________________ महोपनिषद् अध्यात्मदर्शना असङ्कल्पनमात्रैकसाध्ये सकलसिद्धिदे / असङ्कल्पातिसाम्राज्ये, तिष्ठावष्टब्धतत्पदः // 4-98 // न हि मनोविलयस्य क्षत्यभावमात्रफलत्वम्, किन्तु सर्वार्थसिद्धिप्रदत्वमपि, आत्मगुणसाम्राज्यस्य सकललौकिकराज्यातिशयिनः सम्प्राप्तेस्तदेकाधीनत्वात्, अतो मनोविलय एव यतनीयम्, एवमेव प्रभुताप्राप्तेरिति हृदयम्, उक्तञ्च - यत्र तर्का न गच्छन्ति यत्र नैव मनोगतिः / रागद्वेषलयो यत्र, तत्रात्मा जायते प्रभुः - इति (अध्यात्मगीतायाम् ) / अपि च न हि चञ्चलताहीनं, मनः क्वचन दृश्यते / चञ्चलत्वं मनोधर्मो, वह्वेर्धर्मो यथोष्णता // 4-99 // एषा हि चञ्चलास्पन्द-शक्तिश्चित्तत्त्वसंस्थिता / तां विद्धि मानसीं शक्ति, जगदाडम्बरात्मिकाम् // 4-100 // यत्तु चञ्चलताहीनं, तन्मनोऽमृतमुच्यते / तदेव च तपः शास्त्र-सिद्धान्ते मोक्ष उच्यते // 4-101 // चाञ्चल्यविरहस्य मनोविलयरूपत्वात्, औष्ण्यविरहस्य वह्निविलयत्ववत्, एवञ्च विलीनमनसोऽशेषसङ्कल्प