________________ महोपनिषद् अध्यात्मदर्शना 0000000000 एकत्वमनुपश्यतः (ईशावास्योपनिषदि) - इत्युपनिषदुपनिषण्णः प्रतिपाद्यः, भेदवासनाम् - कर्मकृतजीवपार्थक्यगोचरवास्तवमनीषाम्, त्यज - आत्मवत्सर्वभूतानि पश्यन् भिक्षुश्चरेन्महीम् - (नारदपरिव्राजकोपनिषदि) इत्युपदेशतात्पर्यपरिणते: परिहर, पुद्गलकृतमुच्चावचादिभेदं य आत्मानमधिकृत्य पश्यति, तस्यैवोत्तिष्ठति जीवभेदमतिः, यस्तु शरीरगोचरत्वेनैव तं पश्यति, कस्तस्य भेदबुद्ध्युदयः, शुद्धनिश्चयतः सर्वेषामप्यात्मनामनादिशुद्धतयाऽभिन्नत्वात्, न चैवं पुरुषाद्वैतवादप्रसङ्गः, तुल्यतायाऽभिन्नव्यपदेशनियामकत्वस्य लोकसिद्धत्वात्, तदिदमुदितम् - नृनारकादिपर्यायैरप्युत्पन्नविनश्वरैः / भिन्नै हाति नैकत्वमात्मद्रव्यं सदान्वयि / / कर्मणस्ते हि पर्याया नात्मनः शुद्धसाक्षिणः / कर्म क्रियास्वभावं यदात्मा तु ज्ञस्वभाववान् - इति (अध्यात्मसारे)। ततः - उक्तनीत्या सर्वकुवासनाविधूननं विधाय, भावाभावौ त्यक्त्वा, भावाभावगोचरभावनाभियोगलक्षणं हाठिकयोगं परित्यज्येत्यर्थः, तस्याप्याग्रहदुःखकलङ्किततया स्वरूपसंस्थितिसौख्यशत्रुत्वात्, अन्वाह - भावस्य भावकः कश्चिन्, न किञ्चिद्भावकोऽपरः / उभयाभावकः कश्चि-देवमेव निराकुलः - इति (अष्टावक्रगीतायाम् ) / पर्यवसितमाह - निर्विकल्पः, भावाभावमात्रगोचरसङ्कल्पस्याप्यभावेऽवशिष्टविकल्पानां स्वतः एव निर्गमनात्, सति हि धर्मिणि धर्माश्चिन्त्यन्त इतिन्यायात्, एवंविधस्त्वं सुखी भव / धर्मिधर्मगोचरस्वकीयत्वादिचिन्ताया एव सुखाऽऽवारकतया तद्विगमे तदाविष्कारस्यैवावशिष्टत्वात् / एनमेव चिन्ताविगमं स्फुटतरं लक्षयति eeeeeeeeeeeeeeeeeeeee 1994370