________________ महोपनिषद् अध्यात्मदर्शना विकल्पनिरोधतः प्रशमसामग्र्ययोगत इहैव मुक्तिदशानुभूतिरिति न किञ्चिदनुपपन्नम्, तथा चोक्तम् - सर्वजातीयसङ्कल्पविकल्पस्य निरोधतः / आत्मशान्तिः भवेत्पूर्णा नान्यथा कोटियत्नतः - इति ( अध्यात्मगीतायाम् ) / ननु तपोरूपतोक्तिस्तु चाञ्चल्यविकलस्य मनसो न सङ्गतिमङ्गति, अनशनादिरूपत्वात्तस्येति चेत् ? अनशनाद्यपि कथं तप इत्युच्यताम्, निर्जराप्रयोजकत्वादिति चेत् ? तुल्यमेतदन्यत्र, निगृहीतमनसस्तदितरापेक्षयाऽसङ्ख्यगुणनिर्जरायोगित्वात्, तस्याञ्च तन्मनोनिग्रह एव हेतुरिति भावनीयम् / अपि चेच्छानिरोधस्तप इत्यागमविदः, स च परमार्थतो मनोनिरोध एव, तदतिरिक्तच्छाया अभावात्, अतस्तपोरूपताऽस्य प्रत्येया। अथ मनोनिरोधोऽपि केन करणेन कर्त्तव्य इत्यत्राह मन एव समर्थं हि, मनसो दृढनिग्रहे। अराजः कः समर्थस्स्याद्राज्ञो निग्रहकर्मणि ? // 4-105 // द्विविधं ह्यत्र मनः, प्रशस्तमप्रशस्तं च / तयोः प्रशस्तं जिनवचनपरिशीलनतोऽहिंसाद्यनुगुणं मनः / इतरस्तु हिंसाद्यनुपाति / प्रशस्तमनसाऽप्रशस्ततन्निरोधः कर्त्तव्यः, कण्टकन्यायात् / ततोऽपि यथाऽपनीतकण्टकतया कृतकार्यत्वेन गृहीतकण्टकपरिहारः, एवं प्रशस्तमन:परिहारोऽपि स्वयमेव भवति / एवञ्च मन एवावारपारः, निमज्जननिबन्धनत्वात्, मन एव तरी, सन्तरणसाधनत्वात्, दुर्लभा तु साऽनिगृहीतमनसामित्याह 73