ष उच्यते / स चासङ्कल्पमात्रेण, सिद्धो भवति वै मुने ! // 4-116 // अवश्यमतोऽत्र यतनीयं मुमुक्षुभिरित्याशयः / अथ कथमेतदस्माकं प्रतीयेत, यदस्मत्कृतो मोक्षयत्नः समीचीनो न वेति चेत् ? अत्राह 0000000000000000 ওও