SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् | अध्यात्मदर्शना FFFFFFFFFFFFFFFFFFFER स्वायत्तमेकान्तहितं, स्वेप्सितत्यागवेदनम् / यस्य दुष्करतां यातं, धिक् तं पुरुषकीटकम् // 4-89 // पुरुषरूपेण कीट एव स, वशितालक्षणपौरुषविरहात् / स्ववशी हि पुरुषः, न त्विच्छावनितादास इति / तस्मात् स्वपौरुषैकसाध्येन, स्वेप्सितत्यागरूपिणा / मन:प्रशममात्रेण, विना नास्ति शुभा गतिः // 4-90 // तदनुपशमस्यैव सर्वाशुभसवितृत्वात् / अतः असङ्कल्पनशस्त्रेण, छिन्नं चित्तमिदं यदा / सर्वं सर्वगतं शान्तं, ब्रह्म सम्पद्यते तदा // 4-91 // सङ्कल्पलक्षणं हि मनः, यदा हि तस्यैवाभावः, तदा स्वरूपविहीनं कुत्र तिष्ठतु मनः ? स्वरूपाभावस्यैवाभावरूपत्वात् / एष एव हि शशशृङ्गादेरभावः, यत्तत्स्वरूपाभाव इति भावनीयम् / ब्रह्मसर्वगता तु प्रागुक्तनीत्याऽभिसन्धेया, तदज्ञेयाभावात् / एवञ्च
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy