SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ पाट महोपनिषद अध्यात्मदर्शना क्रमवत्तित्वादिति ध्येयम् / एवञ्च एकनिष्ठतया - आत्मातिरिक्ताखिलजगद्विनिवृत्तप्रेक्षतया स्वरूपैकसंलीनतयेति यावत्, अत एवान्तःस्थः - प्रबुद्धतया बहिावृत्तकौतुकः, यदाह - बहिस्तुष्यति मूढात्मा पिहितज्योतिरन्तरे / तुष्यत्यन्तः प्रबुद्धात्मा बहिर्व्यावृत्तकौतुकः - इति (समाधितन्त्रे ) / यो हि यत्र तुष्यति, कथन्नाम स तत्स्थितिपरिहारं विदध्यादिति / एवञ्च संविन्मात्रपरो भव - चिन्मात्रचिन्तामण्याराधनैकपरायणः स्याः, तत एव सर्वकल्याणप्रसूतेः / / नन्वेवमपि दृढप्रतिबन्धविषयतया दुस्त्यजैव जगदास्थेति चेत् ? न, विचारवतस्तस्या अपि स्वरूपास्थात्वेन परिणते: सुकरपरिहारत्वात्, एतदेवाह मरुभूमौ जलं सर्वं, मरुभूमात्रमेव तत् / जगत्त्रयमिदं सर्वं, चिन्मानं स्वविचारतः // 4-84 // यथा प्रतिभासमानमपि मृगतृष्णापानीयं वस्तुतो मरुभूमिरेव भवति, तत्र वास्तवजलाभावात्, एवं सर्वमपीदं विश्वं चिन्मात्रम्, विचार्यमाणस्य तस्य तद्धेतुत्वसिद्धेः, क्षित्यम्बुप्रभृतितत्तत्पुद्गलपरिणतेरपि चिद्विकारनिदानत्वात् / एवञ्च विश्वस्यापि विश्वस्य कथञ्चित् स्वमात्रत्वसिद्धौ प्राप्याप्राप्यविरहात्स्वरूपस्थितिरेव कर्तव्यतयाऽवशिष्यते, सैव च मुक्तिपर्याय इत्याशयेनाऽऽह EEEEEEEEEEEEEEEEEEEE
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy