SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् अध्यात्मदर्शना 多變變變變變變變變變變變變變變變變變變變變 तृष्णाग्राहगृहीतानां, संसारार्णवपातिनाम् / आवत्त॑रुह्यमानानां, दूरं स्वमन एव नौः // 4-106 // स्वावलम्बितशाखोच्छेदनवत्तैरुक्तपोतविनाशनात् / यदि हि प्रशस्तमनसाऽप्रशस्ततन्निग्रहो न क्रियते, तदाऽप्रशस्तं तन्निग्रहं कृत्वाऽऽत्माऽनर्थं विधत्ते, अर्धराज्यहरं मित्रं यो न हन्यात् स हन्यते - इति न्यायात्, तस्मात् मनसैव मनश्छित्त्वा, पाशं परमबन्धनम् / भवादुत्तारयाऽऽत्मानं, नासावन्येन तार्यते // 4-107 // पोतान्तरविरहात्, अत एवाभिहितम् - मन एव मनुष्याणां कारणं बन्धमोक्षयोः / बन्धाय विषयासक्तं मुक्त्यै निविषयं स्मृतम् - इति ( मैत्रायण्युपनिषदि) / ननु निविषयतैव मनसः कथं साध्येत्यत्राह भोगैकवासनां त्यक्त्वा, त्यज त्वं भेदवासनाम् / भावाभावौ ततस्त्यक्त्वा, निर्विकल्पः सुखी भव // 4-109 // भोगैकवासनाम् - मदीया मत्सुखहेतवो वा भोगा इति सुदीर्घभवाभ्यस्ताविद्याम्, त्यक्त्वा - णीवारे व ण लीयेज्जा (सूत्रकृताले) इत्यागमावगमेन सर्वथाऽपि विहाय, त्वम् - यस्मिन् सर्वभूतान्यात्मैवाऽभूद् विजानतः / तत्र को मोहः कः शोक
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy