________________ महोपनिषद् | अध्यात्मदर्शना भवभावनया मुक्तो, युक्तः परमया धिया / धारयात्मानमव्यग्रो, ग्रस्तचित्तं चितः पदम् // 4-92 // चिदास्पदात्मक आत्मैव गिलति चित्तम्, परमप्रेक्षापरिपूतस्यास्य समस्तसंसारवासनाविमुक्तस्य सङ्कल्पशून्यताप्रयोजकतया चित्तोपसंहारकत्वात्, अत एकाग्रतया तत्सन्धारणं कार्यमिति भावः / एतदेव स्पष्टतरमुपदेष्टि परं पौरुषमाश्रित्य, नीत्वा चित्तमचित्तताम् / ध्यानतो हृदयाकाशे, चिति चिच्चक्रधारया // 4-93 // मनो मारय निःशडूं, त्वां प्रबध्नन्ति नारयः // 4-94 // मृतानां बन्धादिप्रयोजकत्वाभावात्, मनसि मृते च सर्वेषामप्यन्तररातिगणानां मृत्युगमनात्, कासारशोषे मीनमृतिगमनवत् / अथाशक्यमेव मनोमरणम्, असङ्कल्पनस्यैवासम्भवादिति चेत् ? अत्राह अयं सोऽहमिदं तन्म एतावन्मात्रकं मनः / तदभावनमात्रेण, दात्रेणेव विलीयते // 8-95 // तथा चैतदाद्यधिकृत्यैव तत्तदुद्देशेन प्रवर्त्तते मनः, यदा तु तदभावना, तदा निराश्रयतया मनसो विलय एव, क्षितिविरहे