________________ महोपनिषद् अध्यात्मदर्शना लक्ष्यालक्ष्यमतिं त्यक्त्वा, यस्तिष्ठेत् केवलात्मना / शिव एव स्वयं साक्षादयं ब्रह्मविदुत्तमः // 4-85 // सदाशिवस्वस्वरूपसंवित्तेरेव वस्तुतः शिवपदसम्प्राप्तिरूपत्वात्, वदन्ति स्म - त्यजैव ध्यानं सर्वत्र मा किञ्चिद्धदि धारय / आत्मा त्वं मुक्त एवासि किं विमृश्य करिष्यसि ? - इति (अष्टावक्रगीतायाम् ) / अतस्त्याज्योक्तमतिः, तस्या मनोव्याधिरूपत्वात् / तच्चिकित्सैव तर्युच्यतामित्यत्राह - मनोव्याधेश्चिकित्सार्थ-मुपायं कथयामि ते / यद्यत्स्वाभिमतं वस्तु, तत्त्यजन् मोक्षमश्नुते // 4-88 // तत्त्यागस्येच्छानिरोधजननद्वारेणेच्छामुक्तिजनकत्वात्, तस्याश्च निश्चयतो मुक्त्यनतिरिक्तत्वात्, अत एव पारमर्षम् - पच्चक्खाणेण इच्छाणिरोहं जणयइ - इति (उत्तराध्ययने)। तथा - तृष्णामात्रात्मको बन्धस्तन्नाशो मोक्ष उच्यते - इति (अष्टावक्रगीतायाम्)। नन्वास्तामभिमतत्यागस्तद्विचारोऽपि दुष्कर इति चेत् ? अत्राह