SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् अध्यात्मदर्शना एष एव मनोनाश-स्त्वविद्यानाश एव च / यत्तत्संवेद्यते किञ्चि-त्तत्रास्थापरिवर्जनम् // 4-110 // संवेदनमात्रं तु ज्ञानोपयोगादिरूपं सिद्धानामपि भवत्येव, तद्विरहेऽनात्मताप्रसङ्गात्, आस्था तु सौन्दर्यादिमतिरूपा स्वकीयत्वादिबुद्धिरूपा वा तेषां नोदेति, अविद्यात्मकतन्निबन्धनाभावात् / आस्थाऽऽविलानुभूतिरेव संसारः, विशुद्धा तु सा मोक्ष इत्यत्र निष्कर्षः / एतदेव साक्षादाचष्टे अनास्थैव हि निर्वाणं, दुःखमास्थापरिग्रहः // 4-111 // आस्थाविरहे सहजावस्थैवावतिष्ठते, सा च निर्वाणमेवेति सूक्तम् - अनास्थैव हि निर्वाणम् - इति / एतदेव व्यतिरेकतो व्यनक्ति - आस्थापरिग्रहो दुःखम्, अपेक्षाप्रसूतया दुःखहेतुत्वात्, उक्तञ्च - अविक्खा अणाणंदे - इति (पञ्चसूत्रे)। अविद्यैवाऽऽस्थाबीजमिति तामधिकृत्याह - अविद्या विद्यमानैव, नष्टप्रज्ञेषु दृश्यते / नाम्नैवाङ्गीकृताऽऽकारा, सम्यक्प्रज्ञस्य सा कुतः ? // 4-112 // आदित्यस्यान्धकारवन्नैव तस्य सेत्याशयः / किञ्च jaa000000Ranaaaaaaaaaaa 76
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy