SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् अध्यात्मदर्शना तरोरिव / विलूयत इति त्वत्र पाठान्तरम्, सङ्गततरं च तत् / एतदादिवासनाविलये यथा सम्पद्यते मनोविनाशस्तदुपमयोपदर्शयति छिन्नाभ्रमण्डलं व्योम्नि, यथा शरदि धूयते / वातेन कल्पकेनैव, तथान्तधूयते मनः // 8-96 // भावनाऽभावलक्षणेन समीरेणेति गम्यते / उक्तञ्च - आलम्ब्यैकपदार्थं यदा न किञ्चिद्विचिन्तयेदन्यत् / अनुपनतेन्धनवह्निवदुपशान्तं स्यात्तदा चेतः - इति (अध्यात्मसारे) / अथ को नाम मनोविधूनने गुणविशेषः ? येनैतावता प्रबन्धेन तदुपाया उच्यन्त इत्यत्राह कल्पान्तपवना वान्तु, यान्तु चैकत्वमर्णवाः / तपन्तु द्वादशादित्या, नास्ति निर्मनसः क्षतिः // 4-97 // न हि कल्पान्तपवनादीनां क्षतिहेतुत्वम्, तथात्वे वीतरागाणामपि तत्प्रसक्तेः, अपि तु मनःसङ्क्षोभस्य, स च नास्त्येव निर्मनस्कानाम्, अतस्तेषां क्षतिविरहः, तत्तद्विप्लवादिगोचरसङ्कल्पस्यैवाभावात्, तदाह - कार्योदये मुदं नैति कार्यनाशे न खिद्यते, आमूलान्मनसि क्षीणे सङ्कल्पस्य कथा च का?- इति (संन्यासगीतायाम् ) / किञ्च
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy